Click on words to see what they mean.

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।निदर्शनकरं लोके सज्जनाचरितं सदा ॥ १ ॥
अस्यैवार्थस्य सदृशं यच्छ्रुतं मे तपोवने ।जामदग्न्यस्य रामस्य यदुक्तमृषिसत्तमैः ॥ २ ॥
वने महति कस्मिंश्चिदमनुष्यनिषेविते ।ऋषिर्मूलफलाहारो नियतो नियतेन्द्रियः ॥ ३ ॥
दीक्षादमपरः शान्तः स्वाध्यायपरमः शुचिः ।उपवासविशुद्धात्मा सततं सत्पथे स्थितः ॥ ४ ॥
तस्य संदृश्य सद्भावमुपविष्टस्य धीमतः ।सर्वसत्त्वाः समीपस्था भवन्ति वनचारिणः ॥ ५ ॥
सिंहव्याघ्राः सशरभा मत्ताश्चैव महागजाः ।द्वीपिनः खड्गभल्लूका ये चान्ये भीमदर्शनाः ॥ ६ ॥
ते सुखप्रश्नदाः सर्वे भवन्ति क्षतजाशनाः ।तस्यर्षेः शिष्यवच्चैव न्यग्भूताः प्रियकारिणः ॥ ७ ॥
दत्त्वा च ते सुखप्रश्नं सर्वे यान्ति यथागतम् ।ग्राम्यस्त्वेकः पशुस्तत्र नाजहाच्छ्वा महामुनिम् ॥ ८ ॥
भक्तोऽनुरक्तः सततमुपवासकृशोऽबलः ।फलमूलोत्कराहारः शान्तः शिष्टाकृतिर्यथा ॥ ९ ॥
तस्यर्षेरुपविष्टस्य पादमूले महामुनेः ।मनुष्यवद्गतो भावः स्नेहबद्धोऽभवद्भृशम् ॥ १० ॥
ततोऽभ्ययान्महावीर्यो द्वीपी क्षतजभोजनः ।श्वार्थमत्यन्तसंदुष्टः क्रूरः काल इवान्तकः ॥ ११ ॥
लेलिह्यमानस्तृषितः पुच्छास्फोटनतत्परः ।व्यादितास्यः क्षुधाभग्नः प्रार्थयानस्तदामिषम् ॥ १२ ॥
तं दृष्ट्वा क्रूरमायान्तं जीवितार्थी नराधिप ।प्रोवाच श्वा मुनिं तत्र यत्तच्छृणु महामते ॥ १३ ॥
श्वशत्रुर्भगवन्नत्र द्वीपी मां हन्तुमिच्छति ।त्वत्प्रसादाद्भयं न स्यात्तस्मान्मम महामुने ॥ १४ ॥
मुनिरुवाच ।न भयं द्वीपिनः कार्यं मृत्युतस्ते कथंचन ।एष श्वरूपरहितो द्वीपी भवसि पुत्रक ॥ १५ ॥
भीष्म उवाच ।ततः श्वा द्वीपितां नीतो जाम्बूनदनिभाकृतिः ।चित्राङ्गो विस्फुरन्हृष्टो वने वसति निर्भयः ॥ १६ ॥
ततोऽभ्ययान्महारौद्रो व्यादितास्यः क्षुधान्वितः ।द्वीपिनं लेलिहद्वक्त्रो व्याघ्रो रुधिरलालसः ॥ १७ ॥
व्याघ्रं दृष्ट्वा क्षुधाभग्नं दंष्ट्रिणं वनगोचरम् ।द्वीपी जीवितरक्षार्थमृषिं शरणमेयिवान् ॥ १८ ॥
ततः संवासजं स्नेहमृषिणा कुर्वता सदा ।स द्वीपी व्याघ्रतां नीतो रिपुभिर्बलवत्तरः ।ततो दृष्ट्वा स शार्दूलो नाभ्यहंस्तं विशां पते ॥ १९ ॥
स तु श्वा व्याघ्रतां प्राप्य बलवान्पिशिताशनः ।न मूलफलभोगेषु स्पृहामप्यकरोत्तदा ॥ २० ॥
यथा मृगपतिर्नित्यं प्रकाङ्क्षति वनौकसः ।तथैव स महाराज व्याघ्रः समभवत्तदा ॥ २१ ॥
व्याघ्रस्तूटजमूलस्थस्तृप्तः सुप्तो हतैर्मृगैः ।नागश्चागात्तमुद्देशं मत्तो मेघ इवोत्थितः ॥ २२ ॥
प्रभिन्नकरटः प्रांशुः पद्मी विततमस्तकः ।सुविषाणो महाकायो मेघगम्भीरनिस्वनः ॥ २३ ॥
तं दृष्ट्वा कुञ्जरं मत्तमायान्तं मदगर्वितम् ।व्याघ्रो हस्तिभयात्त्रस्तस्तमृषिं शरणं ययौ ॥ २४ ॥
ततोऽनयत्कुञ्जरतां तं व्याघ्रमृषिसत्तमः ।महामेघोपमं दृष्ट्वा तं स भीतोऽभवद्गजः ॥ २५ ॥
ततः कमलषण्डानि शल्लकीगहनानि च ।व्यचरत्स मुदा युक्तः पद्मरेणुविभूषितः ॥ २६ ॥
कदाचिद्रममाणस्य हस्तिनः सुमुखं तदा ।ऋषेस्तस्योटजस्थस्य कालोऽगच्छन्निशानिशम् ॥ २७ ॥
अथाजगाम तं देशं केसरी केसरारुणः ।गिरिकन्दरजो भीमः सिंहो नागकुलान्तकः ॥ २८ ॥
तं दृष्ट्वा सिंहमायान्तं नागः सिंहभयाकुलः ।ऋषिं शरणमापेदे वेपमानो भयातुरः ॥ २९ ॥
ततः स सिंहतां नीतो नागेन्द्रो मुनिना तदा ।वन्यं नागणयत्सिंहं तुल्यजातिसमन्वयात् ॥ ३० ॥
दृष्ट्वा च सोऽनशत्सिंहो वन्यो भीसन्नवाग्बलः ।स चाश्रमेऽवसत्सिंहस्तस्मिन्नेव वने सुखी ॥ ३१ ॥
न त्वन्ये क्षुद्रपशवस्तपोवननिवासिनः ।व्यदृश्यन्त भयत्रस्ता जीविताकाङ्क्षिणः सदा ॥ ३२ ॥
कदाचित्कालयोगेन सर्वप्राणिविहिंसकः ।बलवान्क्षतजाहारो नानासत्त्वभयंकरः ॥ ३३ ॥
अष्टपादूर्ध्वचरणः शरभो वनगोचरः ।तं सिंहं हन्तुमागच्छन्मुनेस्तस्य निवेशनम् ॥ ३४ ॥
तं मुनिः शरभं चक्रे बलोत्कटमरिंदम ।ततः स शरभो वन्यो मुनेः शरभमग्रतः ।दृष्ट्वा बलिनमत्युग्रं द्रुतं संप्राद्रवद्भयात् ॥ ३५ ॥
स एवं शरभस्थाने न्यस्तो वै मुनिना तदा ।मुनेः पार्श्वगतो नित्यं शारभ्यं सुखमाप्तवान् ॥ ३६ ॥
ततः शरभसंत्रस्ताः सर्वे मृगगणा वनात् ।दिशः संप्राद्रवन्राजन्भयाज्जीवितकाङ्क्षिणः ॥ ३७ ॥
शरभोऽप्यतिसंदुष्टो नित्यं प्राणिवधे रतः ।फलमूलाशनं शान्तं नैच्छत्स पिशिताशनः ॥ ३८ ॥
ततो रुधिरतर्षेण बलिना शरभोऽन्वितः ।इयेष तं मुनिं हन्तुमकृतज्ञः श्वयोनिजः ॥ ३९ ॥
ततस्तेन तपःशक्त्या विदितो ज्ञानचक्षुषा ।विज्ञाय च महाप्राज्ञो मुनिः श्वानं तमुक्तवान् ॥ ४० ॥
श्वा त्वं द्वीपित्वमापन्नो द्वीपी व्याघ्रत्वमागतः ।व्याघ्रो नागो मदपटुर्नागः सिंहत्वमाप्तवान् ॥ ४१ ॥
सिंहोऽतिबलसंयुक्तो भूयः शरभतां गतः ।मया स्नेहपरीतेन न विमृष्टः कुलान्वयः ॥ ४२ ॥
यस्मादेवमपापं मां पाप हिंसितुमिच्छसि ।तस्मात्स्वयोनिमापन्नः श्वैव त्वं हि भविष्यसि ॥ ४३ ॥
ततो मुनिजनद्वेषाद्दुष्टात्मा श्वाकृतोऽबुधः ।ऋषिणा शरभः शप्तः स्वं रूपं पुनराप्तवान् ॥ ४४ ॥
« »