Click on words to see what they mean.

भीष्म उवाच ।स श्वा प्रकृतिमापन्नः परं दैन्यमुपागमत् ।ऋषिणा हुंकृतः पापस्तपोवनबहिष्कृतः ॥ १ ॥
एवं राज्ञा मतिमता विदित्वा शीलशौचताम् ।आर्जवं प्रकृतिं सत्त्वं कुलं वृत्तं श्रुतं दमम् ॥ २ ॥
अनुक्रोशं बलं वीर्यं भावं संप्रशमं क्षमाम् ।भृत्या ये यत्र योग्याः स्युस्तत्र स्थाप्याः सुशिक्षिताः ॥ ३ ॥
नापरीक्ष्य महीपालः प्रकर्तुं भृत्यमर्हति ।अकुलीननराकीर्णो न राजा सुखमेधते ॥ ४ ॥
कुलजः प्रकृतो राज्ञा तत्कुलीनतया सदा ।न पापे कुरुते बुद्धिं निन्द्यमानोऽप्यनागसि ॥ ५ ॥
अकुलीनस्तु पुरुषः प्रकृतः साधुसंक्षयात् ।दुर्लभैश्वर्यतां प्राप्तो निन्दितः शत्रुतां व्रजेत् ॥ ६ ॥
कुलीनं शिक्षितं प्राज्ञं ज्ञानविज्ञानकोविदम् ।सर्वशास्त्रार्थतत्त्वज्ञं सहिष्णुं देशजं तथा ॥ ७ ॥
कृतज्ञं बलवन्तं च क्षान्तं दान्तं जितेन्द्रियम् ।अलुब्धं लब्धसंतुष्टं स्वामिमित्रबुभूषकम् ॥ ८ ॥
सचिवं देशकालज्ञं सर्वसंग्रहणे रतम् ।सत्कृतं युक्तमनसं हितैषिणमतन्द्रितम् ॥ ९ ॥
युक्ताचारं स्वविषये संधिविग्रहकोविदम् ।राज्ञस्त्रिवर्गवेत्तारं पौरजानपदप्रियम् ॥ १० ॥
खातकव्यूहतत्त्वज्ञं बलहर्षणकोविदम् ।इङ्गिताकारतत्त्वज्ञं यात्रायानविशारदम् ॥ ११ ॥
हस्तिशिक्षासु तत्त्वज्ञमहंकारविवर्जितम् ।प्रगल्भं दक्षिणं दान्तं बलिनं युक्तकारिणम् ॥ १२ ॥
चोक्षं चोक्षजनाकीर्णं सुवेषं सुखदर्शनम् ।नायकं नीतिकुशलं गुणषष्ट्या समन्वितम् ॥ १३ ॥
अस्तब्धं प्रश्रितं शक्तं मृदुवादिनमेव च ।धीरं श्लक्ष्णं महर्द्धिं च देशकालोपपादकम् ॥ १४ ॥
सचिवं यः प्रकुरुते न चैनमवमन्यते ।तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव ॥ १५ ॥
एतैरेव गुणैर्युक्तो राजा शास्त्रविशारदः ।एष्टव्यो धर्मपरमः प्रजापालनतत्परः ॥ १६ ॥
धीरो मर्षी शुचिः शीघ्रः काले पुरुषकारवित् ।शुश्रूषुः श्रुतवाञ्श्रोता ऊहापोहविशारदः ॥ १७ ॥
मेधावी धारणायुक्तो यथान्यायोपपादकः ।दान्तः सदा प्रियाभाषी क्षमावांश्च विपर्यये ॥ १८ ॥
दानाच्छेदे स्वयंकारी सुद्वारः सुखदर्शनः ।आर्तहस्तप्रदो नित्यमाप्तंमन्यो नये रतः ॥ १९ ॥
नाहंवादी न निर्द्वंद्वो न यत्किंचनकारकः ।कृते कर्मण्यमोघानां कर्ता भृत्यजनप्रियः ॥ २० ॥
संगृहीतजनोऽस्तब्धः प्रसन्नवदनः सदा ।दाता भृत्यजनावेक्षी न क्रोधी सुमहामनाः ॥ २१ ॥
युक्तदण्डो न निर्दण्डो धर्मकार्यानुशासकः ।चारनेत्रः परावेक्षी धर्मार्थकुशलः सदा ॥ २२ ॥
राजा गुणशताकीर्ण एष्टव्यस्तादृशो भवेत् ।योधाश्चैव मनुष्येन्द्र सर्वैर्गुणगुणैर्वृताः ॥ २३ ॥
अन्वेष्टव्याः सुपुरुषाः सहाया राज्यधारणाः ।न विमानयितव्याश्च राज्ञा वृद्धिमभीप्सता ॥ २४ ॥
योधाः समरशौटीराः कृतज्ञाः शस्त्रकोविदाः ।धर्मशास्त्रसमायुक्ताः पदातिजनसंयुताः ॥ २५ ॥
अर्थमानविवृद्धाश्च रथचर्याविशारदाः ।इष्वस्त्रकुशला यस्य तस्येयं नृपतेर्मही ॥ २६ ॥
सर्वसंग्रहणे युक्तो नृपो भवति यः सदा ।उत्थानशीलो मित्राढ्यः स राजा राजसत्तमः ॥ २७ ॥
शक्या अश्वसहस्रेण वीरारोहेण भारत ।संगृहीतमनुष्येण कृत्स्ना जेतुं वसुंधरा ॥ २८ ॥
« »