Click on words to see what they mean.

भीष्म उवाच ।हन्त वक्ष्यामि ते पार्थ ध्यानयोगं चतुर्विधम् ।यं ज्ञात्वा शाश्वतीं सिद्धिं गच्छन्ति परमर्षयः ॥ १ ॥
यथा स्वनुष्ठितं ध्यानं तथा कुर्वन्ति योगिनः ।महर्षयो ज्ञानतृप्ता निर्वाणगतमानसाः ॥ २ ॥
नावर्तन्ते पुनः पार्थ मुक्ताः संसारदोषतः ।जन्मदोषपरिक्षीणाः स्वभावे पर्यवस्थिताः ॥ ३ ॥
निर्द्वंद्वा नित्यसत्त्वस्था विमुक्ता नित्यमाश्रिताः ।असङ्गीन्यविवादीनि मनःशान्तिकराणि च ॥ ४ ॥
तत्र स्वाध्यायसंश्लिष्टमेकाग्रं धारयेन्मनः ।पिण्डीकृत्येन्द्रियग्राममासीनः काष्ठवन्मुनिः ॥ ५ ॥
शब्दं न विन्देच्छ्रोत्रेण स्पर्शं त्वचा न वेदयेत् ।रूपं न चक्षुषा विद्याज्जिह्वया न रसांस्तथा ॥ ६ ॥
घ्रेयाण्यपि च सर्वाणि जह्याद्ध्यानेन योगवित् ।पञ्चवर्गप्रमाथीनि नेच्छेच्चैतानि वीर्यवान् ॥ ७ ॥
ततो मनसि संसज्य पञ्चवर्गं विचक्षणः ।समादध्यान्मनो भ्रान्तमिन्द्रियैः सह पञ्चभिः ॥ ८ ॥
विसंचारि निरालम्बं पञ्चद्वारं चलाचलम् ।पूर्वे ध्यानपथे धीरः समादध्यान्मनोऽन्तरम् ॥ ९ ॥
इन्द्रियाणि मनश्चैव यदा पिण्डीकरोत्ययम् ।एष ध्यानपथः पूर्वो मया समनुवर्णितः ॥ १० ॥
तस्य तत्पूर्वसंरुद्धं मनःषष्ठमनन्तरम् ।स्फुरिष्यति समुद्भ्रान्तं विद्युदम्बुधरे यथा ॥ ११ ॥
जलबिन्दुर्यथा लोलः पर्णस्थः सर्वतश्चलः ।एवमेवास्य तच्चित्तं भवति ध्यानवर्त्मनि ॥ १२ ॥
समाहितं क्षणं किंचिद्ध्यानवर्त्मनि तिष्ठति ।पुनर्वायुपथं भ्रान्तं मनो भवति वायुवत् ॥ १३ ॥
अनिर्वेदो गतक्लेशो गततन्द्रीरमत्सरः ।समादध्यात्पुनश्चेतो ध्यानेन ध्यानयोगवित् ॥ १४ ॥
विचारश्च वितर्कश्च विवेकश्चोपजायते ।मुनेः समादधानस्य प्रथमं ध्यानमादितः ॥ १५ ॥
मनसा क्लिश्यमानस्तु समाधानं च कारयेत् ।न निर्वेदं मुनिर्गच्छेत्कुर्यादेवात्मनो हितम् ॥ १६ ॥
पांसुभस्मकरीषाणां यथा वै राशयश्चिताः ।सहसा वारिणा सिक्ता न यान्ति परिभावनाम् ॥ १७ ॥
किंचित्स्निग्धं यथा च स्याच्छुष्कचूर्णमभावितम् ।क्रमशस्तु शनैर्गच्छेत्सर्वं तत्परिभावनम् ॥ १८ ॥
एवमेवेन्द्रियग्रामं शनैः संपरिभावयेत् ।संहरेत्क्रमशश्चैव स सम्यक्प्रशमिष्यति ॥ १९ ॥
स्वयमेव मनश्चैव पञ्चवर्गश्च भारत ।पूर्वं ध्यानपथं प्राप्य नित्ययोगेन शाम्यति ॥ २० ॥
न तत्पुरुषकारेण न च दैवेन केनचित् ।सुखमेष्यति तत्तस्य यदेवं संयतात्मनः ॥ २१ ॥
सुखेन तेन संयुक्तो रंस्यते ध्यानकर्मणि ।गच्छन्ति योगिनो ह्येवं निर्वाणं तन्निरामयम् ॥ २२ ॥
« »