Click on words to see what they mean.

शुक उवाच ।वर्तमानस्तथैवात्र वानप्रस्थाश्रमे यथा ।योक्तव्योऽऽत्मा यथा शक्त्या परं वै काङ्क्षता पदम् ॥ १ ॥
व्यास उवाच ।प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम् ।यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु ॥ २ ॥
कषायं पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु ।प्रव्रजेच्च परं स्थानं परिव्रज्यामनुत्तमाम् ॥ ३ ॥
तद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा ।एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् ॥ ४ ॥
एकश्चरति यः पश्यन्न जहाति न हीयते ।अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत् ॥ ५ ॥
अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः ।लघ्वाशी नियताहारः सकृदन्ननिषेविता ॥ ६ ॥
कपालं वृक्षमूलानि कुचेलमसहायता ।उपेक्षा सर्वभूतानामेतावद्भिक्षुलक्षणम् ॥ ७ ॥
यस्मिन्वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव ।न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत् ॥ ८ ॥
नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित् ।ब्राह्मणानां विशेषेण नैव ब्रूयात्कथंचन ॥ ९ ॥
यद्ब्राह्मणस्य कुशलं तदेव सततं वदेत् ।तूष्णीमासीत निन्दायां कुर्वन्भेषजमात्मनः ॥ १० ॥
येन पूर्णमिवाकाशं भवत्येकेन सर्वदा ।शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः ॥ ११ ॥
येन केनचिदाच्छन्नो येन केनचिदाशितः ।यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः ॥ १२ ॥
अहेरिव गणाद्भीतः सौहित्यान्नरकादिव ।कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ॥ १३ ॥
न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः ।सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ॥ १४ ॥
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।कालमेव प्रतीक्षेत निदेशं भृतको यथा ॥ १५ ॥
अनभ्याहतचित्तः स्यादनभ्याहतवाक्तथा ।निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम् ॥ १६ ॥
अभयं सर्वभूतेभ्यो भूतानामभयं यतः ।तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥ १७ ॥
यथा नागपदेऽन्यानि पदानि पदगामिनाम् ।सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ॥ १८ ॥
एवं सर्वमहिंसायां धर्मार्थमपिधीयते ।अमृतः स नित्यं वसति योऽहिंसां प्रतिपद्यते ॥ १९ ॥
अहिंसकः समः सत्यो धृतिमान्नियतेन्द्रियः ।शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम् ॥ २० ॥
एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः ।न मृत्युरतिगो भावः स मृत्युमधिगच्छति ॥ २१ ॥
विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम् ।अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः ॥ २२ ॥
जीवितं यस्य धर्मार्थं धर्मोऽरत्यर्थमेव च ।अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ॥ २३ ॥
निराशिषमनारम्भं निर्नमस्कारमस्तुतिम् ।अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः ॥ २४ ॥
सर्वाणि भूतानि सुखे रमन्ते सर्वाणि दुःखस्य भृशं त्रसन्ति ।तेषां भयोत्पादनजातखेदः कुर्यान्न कर्माणि हि श्रद्दधानः ॥ २५ ॥
दानं हि भूताभयदक्षिणायाः सर्वाणि दानान्यधितिष्ठतीह ।तीक्ष्णां तनुं यः प्रथमं जहाति सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः ॥ २६ ॥
उत्तान आस्येन हविर्जुहोति लोकस्य नाभिर्जगतः प्रतिष्ठा ।तस्याङ्गमङ्गानि कृताकृतं च वैश्वानरः सर्वमेव प्रपेदे ॥ २७ ॥
प्रादेशमात्रे हृदि निश्रितं यत्तस्मिन्प्राणानात्मयाजी जुहोति ।तस्याग्निहोत्रं हुतमात्मसंस्थं सर्वेषु लोकेषु सदैवतेषु ॥ २८ ॥
दैवं त्रिधातुं त्रिवृतं सुपर्णं ये विद्युरग्र्यं परमार्थतां च ।ते सर्वलोकेषु महीयमाना देवाः समर्थाः सुकृतं व्रजन्ति ॥ २९ ॥
वेदांश्च वेद्यं च विधिं च कृत्स्नमथो निरुक्तं परमार्थतां च ।सर्वं शरीरात्मनि यः प्रवेद तस्मै स्म देवाः स्पृहयन्ति नित्यम् ॥ ३० ॥
भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं योऽण्डजमण्डमध्ये ।पतत्रिणं पक्षिणमन्तरिक्षे यो वेद भोग्यात्मनि दीप्तरश्मिः ॥ ३१ ॥
आवर्तमानमजरं विवर्तनं षण्णेमिकं द्वादशारं सुपर्व ।यस्येदमास्ये परियाति विश्वं तत्कालचक्रं निहितं गुहायाम् ॥ ३२ ॥
यः संप्रसादं जगतः शरीरं सर्वान्स लोकानधिगच्छतीह ।तस्मिन्हुतं तर्पयतीह देवांस्ते वै तृप्तास्तर्पयन्त्यास्यमस्य ॥ ३३ ॥
तेजोमयो नित्यतनुः पुराणो लोकाननन्तानभयानुपैति ।भूतानि यस्मान्न त्रसन्ते कदाचित्स भूतेभ्यो न त्रसते कदाचित् ॥ ३४ ॥
अगर्हणीयो न च गर्हतेऽन्यान्स वै विप्रः परमात्मानमीक्षेत् ।विनीतमोहो व्यपनीतकल्मषो न चेह नामुत्र च योऽर्थमृच्छति ॥ ३५ ॥
अरोषमोहः समलोष्टकाञ्चनः प्रहीणशोको गतसंधिविग्रहः ।अपेतनिन्दास्तुतिरप्रियाप्रियश्चरन्नुदासीनवदेष भिक्षुकः ॥ ३६ ॥
« »