Click on words to see what they mean.

व्यास उवाच ।गन्धान्रसान्नानुरुन्ध्यात्सुखं वा नालंकारांश्चाप्नुयात्तस्य तस्य ।मानं च कीर्तिं च यशश्च नेच्छेत्स वै प्रचारः पश्यतो ब्राह्मणस्य ॥ १ ॥
सर्वान्वेदानधीयीत शुश्रूषुर्ब्रह्मचर्यवान् ।ऋचो यजूंषि सामानि न तेन न स ब्राह्मणः ॥ २ ॥
ज्ञातिवत्सर्वभूतानां सर्ववित्सर्ववेदवित् ।नाकामो म्रियते जातु न तेन न च ब्राह्मणः ॥ ३ ॥
इष्टीश्च विविधाः प्राप्य क्रतूंश्चैवाप्तदक्षिणान् ।नैव प्राप्नोति ब्राह्मण्यमभिध्यानात्कथंचन ॥ ४ ॥
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति ।यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥ ५ ॥
यदा न कुरुते भावं सर्वभूतेषु पापकम् ।कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ ६ ॥
कामबन्धनमेवैकं नान्यदस्तीह बन्धनम् ।कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते ॥ ७ ॥
कामतो मुच्यमानस्तु धूम्राभ्रादिव चन्द्रमाः ।विरजाः कालमाकाङ्क्षन्धीरो धैर्येण वर्तते ॥ ८ ॥
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।स कामकान्तो न तु कामकामः स वै लोकात्स्वर्गमुपैति देही ॥ ९ ॥
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः ।दमस्योपनिषद्दानं दानस्योपनिषत्तपः ॥ १० ॥
तपसोपनिषत्त्यागस्त्यागस्योपनिषत्सुखम् ।सुखस्योपनिषत्स्वर्गः स्वर्गस्योपनिषच्छमः ॥ ११ ॥
क्लेदनं शोकमनसोः संतापं तृष्णया सह ।सत्त्वमिच्छसि संतोषाच्छान्तिलक्षणमुत्तमम् ॥ १२ ॥
विशोको निर्ममः शान्तः प्रसन्नात्मात्मवित्तमः ।षड्भिर्लक्षणवानेतैः समग्रः पुनरेष्यति ॥ १३ ॥
षड्भिः सत्त्वगुणोपेतैः प्राज्ञैरधिकमन्त्रिभिः ।ये विदुः प्रेत्य चात्मानमिहस्थांस्तांस्तथा विदुः ॥ १४ ॥
अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम् ।अध्यात्मं सुकृतप्रज्ञः सुखमव्ययमश्नुते ॥ १५ ॥
निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः ।यामयं लभते तुष्टिं सा न शक्यमतोऽन्यथा ॥ १६ ॥
येन तृप्यत्यभुञ्जानो येन तुष्यत्यवित्तवान् ।येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित् ॥ १७ ॥
संगोप्य ह्यात्मनो द्वाराण्यपिधाय विचिन्तयन् ।यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते ॥ १८ ॥
समाहितं परे तत्त्वे क्षीणकाममवस्थितम् ।सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा ॥ १९ ॥
सविशेषाणि भूतानि गुणांश्चाभजतो मुनेः ।सुखेनापोह्यते दुःखं भास्करेण तमो यथा ॥ २० ॥
तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम् ।ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः ॥ २१ ॥
स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते ।इन्द्रियाणीन्द्रियार्थांश्च शरीरस्थोऽतिवर्तते ॥ २२ ॥
कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम् ।पुनरावर्तनं नास्ति संप्राप्तस्य परात्परम् ॥ २३ ॥
« »