Click on words to see what they mean.

व्यास उवाच ।मनः प्रसृजते भावं बुद्धिरध्यवसायिनी ।हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना ॥ १ ॥
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः ।मनसस्तु परा बुद्धिर्बुद्धेरात्मा परो मतः ॥ २ ॥
बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनोऽऽत्मिका ।यदा विकुरुते भावं तदा भवति सा मनः ॥ ३ ॥
इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियते ह्यणु ।शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥ ४ ॥
पश्यन्ती भवते दृष्टी रसती रसनं भवेत् ।जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक् ॥ ५ ॥
इन्द्रियाणीति तान्याहुस्तेष्वदृश्याधितिष्ठति ।तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते ॥ ६ ॥
कदाचिल्लभते प्रीतिं कदाचिदपि शोचते ।न सुखेन न दुःखेन कदाचिदिह युज्यते ॥ ७ ॥
सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते ।सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥ ८ ॥
यदा प्रार्थयते किंचित्तदा भवति सा मनः ।अधिष्ठानानि वै बुद्ध्या पृथगेतानि संस्मरेत् ।इन्द्रियाण्येव मेध्यानि विजेतव्यानि कृत्स्नशः ॥ ९ ॥
सर्वाण्येवानुपूर्व्येण यद्यन्नानुविधीयते ।अविभागगता बुद्धिर्भावे मनसि वर्तते ।प्रवर्तमानं तु रजः सत्त्वमप्यनुवर्तते ॥ १० ॥
ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु ।अन्वर्थाः संप्रवर्तन्ते रथनेमिमरा इव ॥ ११ ॥
प्रदीपार्थं नरः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः ।निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥ १२ ॥
एवंस्वभावमेवेदमिति विद्वान्न मुह्यति ।अशोचन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥ १३ ॥
न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः ।प्रवर्तमानैरनये दुर्धरैरकृतात्मभिः ॥ १४ ॥
तेषां तु मनसा रश्मीन्यदा सम्यङ्नियच्छति ।तदा प्रकाशते ह्यात्मा घटे दीप इव ज्वलन् ।सर्वेषामेव भूतानां तमस्यपगते यथा ॥ १५ ॥
यथा वारिचरः पक्षी न लिप्यति जले चरन् ।एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् ।असज्जमानः सर्वेषु न कथंचन लिप्यते ॥ १६ ॥
त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदात्मनि ।सर्वभूतात्मभूतस्य गुणमार्गेष्वसज्जतः ॥ १७ ॥
सत्त्वमात्मा प्रसवति गुणान्वापि कदा च न ।न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ॥ १८ ॥
परिद्रष्टा गुणानां स स्रष्टा चैव यथातथम् ।सत्त्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः ॥ १९ ॥
सृजते तु गुणानेक एको न सृजते गुणान् ।पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा ॥ २० ॥
यथा मत्स्योऽद्भिरन्यः सन्संप्रयुक्तौ तथैव तौ ।मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सह ॥ २१ ॥
इषीका वा यथा मुञ्जे पृथक्च सह चैव च ।तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ ॥ २२ ॥
« »