Click on words to see what they mean.

व्यास उवाच ।द्वितीयमायुषो भागं गृहमेधी गृहे वसेत् ।धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य सुव्रतः ॥ १ ॥
गृहस्थवृत्तयश्चैव चतस्रः कविभिः स्मृताः ।कुसूलधान्यः प्रथमः कुम्भीधान्यस्त्वनन्तरम् ॥ २ ॥
अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत् ।तेषां परः परो ज्यायान्धर्मतो लोकजित्तमः ॥ ३ ॥
षट्कर्मा वर्तयत्येकस्त्रिभिरन्यः प्रवर्तते ।द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः ।गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते ॥ ४ ॥
नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून् ।प्राणी वा यदि वाप्राणी संस्कारं यजुषार्हति ॥ ५ ॥
न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः ।न भुञ्जीतान्तराकाले नानृतावाह्वयेत्स्त्रियम् ॥ ६ ॥
नास्यानश्नन्वसेद्विप्रो गृहे कश्चिदपूजितः ।तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा ॥ ७ ॥
वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः ।स्वधर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः ।तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते ॥ ८ ॥
न खरैः संप्रयातस्य स्वधर्माज्ञानकस्य च ।अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः ॥ ९ ॥
संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते ।तथैवापचमानेभ्यः प्रदेयं गृहमेधिना ॥ १० ॥
विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः ।अमृतं यज्ञशेषं स्याद्भोजनं हविषा समम् ।भृत्यशेषं तु योऽश्नाति तमाहुर्विघसाशिनम् ॥ ११ ॥
स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः ।ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः ॥ १२ ॥
वृद्धबालातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः ।मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ॥ १३ ॥
दुहित्रा दासवर्गेण विवादं न समाचरेत् ।एतान्विमुच्य संवादान्सर्वपापैः प्रमुच्यते ॥ १४ ॥
एतैर्जितैस्तु जयति सर्वाँल्लोकान्न संशयः ।आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ॥ १५ ॥
अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः ।जामयोऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः ॥ १६ ॥
संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ ।वृद्धबालातुरकृशास्त्वाकाशे प्रभविष्णवः ॥ १७ ॥
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ।छाया स्वा दाशवर्गस्तु दुहिता कृपणं परम् ॥ १८ ॥
तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसंज्वरः ।गृहधर्मरतो विद्वान्धर्मनित्यो जितक्लमः ॥ १९ ॥
न चार्थबद्धः कर्माणि धर्मं वा कंचिदाचरेत् ।गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम् ॥ २० ॥
परस्परं तथैवाहुश्चातुराश्रम्यमेव तत् ।ये चोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता ॥ २१ ॥
कुम्भीधान्यैरुञ्छशिलैः कापोतीं चास्थितैस्तथा ।यस्मिंश्चैते वसन्त्यर्हास्तद्राष्ट्रमभिवर्धते ॥ २२ ॥
दश पूर्वान्दश परान्पुनाति च पितामहान् ।गृहस्थवृत्तयस्त्वेता वर्तयेद्यो गतव्यथः ॥ २३ ॥
स चक्रचरलोकानां सदृशीं प्राप्नुयाद्गतिम् ।यतेन्द्रियाणामथ वा गतिरेषा विधीयते ॥ २४ ॥
स्वर्गलोको गृहस्थानामुदारमनसां हितः ।स्वर्गो विमानसंयुक्तो वेददृष्टः सुपुष्पितः ॥ २५ ॥
स्वर्गलोके गृहस्थानां प्रतिष्ठा नियतात्मनाम् ।ब्रह्मणा विहिता श्रेणिरेषा यस्मात्प्रमुच्यते ।द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते ॥ २६ ॥
अतः परं परममुदारमाश्रमं तृतीयमाहुस्त्यजतां कलेवरम् ।वनौकसां गृहपतिनामनुत्तमं शृणुष्वैतत्क्लिष्टशरीरकारिणाम् ॥ २७ ॥
« »