Click on words to see what they mean.

मनुरुवाच ।यदिन्द्रियैस्तूपकृतान्पुरस्तात्प्राप्तान्गुणान्संस्मरते चिराय ।तेष्विन्द्रियेषूपहतेषु पश्चात्स बुद्धिरूपः परमः स्वभावः ॥ १ ॥
यथेन्द्रियार्थान्युगपत्समस्तान्नावेक्षते कृत्स्नमतुल्यकालम् ।यथाबलं संचरते स विद्वांस्तस्मात्स एकः परमः शरीरी ॥ २ ॥
रजस्तमः सत्त्वमथो तृतीयं गच्छत्यसौ ज्ञानगुणान्विरूपान् ।तथेन्द्रियाण्याविशते शरीरी हुताशनं वायुरिवेन्धनस्थम् ॥ ३ ॥
न चक्षुषा पश्यति रूपमात्मनो न पश्यति स्पर्शनमिन्द्रियेन्द्रियम् ।न श्रोत्रलिङ्गं श्रवणे निदर्शनं तथागतं पश्यति तद्विनश्यति ॥ ४ ॥
श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना ।सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति ॥ ५ ॥
यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसो यथा ।न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता ॥ ६ ॥
तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ ।अदृष्टपूर्वश्चक्षुर्भ्यां न चासौ नास्ति तावता ॥ ७ ॥
पश्यन्नपि यथा लक्ष्म जगत्सोमे न विन्दति ।एवमस्ति न वेत्येतन्न च तन्न परायणम् ॥ ८ ॥
रूपवन्तमरूपत्वादुदयास्तमये बुधाः ।धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम् ॥ ९ ॥
तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः ।प्रत्यासन्नं निनीषन्ति ज्ञेयं ज्ञानाभिसंहितम् ॥ १० ॥
न हि खल्वनुपायेन कश्चिदर्थोऽभिसिध्यति ।सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः ॥ ११ ॥
मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा ।गजानां च गजैरेवं ज्ञेयं ज्ञानेन गृह्यते ॥ १२ ॥
अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम् ।तद्वन्मूर्तिषु मूर्तिष्ठं ज्ञेयं ज्ञानेन पश्यति ॥ १३ ॥
नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि ।तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति ॥ १४ ॥
यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते ।न च नाशोऽस्य भवति तथा विद्धि शरीरिणम् ॥ १५ ॥
क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते ।तद्वन्मूर्तिवियुक्तः सञ्शरीरी नोपलभ्यते ॥ १६ ॥
यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः ।तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः ॥ १७ ॥
जन्मवृद्धिक्षयश्चास्य प्रत्यक्षेणोपलभ्यते ।सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः ॥ १८ ॥
उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते ।चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान् ॥ १९ ॥
नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः ।विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम् ॥ २० ॥
यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते ।तद्वच्छरीरसंयुक्तः शरीरीत्युपलभ्यते ॥ २१ ॥
यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते ।तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते ॥ २२ ॥
यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः ।तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः ॥ २३ ॥
« »