Click on words to see what they mean.

मनुरुवाच ।अक्षरात्खं ततो वायुर्वायोर्ज्योतिस्ततो जलम् ।जलात्प्रसूता जगती जगत्यां जायते जगत् ॥ १ ॥
इमे शरीरैर्जलमेव गत्वा जलाच्च तेजः पवनोऽन्तरिक्षम् ।खाद्वै निवर्तन्ति नभाविनस्ते ये भाविनस्ते परमाप्नुवन्ति ॥ २ ॥
नोष्णं न शीतं मृदु नापि तीक्ष्णं नाम्लं कषायं मधुरं न तिक्तम् ।न शब्दवन्नापि च गन्धवत्तन्न रूपवत्तत्परमस्वभावम् ॥ ३ ॥
स्पर्शं तनुर्वेद रसं तु जिह्वा घ्राणं च गन्धाञ्श्रवणे च शब्दान् ।रूपाणि चक्षुर्न च तत्परं यद्गृह्णन्त्यनध्यात्मविदो मनुष्याः ॥ ४ ॥
निवर्तयित्वा रसनं रसेभ्यो घ्राणं च गन्धाच्छ्रवणे च शब्दात् ।स्पर्शात्तनुं रूपगुणात्तु चक्षुस्ततः परं पश्यति स्वं स्वभावम् ॥ ५ ॥
यतो गृहीत्वा हि करोति यच्च यस्मिंश्च तामारभते प्रवृत्तिम् ।यस्मिंश्च यद्येन च यश्च कर्ता तत्कारणं तं समुपायमाहुः ॥ ६ ॥
यच्चाभिभूः साधकं व्यापकं च यन्मन्त्रवच्छंस्यते चैव लोके ।यः सर्वहेतुः परमार्थकारी तत्कारणं कार्यमतो यदन्यत् ॥ ७ ॥
यथा च कश्चित्सुकृतैर्मनुष्यः शुभाशुभं प्राप्नुतेऽथाविरोधात् ।एवं शरीरेषु शुभाशुभेषु स्वकर्मजैर्ज्ञानमिदं निबद्धम् ॥ ८ ॥
यथा प्रदीपः पुरतः प्रदीप्तः प्रकाशमन्यस्य करोति दीप्यन् ।तथेह पञ्चेन्द्रियदीपवृक्षा ज्ञानप्रदीप्ताः परवन्त एव ॥ ९ ॥
यथा हि राज्ञो बहवो ह्यमात्याः पृथक्प्रमानं प्रवदन्ति युक्ताः ।तद्वच्छरीरेषु भवन्ति पञ्च ज्ञानैकदेशः परमः स तेभ्यः ॥ १० ॥
यथार्चिषोऽग्नेः पवनस्य वेगा मरीचयोऽर्कस्य नदीषु चापः ।गच्छन्ति चायान्ति च तन्यमानास्तद्वच्छरीराणि शरीरिणां तु ॥ ११ ॥
यथा च कश्चित्परशुं गृहीत्वा धूमं न पश्येज्ज्वलनं च काष्ठे ।तद्वच्छरीरोदरपाणिपादं छित्त्वा न पश्यन्ति ततो यदन्यत् ॥ १२ ॥
तान्येव काष्ठानि यथा विमथ्य धूमं च पश्येज्ज्वलनं च योगात् ।तद्वत्सुबुद्धिः सममिन्द्रियत्वाद्बुधः परं पश्यति स्वं स्वभावम् ॥ १३ ॥
यथात्मनोऽङ्गं पतितं पृथिव्यां स्वप्नान्तरे पश्यति चात्मनोऽन्यत् ।श्रोत्रादियुक्तः सुमनाः सुबुद्धिर्लिङ्गात्तथा गच्छति लिङ्गमन्यत् ॥ १४ ॥
उत्पत्तिवृद्धिक्षयसंनिपातैर्न युज्यतेऽसौ परमः शरीरी ।अनेन लिङ्गेन तु लिङ्गमन्यद्गच्छत्यदृष्टः प्रतिसंधियोगात् ॥ १५ ॥
न चक्षुषा पश्यति रूपमात्मनो न चापि संस्पर्शमुपैति किंचित् ।न चापि तैः साधयतेऽथ कार्यं ते तं न पश्यन्ति स पश्यते तान् ॥ १६ ॥
यथा प्रदीपे ज्वलतोऽनलस्य संतापजं रूपमुपैति किंचित् ।न चान्तरं रूपगुणं बिभर्ति तथैव तद्दृश्यते रूपमस्य ॥ १७ ॥
यथा मनुष्यः परिमुच्य कायमदृश्यमन्यद्विशते शरीरम् ।विसृज्य भूतेषु महत्सु देहं तदाश्रयं चैव बिभर्ति रूपम् ॥ १८ ॥
खं वायुमग्निं सलिलं तथोर्वीं समन्ततोऽभ्याविशते शरीरी ।नानाश्रयाः कर्मसु वर्तमानाः श्रोत्रादयः पञ्च गुणाञ्श्रयन्ते ॥ १९ ॥
श्रोत्रं खतो घ्राणमथो पृथिव्यास्तेजोमयं रूपमथो विपाकः ।जलाश्रयः स्वेद उक्तो रसश्च वाय्वात्मकः स्पर्शकृतो गुणश्च ॥ २० ॥
महत्सु भूतेषु वसन्ति पञ्च पञ्चेन्द्रियार्थाश्च तथेन्द्रियेषु ।सर्वाणि चैतानि मनोनुगानि बुद्धिं मनोऽन्वेति मनः स्वभावम् ॥ २१ ॥
शुभाशुभं कर्म कृतं यदस्य तदेव प्रत्याददते स्वदेहे ।मनोऽनुवर्तन्ति परावराणि जलौकसः स्रोत इवानुकूलम् ॥ २२ ॥
चलं यथा दृष्टिपथं परैति सूक्ष्मं महद्रूपमिवाभिपाति ।स्वरूपमालोचयते च रूपं परं तथा बुद्धिपथं परैति ॥ २३ ॥
« »