Click on words to see what they mean.

गुरुरुवाच ।प्रवृत्तिलक्षणो धर्मो यथायमुपपद्यते ।तेषां विज्ञाननिष्ठानामन्यत्तत्त्वं न रोचते ॥ १ ॥
दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः ।प्रयोजनमतस्त्वत्र मार्गमिच्छन्ति संस्तुतम् ॥ २ ॥
सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम् ।इयं सा बुद्धिरन्येयं यया याति परां गतिम् ॥ ३ ॥
शरीरवानुपादत्ते मोहात्सर्वपरिग्रहान् ।कामक्रोधादिभिर्भावैर्युक्तो राजसतामसैः ॥ ४ ॥
नाशुद्धमाचरेत्तस्मादभीप्सन्देहयापनम् ।कर्मणो विवरं कुर्वन्न लोकानाप्नुयाच्छुभान् ॥ ५ ॥
लोहयुक्तं यथा हेम विपक्वं न विराजते ।तथापक्वकषायाख्यं विज्ञानं न प्रकाशते ॥ ६ ॥
यश्चाधर्मं चरेन्मोहात्कामलोभावनु प्लवन् ।धर्म्यं पन्थानमाक्रम्य सानुबन्धो विनश्यति ॥ ७ ॥
शब्दादीन्विषयांस्तस्मादसंरागादनुप्लवेत् ।क्रोधहर्षौ विषादश्च जायन्ते हि परस्परम् ॥ ८ ॥
पञ्चभूतात्मके देहे सत्त्वराजसतामसे ।कमभिष्टुवते चायं कं वा क्रोशति किं वदेत् ॥ ९ ॥
स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः ।नावगच्छन्त्यविज्ञानादात्मजं पार्थिवं गुणम् ॥ १० ॥
मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते ।पार्थिवोऽयं तथा देहो मृद्विकारैर्विलिप्यते ॥ ११ ॥
मधु तैलं पयः सर्पिर्मांसानि लवणं गुडः ।धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा ॥ १२ ॥
यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत् ।श्रमादाहारमादद्यादस्वाद्वपि हि यापनम् ॥ १३ ॥
तद्वत्संसारकान्तारमातिष्ठञ्श्रमतत्परः ।यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा ॥ १४ ॥
सत्यशौचार्जवत्यागैर्यशसा विक्रमेण च ।क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च ॥ १५ ॥
भावान्सर्वान्यथावृत्तान्संवसेत यथाक्रमम् ।शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च ॥ १६ ॥
सत्त्वेन रजसा चैव तमसा चैव मोहिताः ।चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम् ॥ १७ ॥
तस्मात्सम्यक्परीक्षेत दोषानज्ञानसंभवान् ।अज्ञानप्रभवं नित्यमहंकारं परित्यजेत् ॥ १८ ॥
महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः ।त्रैलोक्यं सेश्वरं सर्वमहंकारे प्रतिष्ठितम् ॥ १९ ॥
यथेह नियतं कालो दर्शयत्यार्तवान्गुणान् ।तद्वद्भूतेष्वहंकारं विद्याद्भूतप्रवर्तकम् ॥ २० ॥
संमोहकं तमो विद्यात्कृष्णमज्ञानसंभवम् ।प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान् ।सत्त्वस्य रजसश्चैव तमसश्च निबोध तान् ॥ २१ ॥
प्रमोहो हर्षजः प्रीतिरसंदेहो धृतिः स्मृतिः ।एतान्सत्त्वगुणान्विद्यादिमान्राजसतामसान् ॥ २२ ॥
कामक्रोधौ प्रमादश्च लोभमोहौ भयं क्लमः ।विषादशोकावरतिर्मानदर्पावनार्यता ॥ २३ ॥
दोषाणामेवमादीनां परीक्ष्य गुरुलाघवम् ।विमृशेदात्मसंस्थानामेकैकमनुसंततम् ॥ २४ ॥
शिष्य उवाच ।के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः ।के पुनः पुनरायान्ति के मोहादफला इव ॥ २५ ॥
केषां बलाबलं बुद्ध्या हेतुभिर्विमृशेद्बुधः ।एतत्सर्वं समाचक्ष्व यथा विद्यामहं प्रभो ॥ २६ ॥
गुरुरुवाच ।दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते ।विनाशयति संभूतमयस्मयमयो यथा ।तथाकृतात्मा सहजैर्दोषैर्नश्यति राजसैः ॥ २७ ॥
राजसं तामसं चैव शुद्धात्माकर्मसंभवम् ।तत्सर्वं देहिनां बीजं सर्वमात्मवतः समम् ॥ २८ ॥
तस्मादात्मवता वर्ज्यं रजश्च तम एव च ।रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात् ॥ २९ ॥
अथ वा मन्त्रवद्ब्रूयुर्मांसादानां यजुष्कृतम् ।हेतुः स एवानादाने शुद्धधर्मानुपालने ॥ ३० ॥
रजसा धर्मयुक्तानि कार्याण्यपि समाप्नुयात् ।अर्थयुक्तानि चात्यर्थं कामान्सर्वांश्च सेवते ॥ ३१ ॥
तमसा लोभयुक्तानि क्रोधजानि च सेवते ।हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः ॥ ३२ ॥
सत्त्वस्थः सात्त्विकान्भावाञ्शुद्धान्पश्यति संश्रितः ।स देही विमलः श्रीमाञ्शुद्धो विद्यासमन्वितः ॥ ३३ ॥
« »