Click on words to see what they mean.

भीष्म उवाच ।अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः ।दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः ॥ १ ॥
तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत ।प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत ॥ २ ॥
वातवर्षं महच्चासीन्न चागच्छति मे प्रिया ।किं नु तत्कारणं येन साद्यापि न निवर्तते ॥ ३ ॥
अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने ।तया विरहितं हीदं शून्यमद्य गृहं मम ॥ ४ ॥
यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा ।अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे ॥ ५ ॥
पतिधर्मरता साध्वी प्राणेभ्योऽपि गरीयसी ।सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी ॥ ६ ॥
अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता ।यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि ॥ ७ ॥
भार्या हि परमो नाथः पुरुषस्येह पठ्यते ।असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी ॥ ८ ॥
तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च ।नास्ति भार्यासमं किंचिन्नरस्यार्तस्य भेषजम् ॥ ९ ॥
नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः ।नास्ति भार्यासमो लोके सहायो धर्मसाधनः ॥ १० ॥
एवं विलपतस्तस्य द्विजस्यार्तस्य तत्र वै ।गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम् ॥ ११ ॥
न सा स्त्रीत्यभिभाषा स्याद्यस्या भर्ता न तुष्यति ।अग्निसाक्षिकमप्येतद्भर्ता हि शरणं स्त्रियः ॥ १२ ॥
इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा ।कपोती लुब्धकेनाथ यत्ता वचनमब्रवीत् ॥ १३ ॥
हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत्तथा ।शरणागतसंत्राता भव कान्त विशेषतः ॥ १४ ॥
एष शाकुनिकः शेते तव वासं समाश्रितः ।शीतार्तश्च क्षुधार्तश्च पूजामस्मै प्रयोजय ॥ १५ ॥
यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम् ।शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम् ॥ १६ ॥
यास्माकं विहिता वृत्तिः कापोती जातिधर्मतः ।सा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम् ॥ १७ ॥
यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते ।स प्रेत्य लभते लोकानक्षयानिति शुश्रुम ॥ १८ ॥
स त्वं संतानवानद्य पुत्रवानपि च द्विज ।तत्स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै ।पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा ॥ १९ ॥
इति सा शकुनी वाक्यं क्षारकस्था तपस्विनी ।अतिदुःखान्विता प्रोच्य भर्तारं समुदैक्षत ॥ २० ॥
स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् ।हर्षेण महता युक्तो बाष्पव्याकुललोचनः ॥ २१ ॥
तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा ।पूजयामास यत्नेन स पक्षी पक्षिजीविनम् ॥ २२ ॥
उवाच च स्वागतं ते ब्रूहि किं करवाण्यहम् ।संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥ २३ ॥
तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि ।प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः ॥ २४ ॥
शरणागतस्य कर्तव्यमातिथ्यमिह यत्नतः ।पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः ॥ २५ ॥
पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी ।तस्य नायं न च परो लोको भवति धर्मतः ॥ २६ ॥
तद्ब्रूहि त्वं सुविस्रब्धो यत्त्वं वाचा वदिष्यसि ।तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः ॥ २७ ॥
तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत् ।बाधते खलु मा शीतं हिमत्राणं विधीयताम् ॥ २८ ॥
एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतले ।यथाशुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ ॥ २९ ॥
स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागमत् ।ततः शुष्केषु पर्णेषु पावकं सोऽभ्यदीदिपत् ॥ ३० ॥
सुसंदीप्तं महत्कृत्वा तमाह शरणागतम् ।प्रतापय सुविस्रब्धं स्वगात्राण्यकुतोभयः ॥ ३१ ॥
स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत् ।अग्निप्रत्यागतप्राणस्ततः प्राह विहंगमम् ॥ ३२ ॥
दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम् ।तद्वचः स प्रतिश्रुत्य वाक्यमाह विहंगमः ॥ ३३ ॥
न मेऽस्ति विभवो येन नाशयामि तव क्षुधाम् ।उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ॥ ३४ ॥
संचयो नास्ति चास्माकं मुनीनामिव कानने ।इत्युक्त्वा स तदा तत्र विवर्णवदनोऽभवत् ॥ ३५ ॥
कथं नु खलु कर्तव्यमिति चिन्तापरः सदा ।बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः ॥ ३६ ॥
मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातकम् ।उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥ ३७ ॥
इत्युक्त्वा शुष्कपर्णैः स संप्रज्वाल्य हुताशनम् ।हर्षेण महता युक्तः कपोतः पुनरब्रवीत् ॥ ३८ ॥
देवानां च मुनीनां च पितॄणां च महात्मनाम् ।श्रुतपूर्वो मया धर्मो महानतिथिपूजने ॥ ३९ ॥
कुरुष्वानुग्रहं मेऽद्य सत्यमेतद्ब्रवीमि ते ।निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ॥ ४० ॥
ततः सत्यप्रतिज्ञो वै स पक्षी प्रहसन्निव ।तमग्निं त्रिः परिक्रम्य प्रविवेश महीपते ॥ ४१ ॥
अग्निमध्यं प्रविष्टं तं लुब्धो दृष्ट्वाथ पक्षिणम् ।चिन्तयामास मनसा किमिदं नु कृतं मया ॥ ४२ ॥
अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा ।अधर्मः सुमहान्घोरो भविष्यति न संशयः ॥ ४३ ॥
एवं बहुविधं भूरि विललाप स लुब्धकः ।गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम् ॥ ४४ ॥
« »