Click on words to see what they mean.

युधिष्ठिर उवाच ।आचारस्य विधिं तात प्रोच्यमानं त्वयानघ ।श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः ॥ १ ॥
भीष्म उवाच ।दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः ।असन्तो ह्यभिविख्याताः सन्तश्चाचारलक्षणाः ॥ २ ॥
पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः ।राजमार्गे गवां मध्ये धान्यमध्ये च ते शुभाः ॥ ३ ॥
शौचमावश्यकं कृत्वा देवतानां च तर्पणम् ।धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत् ॥ ४ ॥
सूर्यं सदोपतिष्ठेत न स्वप्याद्भास्करोदये ।सायं प्रातर्जपन्संध्यां तिष्ठेत्पूर्वां तथापराम् ॥ ५ ॥
पञ्चार्द्रो भोजनं कुर्यात्प्राङ्मुखो मौनमास्थितः ।न निन्देदन्नभक्ष्यांश्च स्वाद्वस्वादु च भक्षयेत् ॥ ६ ॥
नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि ।देवर्षिनारदप्रोक्तमेतदाचारलक्षणम् ॥ ७ ॥
शुचिकाममनड्वाहं देवगोष्ठं चतुष्पथम् ।ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम् ॥ ८ ॥
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।सामान्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते ॥ ९ ॥
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् ।नान्तरा भोजनं दृष्टमुपवासी तथा भवेत् ॥ १० ॥
होमकाले तथा जुह्वन्नृतुकाले तथा व्रजन् ।अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत् ॥ ११ ॥
अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम् ।उपासीत जनः सत्यं सत्यं सन्त उपासते ॥ १२ ॥
यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् ।न भक्षयेद्वृथामांसं पृष्ठमांसं च वर्जयेत् ॥ १३ ॥
स्वदेशे परदेशे वा अतिथिं नोपवासयेत् ।काम्यं कर्मफलं लब्ध्वा गुरूणामुपपादयेत् ॥ १४ ॥
गुरुभ्य आसनं देयं कर्तव्यं चाभिवादनम् ।गुरूनभ्यर्च्य युज्यन्ते आयुषा यशसा श्रिया ॥ १५ ॥
नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम् ।मैथुनं समये धर्म्यं गुह्यं चैव समाचरेत् ॥ १६ ॥
तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः ।सर्वमार्यकृतं शौचं वालसंस्पर्शनानि च ॥ १७ ॥
दर्शने दर्शने नित्यं सुखप्रश्नमुदाहरेत् ।सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम् ॥ १८ ॥
देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे ।स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥ १९ ॥
पण्यानां शोभनं पण्यं कृषीणां बाद्यते कृषिः ।बहुकारं च सस्यानां वाह्ये वाह्यं तथा गवाम् ॥ २० ॥
संपन्नं भोजने नित्यं पानीये तर्पणं तथा ।सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा ॥ २१ ॥
श्मश्रुकर्मणि संप्राप्ते क्षुते स्नानेऽथ भोजने ।व्याधितानां च सर्वेषामायुष्यमभिनन्दनम् ॥ २२ ॥
प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् ।सुतस्त्रिया च शयनं सहभोज्यं च वर्जयेत् ॥ २३ ॥
त्वंकारं नामधेयं च ज्येष्ठानां परिवर्जयेत् ।अवराणां समानानामुभयेषां न दुष्यति ॥ २४ ॥
हृदयं पापवृत्तानां पापमाख्याति वैकृतम् ।ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ॥ २५ ॥
ज्ञानपूर्वं कृतं पापं छादयन्त्यबहुश्रुताः ।नैनं मनुष्याः पश्यन्ति पश्यन्ति त्रिदिवौकसः ॥ २६ ॥
पापेन हि कृतं पापं पापमेवानुवर्तते ।धार्मिकेण कृतो धर्मः कर्तारमनुवर्तते ॥ २७ ॥
पापं कृतं न स्मरतीह मूढो विवर्तमानस्य तदेति कर्तुः ।राहुर्यथा चन्द्रमुपैति चापि तथाबुधं पापमुपैति कर्म ॥ २८ ॥
आशया संचितं द्रव्यं यत्काले नेह भुज्यते ।तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते ॥ २९ ॥
मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः ।तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत् ॥ ३० ॥
एक एव चरेद्धर्मं नास्ति धर्मे सहायता ।केवलं विधिमासाद्य सहायः किं करिष्यति ॥ ३१ ॥
देवा योनिर्मनुष्याणां देवानाममृतं दिवि ।प्रेत्यभावे सुखं धर्माच्छश्वत्तैरुपभुज्यते ॥ ३२ ॥
« »