Click on words to see what they mean.

युधिष्ठिर उवाच ।अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते ।यदध्यात्मं यतश्चैतत्तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि ।तद्व्याख्यास्यामि ते तात श्रेयस्करतरं सुखम् ॥ २ ॥
यज्ज्ञात्वा पुरुषो लोके प्रीतिं सौख्यं च विन्दति ।फललाभश्च सद्यः स्यात्सर्वभूतहितं च तत् ॥ ३ ॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥ ४ ॥
ततः सृष्टानि तत्रैव तानि यान्ति पुनः पुनः ।महाभूतानि भूतेषु सागरस्योर्मयो यथा ॥ ५ ॥
प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः ।तद्वद्भूतानि भूतात्मा सृष्ट्वा संहरते पुनः ॥ ६ ॥
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् ।अकरोत्तेषु वैषम्यं तत्तु जीवोऽनु पश्यति ॥ ७ ॥
शब्दः श्रोत्रं तथा खानि त्रयमाकाशयोनिजम् ।वायोस्त्वक्स्पर्शचेष्टाश्च वागित्येतच्चतुष्टयम् ॥ ८ ॥
रूपं चक्षुस्तथा पक्तिस्त्रिविधं तेज उच्यते ।रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः ॥ ९ ॥
घ्रेयं घ्राणं शरीरं च ते तु भूमिगुणास्त्रयः ।महाभूतानि पञ्चैव षष्ठं तु मन उच्यते ॥ १० ॥
इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत ।सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः ॥ ११ ॥
चक्षुरालोकनायैव संशयं कुरुते मनः ।बुद्धिरध्यवसायाय क्षेत्रज्ञः साक्षिवत्स्थितः ॥ १२ ॥
ऊर्ध्वं पादतलाभ्यां यदर्वागूर्ध्वं च पश्यति ।एतेन सर्वमेवेदं विद्ध्यभिव्याप्तमन्तरम् ॥ १३ ॥
पुरुषे चेन्द्रियाणीह वेदितव्यानि कृत्स्नशः ।तमो रजश्च सत्त्वं च विद्धि भावांस्तदाश्रयान् ॥ १४ ॥
एतां बुद्ध्वा नरो बुद्ध्या भूतानामागतिं गतिम् ।समवेक्ष्य शनैश्चैव लभते शममुत्तमम् ॥ १५ ॥
गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि ।मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ॥ १६ ॥
इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम् ।प्रलीयते चोद्भवति तस्मान्निर्दिश्यते तथा ॥ १७ ॥
येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते ।जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया ॥ १८ ॥
त्वचा स्पृशति च स्पर्शान्बुद्धिर्विक्रियतेऽसकृत् ।येन संकल्पयत्यर्थं किंचिद्भवति तन्मनः ॥ १९ ॥
अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा ।पञ्चेन्द्रियाणि यान्याहुस्तान्यदृश्योऽधितिष्ठति ॥ २० ॥
पुरुषाधिष्ठिता बुद्धिस्त्रिषु भावेषु वर्तते ।कदाचिल्लभते प्रीतिं कदाचिदनुशोचति ॥ २१ ॥
न सुखेन न दुःखेन कदाचिदपि वर्तते ।एवं नराणां मनसि त्रिषु भावेष्ववस्थिता ॥ २२ ॥
सेयं भावात्मिका भावांस्त्रीनेतान्नातिवर्तते ।सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥ २३ ॥
अतिभावगता बुद्धिर्भावे मनसि वर्तते ।प्रवर्तमानं हि रजस्तद्भावमनुवर्तते ॥ २४ ॥
इन्द्रियाणि हि सर्वाणि प्रदर्शयति सा सदा ।प्रीतिः सत्त्वं रजः शोकस्तमो मोहश्च ते त्रयः ॥ २५ ॥
ये ये च भावा लोकेऽस्मिन्सर्वेष्वेतेषु ते त्रिषु ।इति बुद्धिगतिः सर्वा व्याख्याता तव भारत ॥ २६ ॥
इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता ।सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा ॥ २७ ॥
त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते ।सात्त्विकी राजसी चैव तामसी चेति भारत ॥ २८ ॥
सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः ।तमोगुणेन संयुक्तौ भवतोऽव्यावहारिकौ ॥ २९ ॥
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ।वर्तते सात्त्विको भाव इत्यवेक्षेत तत्तदा ॥ ३० ॥
अथ यद्दुःखसंयुक्तमतुष्टिकरमात्मनः ।प्रवृत्तं रज इत्येव तन्नसंरभ्य चिन्तयेत् ॥ ३१ ॥
अथ यन्मोहसंयुक्तमव्यक्तमिव यद्भवेत् ।अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ ३२ ॥
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ।कथंचिदभिवर्तन्त इत्येते सात्त्विका गुणाः ॥ ३३ ॥
अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा ।लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः ॥ ३४ ॥
अभिमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिता ।कथंचिदभिवर्तन्ते विविधास्तामसा गुणाः ॥ ३५ ॥
दूरगं बहुधागामि प्रार्थनासंशयात्मकम् ।मनः सुनियतं यस्य स सुखी प्रेत्य चेह च ॥ ३६ ॥
सत्त्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः ।सृजते तु गुणानेक एको न सृजते गुणान् ॥ ३७ ॥
मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सदा ।अन्योन्यमन्यौ च यथा संप्रयोगस्तथा तयोः ॥ ३८ ॥
पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा ।यथा मत्स्यो जलं चैव संप्रयुक्तौ तथैव तौ ॥ ३९ ॥
न गुणा विदुरात्मानं स गुणान्वेत्ति सर्वशः ।परिद्रष्टा गुणानां च संस्रष्टा मन्यते सदा ॥ ४० ॥
इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः ।निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत् ॥ ४१ ॥
सृजते हि गुणान्सत्त्वं क्षेत्रज्ञः परिपश्यति ।संप्रयोगस्तयोरेष सत्त्वक्षेत्रज्ञयोर्ध्रुवः ॥ ४२ ॥
आश्रयो नास्ति सत्त्वस्य क्षेत्रज्ञस्य च कश्चन ।सत्त्वं मनः संसृजति न गुणान्वै कदाचन ॥ ४३ ॥
रश्मींस्तेषां स मनसा यदा सम्यङ्नियच्छति ।तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव ॥ ४४ ॥
त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः ।सर्वभूतात्मभूतः स्यात्स गच्छेत्परमां गतिम् ॥ ४५ ॥
यथा वारिचरः पक्षी लिप्यमानो न लिप्यते ।एवमेव कृतप्रज्ञो भूतेषु परिवर्तते ॥ ४६ ॥
एवंस्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः ।अशोचन्नप्रहृष्यंश्च चरेद्विगतमत्सरः ॥ ४७ ॥
स्वभावसिद्ध्या संसिद्धान्स नित्यं सृजते गुणान् ।ऊर्णनाभिर्यथा स्रष्टा विज्ञेयास्तन्तुवद्गुणाः ॥ ४८ ॥
प्रध्वस्ता न निवर्तन्ते निवृत्तिर्नोपलभ्यते ।प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति ॥ ४९ ॥
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे ।उभयं संप्रधार्यैतदध्यवस्येद्यथामति ॥ ५० ॥
इतीमं हृदयग्रन्थिं बुद्धिभेदमयं दृढम् ।विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः ॥ ५१ ॥
मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः ।अवगाह्य सुविद्वंसो विद्धि ज्ञानमिदं तथा ॥ ५२ ॥
महानदीं हि पारज्ञस्तप्यते न तरन्यथा ।एवं ये विदुरध्यात्मं कैवल्यं ज्ञानमुत्तमम् ॥ ५३ ॥
एतां बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम् ।अवेक्ष्य च शनैर्बुद्ध्या लभते शं परं ततः ॥ ५४ ॥
त्रिवर्गो यस्य विदितः प्राग्ज्योतिः स विमुच्यते ।अन्विष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ ५५ ॥
न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः ।तत्र तत्र विसृष्टेषु दुर्जयेष्वकृतात्मभिः ॥ ५६ ॥
एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् ।विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥ ५७ ॥
न भवति विदुषां ततो भयं यदविदुषां सुमहद्भयं भवेत् ।न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम् ॥ ५८ ॥
यत्करोत्यनभिसंधिपूर्वकं तच्च निर्णुदति यत्पुरा कृतम् ।नाप्रियं तदुभयं कुतः प्रियं तस्य तज्जनयतीह कुर्वतः ॥ ५९ ॥
लोक आतुरजनान्विराविणस्तत्तदेव बहु पश्य शोचतः ।तत्र पश्य कुशलानशोचतो ये विदुस्तदुभयं पदं सदा ॥ ६० ॥
« »