Click on words to see what they mean.

शुक उवाच ।क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च ।बुद्ध्यैश्वर्याभिसर्गार्थं यद्ध्यानं चात्मनः शुभम् ॥ १ ॥
भूय एव तु लोकेऽस्मिन्सद्वृत्तिं वृत्तिहैतुकीम् ।यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्णितम् ॥ २ ॥
वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च ।कथमेतद्विजानीयां तच्च व्याख्यातुमर्हसि ॥ ३ ॥
लोकवृत्तान्ततत्त्वज्ञः पूतोऽहं गुरुशासनात् ।कृत्वा बुद्धिं वियुक्तात्मा त्यक्ष्याम्यात्मानमव्यथः ॥ ४ ॥
व्यास उवाच ।यैषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम् ।एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः ॥ ५ ॥
ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः ।आत्मनश्च हृदि श्रेयस्त्वन्विच्छ मनसात्मनि ॥ ६ ॥
वने मूलफलाशी च तप्यन्सुविपुलं तपः ।पुण्यायतनचारी च भूतानामविहिंसकः ॥ ७ ॥
विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये ।काले प्राप्ते चरन्भैक्षं कल्पते ब्रह्मभूयसे ॥ ८ ॥
निःस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे ।अरण्ये विचरैकाकी येन केनचिदाशितः ॥ ९ ॥
शुक उवाच ।यदिदं वेदवचनं लोकवादे विरुध्यते ।प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः ॥ १० ॥
इत्येतच्छ्रोतुमिच्छामि भगवान्प्रब्रवीतु मे ।कर्मणामविरोधेन कथमेतत्प्रवर्तते ॥ ११ ॥
भीष्म उवाच ।इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम् ।ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः ॥ १२ ॥
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ।यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम् ॥ १३ ॥
एको य आश्रमानेताननुतिष्ठेद्यथाविधि ।अकामद्वेषसंयुक्तः स परत्र महीयते ॥ १४ ॥
चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता ।एतामाश्रित्य निःश्रेणीं ब्रह्मलोके महीयते ॥ १५ ॥
आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः ।गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः ॥ १६ ॥
कर्मातिरेकेण गुरोरध्येतव्यं बुभूषता ।दक्षिणो नापवादी स्यादाहूतो गुरुमाश्रयेत् ॥ १७ ॥
जघन्यशायी पूर्वं स्यादुत्थायी गुरुवेश्मनि ।यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः ॥ १८ ॥
कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः ।किंकरः सर्वकारी च सर्वकर्मसु कोविदः ॥ १९ ॥
शुचिर्दक्षो गुणोपेतो ब्रूयादिषुरिवात्वरः ।चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः ॥ २० ॥
नाभुक्तवति चाश्नीयादपीतवति नो पिबेत् ।न तिष्ठति तथासीत नासुप्ते प्रस्वपेत च ॥ २१ ॥
उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत् ।दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत् ॥ २२ ॥
अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति ।इदं करिष्ये भगवन्निदं चापि कृतं मया ॥ २३ ॥
इति सर्वमनुज्ञाप्य निवेद्य गुरवे धनम् ।कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः ॥ २४ ॥
यांस्तु गन्धान्रसान्वापि ब्रह्मचारी न सेवते ।सेवेत तान्समावृत्त इति धर्मेषु निश्चयः ॥ २५ ॥
ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः ।तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः ॥ २६ ॥
स एवं गुरवे प्रीतिमुपहृत्य यथाबलम् ।आश्रमेष्वाश्रमेष्वेवं शिष्यो वर्तेत कर्मणा ॥ २७ ॥
वेदव्रतोपवासेन चतुर्थे चायुषो गते ।गुरवे दक्षिणां दत्त्वा समावर्तेद्यथाविधि ॥ २८ ॥
धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य धर्मतः ।द्वितीयमायुषो भागं गृहमेधिव्रती भवेत् ॥ २९ ॥
« »