Click on words to see what they mean.

भीष्म उवाच ।ततस्तेषां समस्तानामृषीणामृषिसत्तमः ।ऋषभो नाम विप्रर्षिः स्मयन्निव ततोऽब्रवीत् ॥ १ ॥
पुराहं राजशार्दूल तीर्थान्यनुचरन्प्रभो ।समासादितवान्दिव्यं नरनारायणाश्रमम् ॥ २ ॥
यत्र सा बदरी रम्या ह्रदो वैहायसस्तथा ।यत्र चाश्वशिरा राजन्वेदान्पठति शाश्वतान् ॥ ३ ॥
तस्मिन्सरसि कृत्वाहं विधिवत्तर्पणं पुरा ।पितॄणां देवतानां च ततोऽऽश्रममियां तदा ॥ ४ ॥
रेमाते यत्र तौ नित्यं नरनारायणावृषी ।अदूरादाश्रमं कंचिद्वासार्थमगमं ततः ॥ ५ ॥
ततश्चीराजिनधरं कृशमुच्चमतीव च ।अद्राक्षमृषिमायान्तं तनुं नाम तपोनिधिम् ॥ ६ ॥
अन्यैर्नरैर्महाबाहो वपुषाष्टगुणान्वितम् ।कृशता चापि राजर्षे न दृष्टा तादृशी क्वचित् ॥ ७ ॥
शरीरमपि राजेन्द्र तस्य कानिष्ठिकासमम् ।ग्रीवा बाहू तथा पादौ केशाश्चाद्भुतदर्शनाः ॥ ८ ॥
शिरः कायानुरूपं च कर्णौ नेत्रे तथैव च ।तस्य वाक्चैव चेष्टा च सामान्ये राजसत्तम ॥ ९ ॥
दृष्ट्वाहं तं कृशं विप्रं भीतः परमदुर्मनाः ।पादौ तस्याभिवाद्याथ स्थितः प्राञ्जलिरग्रतः ॥ १० ॥
निवेद्य नाम गोत्रं च पितरं च नरर्षभ ।प्रदिष्टे चासने तेन शनैरहमुपाविशम् ॥ ११ ॥
ततः स कथयामास कथा धर्मार्थसंहिताः ।ऋषिमध्ये महाराज तत्र धर्मभृतां वरः ॥ १२ ॥
तस्मिंस्तु कथयत्येव राजा राजीवलोचनः ।उपायाज्जवनैरश्वैः सबलः सावरोधनः ॥ १३ ॥
स्मरन्पुत्रमरण्ये वै नष्टं परमदुर्मनाः ।भूरिद्युम्नपिता धीमान्रघुश्रेष्ठो महायशाः ॥ १४ ॥
इह द्रक्ष्यामि तं पुत्रं द्रक्ष्यामीहेति पार्थिवः ।एवमाशाकृतो राजंश्चरन्वनमिदं पुरा ॥ १५ ॥
दुर्लभः स मया द्रष्टुं नूनं परमधार्मिकः ।एकः पुत्रो महारण्ये नष्ट इत्यसकृत्तदा ॥ १६ ॥
दुर्लभः स मया द्रष्टुमाशा च महती मम ।तया परीतगात्रोऽहं मुमूर्षुर्नात्र संशयः ॥ १७ ॥
एतच्छ्रुत्वा स भगवांस्तनुर्मुनिवरोत्तमः ।अवाक्शिरा ध्यानपरो मुहूर्तमिव तस्थिवान् ॥ १८ ॥
तमनुध्यान्तमालक्ष्य राजा परमदुर्मनाः ।उवाच वाक्यं दीनात्मा मन्दं मन्दमिवासकृत् ॥ १९ ॥
दुर्लभं किं नु विप्रर्षे आशायाश्चैव किं भवेत् ।ब्रवीतु भगवानेतद्यदि गुह्यं न तन्मयि ॥ २० ॥
महर्षिर्भगवांस्तेन पूर्वमासीद्विमानितः ।बालिशां बुद्धिमास्थाय मन्दभाग्यतयात्मनः ॥ २१ ॥
अर्थयन्कलशं राजन्काञ्चनं वल्कलानि च ।निर्विण्णः स तु विप्रर्षिर्निराशः समपद्यत ॥ २२ ॥
एवमुक्त्वाभिवाद्याथ तमृषिं लोकपूजितम् ।श्रान्तो न्यषीदद्धर्मात्मा यथा त्वं नरसत्तम ॥ २३ ॥
अर्घ्यं ततः समानीय पाद्यं चैव महानृषिः ।आरण्यकेन विधिना राज्ञे सर्वं न्यवेदयत् ॥ २४ ॥
ततस्ते मुनयः सर्वे परिवार्य नरर्षभम् ।उपाविशन्पुरस्कृत्य सप्तर्षय इव ध्रुवम् ॥ २५ ॥
अपृच्छंश्चैव ते तत्र राजानमपराजितम् ।प्रयोजनमिदं सर्वमाश्रमस्य प्रवेशनम् ॥ २६ ॥
राजोवाच ।वीरद्युम्न इति ख्यातो राजाहं दिक्षु विश्रुतः ।भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः ॥ २७ ॥
एकपुत्रः स विप्राग्र्य बाल एव च सोऽनघ ।न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् ॥ २८ ॥
ऋषभ उवाच ।एवमुक्ते तु वचने राज्ञा मुनिरधोमुखः ।तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् ॥ २९ ॥
स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः ।आशाकृशं च राजेन्द्र तपो दीर्घं समास्थितः ॥ ३० ॥
प्रतिग्रहमहं राज्ञां न करिष्ये कथंचन ।अन्येषां चैव वर्णानामिति कृत्वा धियं तदा ॥ ३१ ॥
आशा हि पुरुषं बालं लालापयति तस्थुषी ।तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः ॥ ३२ ॥
राजोवाच ।आशायाः किं कृशत्वं च किं चेह भुवि दुर्लभम् ।ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् ॥ ३३ ॥
ऋषभ उवाच ।ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत् ।राजानं भगवान्विप्रस्ततः कृशतनुस्तनुः ॥ ३४ ॥
कृशत्वे न समं राजन्नाशाया विद्यते नृप ।तस्या वै दुर्लभत्वात्तु प्रार्थिताः पार्थिवा मया ॥ ३५ ॥
राजोवाच ।कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव ।दुर्लभत्वं च तस्यैव वेदवाक्यमिव द्विज ॥ ३६ ॥
संशयस्तु महाप्राज्ञ संजातो हृदये मम ।तन्मे सत्तम तत्त्वेन वक्तुमर्हसि पृच्छतः ॥ ३७ ॥
त्वत्तः कृशतरं किं नु ब्रवीतु भगवानिदम् ।यदि गुह्यं न ते विप्र लोकेऽस्मिन्किं नु दुर्लभम् ॥ ३८ ॥
कृशतनुरुवाच ।दुर्लभोऽप्यथ वा नास्ति योऽर्थी धृतिमिवाप्नुयात् ।सुदुर्लभतरस्तात योऽर्थिनं नावमन्यते ॥ ३९ ॥
संश्रुत्य नोपक्रियते परं शक्त्या यथार्हतः ।सक्ता या सर्वभूतेषु साशा कृशतरी मया ॥ ४० ॥
एकपुत्रः पिता पुत्रे नष्टे वा प्रोषिते तथा ।प्रवृत्तिं यो न जानाति साशा कृशतरी मया ॥ ४१ ॥
प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता ।तथा नरेन्द्र धनिनामाशा कृशतरी मया ॥ ४२ ॥
ऋषभ उवाच ।एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः ।संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे ॥ ४३ ॥
राजोवाच ।प्रसादये त्वा भगवन्पुत्रेणेच्छामि संगतिम् ।वृणीष्व च वरं विप्र यमिच्छसि यथाविधि ॥ ४४ ॥
ऋषभ उवाच ।अब्रवीच्च हि तं वाक्यं राजा राजीवलोचनः ।सत्यमेतद्यथा विप्र त्वयोक्तं नास्त्यतो मृषा ॥ ४५ ॥
ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः ।पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च ॥ ४६ ॥
तं समानाय्य पुत्रं तु तदोपालभ्य पार्थिवम् ।आत्मानं दर्शयामास धर्मं धर्मभृतां वरः ॥ ४७ ॥
संदर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम् ।विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् ॥ ४८ ॥
एतद्दृष्टं मया राजंस्ततश्च वचनं श्रुतम् ।आशामपनयस्वाशु ततः कृशतरीमिमाम् ॥ ४९ ॥
भीष्म उवाच ।स तत्रोक्तो महाराज ऋषभेण महात्मना ।सुमित्रोऽपनयत्क्षिप्रमाशां कृशतरीं तदा ॥ ५० ॥
एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम ।स्थिरो भव यथा राजन्हिमवानचलोत्तमः ॥ ५१ ॥
त्वं हि द्रष्टा च श्रोता च कृच्छ्रेष्वर्थकृतेष्विह ।श्रुत्वा मम महाराज न संतप्तुमिहार्हसि ॥ ५२ ॥
« »