Click on words to see what they mean.

शुक उवाच ।अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे ।यदध्यात्मं यथा चेदं भगवन्नृषिसत्तम ॥ १ ॥
व्यास उवाच ।अध्यात्मं यदिदं तात पुरुषस्येह विद्यते ।तत्तेऽहं संप्रवक्ष्यामि तस्य व्याख्यामिमां शृणु ॥ २ ॥
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च ।महाभूतानि भूतानां सागरस्योर्मयो यथा ॥ ३ ॥
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः ।तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते ॥ ४ ॥
इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम् ।सर्गे च प्रलये चैव तस्मान्निर्दिश्यते तथा ॥ ५ ॥
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् ।अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति ॥ ६ ॥
शुक उवाच ।अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत् ।इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत् ॥ ७ ॥
व्यास उवाच ।एतत्ते वर्तयिष्यामि यथावदिह दर्शनम् ।शृणु तत्त्वमिहैकाग्रो यथातत्त्वं यथा च तत् ॥ ८ ॥
शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम् ।प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥ ९ ॥
रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते ।रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसाम् ॥ १० ॥
घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः ।एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः ॥ ११ ॥
वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते ।आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥ १२ ॥
मनो बुद्धिश्च भावश्च त्रय एतेऽऽत्मयोनिजाः ।न गुणानतिवर्तन्ते गुणेभ्यः परमा मताः ॥ १३ ॥
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते ।सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम् ॥ १४ ॥
चक्षुरालोचनायैव संशयं कुरुते मनः ।बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥ १५ ॥
रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः ।समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत् ॥ १६ ॥
यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति ।एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति ॥ १७ ॥
यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति ।एतस्मिन्नेव कृत्ये वै वर्तते बुद्धिरुत्तमा ॥ १८ ॥
गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि ।मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ॥ १९ ॥
तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत् ।प्रशान्तमिव संशुद्धं सत्त्वं तदुपधारयेत् ॥ २० ॥
यत्तु संतापसंयुक्तं काये मनसि वा भवेत् ।रजः प्रवर्तकं तत्स्यात्सततं हारि देहिनाम् ॥ २१ ॥
यत्तु संमोहसंयुक्तमव्यक्तविषयं भवेत् ।अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम् ॥ २२ ॥
प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता ।अकस्माद्यदि वा कस्माद्वर्तते सात्त्विको गुणः ॥ २३ ॥
अभिमानो मृषावादो लोभो मोहस्तथाक्षमा ।लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः ॥ २४ ॥
तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता ।कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥ २५ ॥
« »