Click on words to see what they mean.

व्यास उवाच ।पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः ।सांख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया ॥ १ ॥
योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु ।एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ।आत्मनो ध्यायिनस्तात ज्ञानमेतदनुत्तमम् ॥ २ ॥
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना ।आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा ॥ ३ ॥
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ।कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥ ४ ॥
क्रोधं शमेन जयति कामं संकल्पवर्जनात् ।सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ॥ ५ ॥
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ।चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ ६ ॥
अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात् ।एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः ॥ ७ ॥
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च ।वर्जयेद्रुषितां वाचं हिंसायुक्तां मनोनुगाम् ॥ ८ ॥
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसः ।एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् ॥ ९ ॥
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ।शौचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः ॥ १० ॥
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति ।सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते ॥ ११ ॥
समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन् ।धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ।कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥ १२ ॥
मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः ।प्राग्रात्रापररात्रेषु धारयेन्मन आत्मना ॥ १३ ॥
जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम् ।ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥ १४ ॥
मनस्तु पूर्वमादद्यात्कुमीनानिव मत्स्यहा ।ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित् ॥ १५ ॥
तत एतानि संयम्य मनसि स्थापयेद्यतिः ।तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत् ॥ १६ ॥
पञ्च ज्ञानेन संधाय मनसि स्थापयेद्यतिः ।यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि ।प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते ॥ १७ ॥
विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान् ।वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मना ।सर्वं च तत्र सर्वत्र व्यापकत्वाच्च दृश्यते ॥ १८ ॥
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ।धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ॥ १९ ॥
एवं परिमितं कालमाचरन्संशितव्रतः ।आसीनो हि रहस्येको गच्छेदक्षरसात्म्यताम् ॥ २० ॥
प्रमोहो भ्रम आवर्तो घ्राणश्रवणदर्शने ।अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः ॥ २१ ॥
प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः ।तांस्तत्त्वविदनादृत्य स्वात्मनैव निवर्तयेत् ॥ २२ ॥
कुर्यात्परिचयं योगे त्रैकाल्यं नियतो मुनिः ।गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत् ॥ २३ ॥
संनियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव ।एकाग्रश्चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः ॥ २४ ॥
येनोपायेन शक्येत संनियन्तुं चलं मनः ।तं तं युक्तो निषेवेत न चैव विचलेत्ततः ॥ २५ ॥
शून्या गिरिगुहाश्चैव देवतायतनानि च ।शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥ २६ ॥
नाभिष्वजेत्परं वाचा कर्मणा मनसापि वा ।उपेक्षको यताहारो लब्धालब्धे समो भवेत् ॥ २७ ॥
यश्चैनमभिनन्देत यश्चैनमपवादयेत् ।समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥ २८ ॥
न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत् ।समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥ २९ ॥
एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः ।षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते ॥ ३० ॥
वेदनार्ताः प्रजा दृष्ट्वा समलोष्टाश्मकाञ्चनः ।एतस्मिन्निरतो मार्गे विरमेन्न विमोहितः ॥ ३१ ॥
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी ।तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥ ३२ ॥
अजं पुराणमजरं सनातनं यदिन्द्रियैरुपलभते नरोऽचलः ।अणोरणीयो महतो महत्तरं तदात्मना पश्यति युक्त आत्मवान् ॥ ३३ ॥
इदं महर्षेर्वचनं महात्मनो यथावदुक्तं मनसानुदृश्य च ।अवेक्ष्य चेयात्परमेष्ठिसात्म्यतां प्रयान्ति यां भूतगतिं मनीषिणः ॥ ३४ ॥
« »