Click on words to see what they mean.

भीष्म उवाच ।इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम् ।मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे ॥ १ ॥
शुक उवाच ।प्रजावाञ्श्रोत्रियो यज्वा वृद्धः प्रज्ञोऽनसूयकः ।अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति ॥ २ ॥
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया ।सांख्ये वा यदि वा योगे एतत्पृष्टोऽभिधत्स्व मे ॥ ३ ॥
मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं समवाप्यते ।येनोपायेन पुरुषैस्तच्च व्याख्यातुमर्हसि ॥ ४ ॥
व्यास उवाच ।नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् ।नान्यत्र सर्वसंत्यागात्सिद्धिं विन्दति कश्चन ॥ ५ ॥
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः ।भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु ॥ ६ ॥
भूमेर्देहो जलात्सारो ज्योतिषश्चक्षुषी स्मृते ।प्राणापानाश्रयो वायुः खेष्वाकाशं शरीरिणाम् ॥ ७ ॥
क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भुक्तमर्छति ।कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती ॥ ८ ॥
कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।दर्शनानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥ ९ ॥
शब्दं स्पर्शं तथा रूपं रसं गन्धं च पञ्चमम् ।इन्द्रियाणि पृथक्त्वर्थान्मनसो दर्शयन्त्युत ॥ १० ॥
इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः ।मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः ॥ ११ ॥
इन्द्रियाणां तथैवेषां सर्वेषामीश्वरं मनः ।नियमे च विसर्गे च भूतात्मा मनसस्तथा ॥ १२ ॥
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः ।प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥ १३ ॥
आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतना ।सत्त्वं हि तेजः सृजति न गुणान्वै कदाचन ॥ १४ ॥
एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः ।मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥ १५ ॥
न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः ।मनसा संप्रदीप्तेन महानात्मा प्रकाशते ॥ १६ ॥
अशब्दस्पर्शरूपं तदरसागन्धमव्ययम् ।अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ॥ १७ ॥
अव्यक्तं व्यक्तदेहेषु मर्त्येष्वमरमाश्रितम् ।योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे ॥ १८ ॥
विद्याभिजनसंपन्ने ब्राह्मणे गवि हस्तिनि ।शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १९ ॥
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च ।वसत्येको महानात्मा येन सर्वमिदं ततम् ॥ २० ॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।यदा पश्यति भूतात्मा ब्रह्म संपद्यते तदा ॥ २१ ॥
यावानात्मनि वेदात्मा तावानात्मा परात्मनि ।य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥ २२ ॥
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च ।देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ २३ ॥
शकुनीनामिवाकाशे जले वारिचरस्य वा ।यथा गतिर्न दृश्येत तथैव सुमहात्मनः ॥ २४ ॥
कालः पचति भूतानि सर्वाण्येवात्मनात्मनि ।यस्मिंस्तु पच्यते कालस्तं न वेदेह कश्चन ॥ २५ ॥
न तदूर्ध्वं न तिर्यक्च नाधो न च तिरः पुनः ।न मध्ये प्रतिगृह्णीते नैव कश्चित्कुतश्चन ॥ २६ ॥
सर्वेऽन्तःस्था इमे लोका बाह्यमेषां न किंचन ।यः सहस्रं समागच्छेद्यथा बाणो गुणच्युतः ॥ २७ ॥
नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः ।तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः ॥ २८ ॥
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् ।सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ २९ ॥
तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् ।तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥ ३० ॥
अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः ।क्षरः सर्वेषु भूतेषु दिव्यं ह्यमृतमक्षरम् ॥ ३१ ॥
नवद्वारं पुरं गत्वा हंसो हि नियतो वशी ।ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च ॥ ३२ ॥
हानिभङ्गविकल्पानां नवानां संश्रयेण च ।शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः ॥ ३३ ॥
हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम् ।तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥ ३४ ॥
« »