Click on words to see what they mean.

शुक उवाच ।यस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन ।यो विशिष्टश्च धर्मेभ्यस्तं भवान्प्रब्रवीतु मे ॥ १ ॥
व्यास उवाच ।धर्मं ते संप्रवक्ष्यामि पुराणमृषिसंस्तुतम् ।विशिष्टं सर्वधर्मेभ्यस्तमिहैकमनाः शृणु ॥ २ ॥
इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः ।सर्वतो निष्पतिष्णूनि पिता बालानिवात्मजान् ॥ ३ ॥
मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः ।तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥ ४ ॥
तानि सर्वाणि संधाय मनःषष्ठानि मेधया ।आत्मतृप्त इवासीत बहु चिन्त्यमचिन्तयन् ॥ ५ ॥
गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि ।तदा त्वमात्मनात्मानं परं द्रक्ष्यसि शाश्वतम् ॥ ६ ॥
सर्वात्मानं महात्मानं विधूममिव पावकम् ।तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ॥ ७ ॥
यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः ।आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ॥ ८ ॥
एवमात्मा न जानीते क्व गमिष्ये कुतो न्वहम् ।अन्यो ह्यत्रान्तरात्मास्ति यः सर्वमनुपश्यति ॥ ९ ॥
ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना ।दृष्ट्वा त्वमात्मनात्मानं निरात्मा भव सर्ववित् ॥ १० ॥
विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः ।परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः ॥ ११ ॥
सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिनीम् ।पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम् ॥ १२ ॥
लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् ।सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥ १३ ॥
अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः ।प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम् ॥ १४ ॥
संसारसागरगमां योनिपातालदुस्तराम् ।आत्मजन्मोद्भवां तात जिह्वावर्तां दुरासदाम् ॥ १५ ॥
यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः ।तां तीर्णः सर्वतोमुक्तो विपूतात्मात्मविच्छुचिः ॥ १६ ॥
उत्तमां बुद्धिमास्थाय ब्रह्मभूयं गमिष्यसि ।संतीर्णः सर्वसंक्लेशान्प्रसन्नात्मा विकल्मषः ॥ १७ ॥
भूमिष्ठानीव भूतानि पर्वतस्थो निशामय ।अक्रुध्यन्नप्रहृष्यंश्च ननृशंसमतिस्तथा ।ततो द्रक्ष्यसि भूतानां सर्वेषां प्रभवाप्ययौ ॥ १८ ॥
एवं वै सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः ।धर्मं धर्मभृतां श्रेष्ठ मुनयस्तत्त्वदर्शिनः ॥ १९ ॥
आत्मनोऽव्ययिनो ज्ञात्वा इदं पुत्रानुशासनम् ।प्रयताय प्रवक्तव्यं हितायानुगताय च ॥ २० ॥
आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् ।अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा ॥ २१ ॥
नैव स्त्री न पुमानेतन्नैव चेदं नपुंसकम् ।अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम् ॥ २२ ॥
नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुयात् ।अभवप्रतिपत्त्यर्थमेतद्वर्त्म विधीयते ॥ २३ ॥
यथा मतानि सर्वाणि न चैतानि यथा तथा ।कथितानि मया पुत्र भवन्ति न भवन्ति च ॥ २४ ॥
तत्प्रीतियुक्तेन गुणान्वितेन पुत्रेण सत्पुत्रगुणान्वितेन ।पृष्टो हीदं प्रीतिमता हितार्थं ब्रूयात्सुतस्येह यदुक्तमेतत् ॥ २५ ॥
« »