Click on words to see what they mean.

व्यास उवाच ।अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमास्थितः ।उन्मज्जंश्च निमज्जंश्च ज्ञानमेवाभिसंश्रयेत् ॥ १ ॥
शुक उवाच ।किं तज्ज्ञानमथो विद्या यया निस्तरति द्वयम् ।प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि ॥ २ ॥
व्यास उवाच ।यस्तु पश्येत्स्वभावेन विना भावमचेतनः ।पुष्यते च पुनः सर्वान्प्रज्ञया मुक्तहेतुकः ॥ ३ ॥
येषां चैकान्तभावेन स्वभावः कारणं मतम् ।पूत्वा तृणबुसीकां वै ते लभन्ते न किंचन ॥ ४ ॥
ये चैनं पक्षमाश्रित्य वर्तयन्त्यल्पचेतसः ।स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते ॥ ५ ॥
स्वभावो हि विनाशाय मोहकर्ममनोभवः ।निरुक्तमेतयोरेतत्स्वभावपरभावयोः ॥ ६ ॥
कृष्यादीनि हि कर्माणि सस्यसंहरणानि च ।प्रज्ञावद्भिः प्रकॢप्तानि यानासनगृहाणि च ॥ ७ ॥
आक्रीडानां गृहाणां च गदानामगदस्य च ।प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिरनुष्ठिताः ॥ ८ ॥
प्रज्ञा संयोजयत्यर्थैः प्रज्ञा श्रेयोऽधिगच्छति ।राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः ॥ ९ ॥
पारावर्यं तु भूतानां ज्ञानेनैवोपलभ्यते ।विद्यया तात सृष्टानां विद्यैव परमा गतिः ॥ १० ॥
भूतानां जन्म सर्वेषां विविधानां चतुर्विधम् ।जराय्वण्डमथोद्भेदं स्वेदं चाप्युपलक्षयेत् ॥ ११ ॥
स्थावरेभ्यो विशिष्टानि जङ्गमान्युपलक्षयेत् ।उपपन्नं हि यच्चेष्टा विशिष्येत विशेष्ययोः ॥ १२ ॥
आहुर्द्विबहुपादानि जङ्गमानि द्वयानि च ।बहुपाद्भ्यो विशिष्टानि द्विपादानि बहून्यपि ॥ १३ ॥
द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च ।पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते ॥ १४ ॥
पार्थिवानि द्वयान्याहुर्मध्यमान्युत्तमानि च ।मध्यमानि विशिष्टानि जातिधर्मोपधारणात् ॥ १५ ॥
मध्यमानि द्वयान्याहुर्धर्मज्ञानीतराणि च ।धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात् ॥ १६ ॥
धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च ।वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः ॥ १७ ॥
वेदज्ञानि द्वयान्याहुः प्रवक्तॄणीतराणि च ।प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात् ॥ १८ ॥
विज्ञायन्ते हि यैर्वेदाः सर्वधर्मक्रियाफलाः ।सयज्ञाः सखिला वेदाः प्रवक्तृभ्यो विनिःसृताः ॥ १९ ॥
प्रवक्तॄणि द्वयान्याहुरात्मज्ञानीतराणि च ।आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात् ॥ २० ॥
धर्मद्वयं हि यो वेद स सर्वः सर्वधर्मविद् ।स त्यागी सत्यसंकल्पः स तु क्षान्तः स ईश्वरः ॥ २१ ॥
धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः ।शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम् ॥ २२ ॥
अन्तःस्थं च बहिष्ठं च येऽऽधियज्ञाधिदैवतम् ।जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः ॥ २३ ॥
तेषु विश्वमिदं भूतं साग्रं च जगदाहितम् ।तेषां माहात्म्यभावस्य सदृशं नास्ति किंचन ॥ २४ ॥
आदिं ते निधनं चैव कर्म चातीत्य सर्वशः ।चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयंभुवः ॥ २५ ॥
« »