Click on words to see what they mean.

व्यास उवाच ।अथ चेद्रोचयेदेतद्द्रुह्येत मनसा तथा ।उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत् ॥ १ ॥
प्रज्ञया निर्मितैर्धीरास्तारयन्त्यबुधान्प्लवैः ।नाबुधास्तारयन्त्यन्यानात्मानं वा कथंचन ॥ २ ॥
छिन्नदोषो मुनिर्योगान्युक्तो युञ्जीत द्वादश ।दशकर्मसुखानर्थानुपायापायनिर्भयः ॥ ३ ॥
चक्षुराचारवित्प्राज्ञो मनसा दर्शनेन च ।यच्छेद्वाङ्मनसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम् ।ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः ॥ ४ ॥
एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः ।यदि वा सर्ववेदज्ञो यदि वाप्यनृचोऽजपः ॥ ५ ॥
यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः ।यदि वा पुरुषव्याघ्रो यदि वा क्लैब्यधारिता ॥ ६ ॥
तरत्येव महादुर्गं जरामरणसागरम् ।एवं ह्येतेन योगेन युञ्जानोऽप्येकमन्ततः ।अपि जिज्ञासमानो हि शब्दब्रह्मातिवर्तते ॥ ७ ॥
धर्मोपस्थो ह्रीवरूथ उपायापायकूबरः ।अपानाक्षः प्राणयुगः प्रज्ञायुर्जीवबन्धनः ॥ ८ ॥
चेतनाबन्धुरश्चारुराचारग्रहनेमिवान् ।दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः ॥ ९ ॥
प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः ।क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः ॥ १० ॥
त्यागवर्त्मानुगः क्षेम्यः शौचगो ध्यानगोचरः ।जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते ॥ ११ ॥
अथ संत्वरमाणस्य रथमेतं युयुक्षतः ।अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम् ॥ १२ ॥
सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते ।पृष्ठतः पार्श्वतश्चान्या यावत्यस्ताः प्रधारणाः ॥ १३ ॥
क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः ।ज्योतिषो यत्तदैश्वर्यमहंकारस्य बुद्धितः ॥ १४ ॥
अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते ।विक्रमाश्चापि यस्यैते तथा युङ्क्ते स योगतः ॥ १५ ॥
अथास्य योगयुक्तस्य सिद्धिमात्मनि पश्यतः ।निर्मथ्यमानः सूक्ष्मत्वाद्रूपाणीमानि दर्शयेत् ॥ १६ ॥
शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः ।तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत ॥ १७ ॥
अथ धूमस्य विरमे द्वितीयं रूपदर्शनम् ।जलरूपमिवाकाशे तत्रैवात्मनि पश्यति ॥ १८ ॥
अपां व्यतिक्रमे चापि वह्निरूपं प्रकाशते ।तस्मिन्नुपरते चास्य पीतवस्त्रवदिष्यते ।ऊर्णारूपसवर्णं च तस्य रूपं प्रकाशते ॥ १९ ॥
अथ श्वेतां गतिं गत्वा वायव्यं सूक्ष्ममप्यजः ।अशुक्लं चेतसः सौक्ष्म्यमव्यक्तं ब्रह्मणोऽस्य वै ॥ २० ॥
एतेष्वपि हि जातेषु फलजातानि मे शृणु ।जातस्य पार्थिवैश्वर्ये सृष्टिरिष्टा विधीयते ॥ २१ ॥
प्रजापतिरिवाक्षोभ्यः शरीरात्सृजति प्रजाः ।अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा ॥ २२ ॥
पृथिवीं कम्पयत्येको गुणो वायोरिति स्मृतः ।आकाशभूतश्चाकाशे सवर्णत्वात्प्रणश्यति ॥ २३ ॥
वर्णतो गृह्यते चापि कामात्पिबति चाशयान् ।न चास्य तेजसा रूपं दृश्यते शाम्यते तथा ॥ २४ ॥
अहंकारस्य विजितेः पञ्चैते स्युर्वशानुगाः ।षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ ॥ २५ ॥
निर्दोषा प्रतिभा ह्येनं कृत्स्ना समभिवर्तते ।तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते ॥ २६ ॥
यतो निःसरते लोको भवति व्यक्तसंज्ञकः ।तत्राव्यक्तमयीं व्याख्यां शृणु त्वं विस्तरेण मे ।तथा व्यक्तमयीं चैव संख्यां पूर्वं निबोध मे ॥ २७ ॥
पञ्चविंशतितत्त्वानि तुल्यान्युभयतः समम् ।योगे सांख्येऽपि च तथा विशेषांस्तत्र मे शृणु ॥ २८ ॥
प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत् ।जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम् ॥ २९ ॥
विपरीतमतो यत्तु तदव्यक्तमुदाहृतम् ।द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ ॥ ३० ॥
चतुर्लक्षणजं त्वन्यं चतुर्वर्गं प्रचक्षते ।व्यक्तमव्यक्तजं चैव तथा बुद्धमथेतरत् ।सत्त्वं क्षेत्रज्ञ इत्येतद्द्वयमप्यनुदर्शितम् ॥ ३१ ॥
द्वावात्मानौ च वेदेषु विषयेषु च रज्यतः ।विषयात्प्रतिसंहारः सांख्यानां सिद्धिलक्षणम् ॥ ३२ ॥
निर्ममश्चानहंकारो निर्द्वंद्वश्छिन्नसंशयः ।नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः ॥ ३३ ॥
आक्रुष्टस्ताडितश्चैव मैत्रेण ध्याति नाशुभम् ।वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः ॥ ३४ ॥
समः सर्वेषु भूतेषु ब्रह्माणमभिवर्तते ।नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः ॥ ३५ ॥
अलोलुपोऽव्यथो दान्तो न कृती न निराकृतिः ।नास्येन्द्रियमनेकाग्रं नातिक्षिप्तमनोरथः ।अहिंस्रः सर्वभूतानामीदृक्सांख्यो विमुच्यते ॥ ३६ ॥
अथ योगाद्विमुच्यन्ते कारणैर्यैर्निबोध मे ।योगैश्वर्यमतिक्रान्तो योऽतिक्रामति मुच्यते ॥ ३७ ॥
इत्येषा भावजा बुद्धिः कथिता ते न संशयः ।एवं भवति निर्द्वंद्वो ब्रह्माणं चाधिगच्छति ॥ ३८ ॥
« »