Click on words to see what they mean.

वैशंपायन उवाच ।धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुंगवाः ।अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः ॥ १ ॥
ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम् ।गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता ॥ २ ॥
तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति ।ऋषिः सत्यवतीपुत्रः प्रागेव समबुध्यत ॥ ३ ॥
स गङ्गायामुपस्पृश्य पुण्यगन्धं पयः शुचि ।तं देशमुपसंपेदे परमर्षिर्मनोजवः ॥ ४ ॥
दिव्येन चक्षुषा पश्यन्मनसानुद्धतेन च ।सर्वप्राणभृतां भावं स तत्र समबुध्यत ॥ ५ ॥
स स्नुषामब्रवीत्काले कल्यवादी महातपाः ।शापकालमवाक्षिप्य शमकालमुदीरयन् ॥ ६ ॥
न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि ।रजो निगृह्यतामेतच्छृणु चेदं वचो मम ॥ ७ ॥
उक्तास्यष्टादशाहानि पुत्रेण जयमिच्छता ।शिवमाशास्स्व मे मातर्युध्यमानस्य शत्रुभिः ॥ ८ ॥
सा तथा याच्यमाना त्वं काले काले जयैषिणा ।उक्तवत्यसि गान्धारि यतो धर्मस्ततो जयः ॥ ९ ॥
न चाप्यतीतां गान्धारि वाचं ते वितथामहम् ।स्मरामि भाषमाणायास्तथा प्रणिहिता ह्यसि ॥ १० ॥
सा त्वं धर्मं परिस्मृत्य वाचा चोक्त्वा मनस्विनि ।कोपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि ॥ ११ ॥
गान्धार्युवाच ।भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः ।पुत्रशोकेन तु बलान्मनो विह्वलतीव मे ॥ १२ ॥
यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया ।यथैव धृतराष्ट्रेण रक्षितव्यास्तथा मया ॥ १३ ॥
दुर्योधनापराधेन शकुनेः सौबलस्य च ।कर्णदुःशासनाभ्यां च वृत्तोऽयं कुरुसंक्षयः ॥ १४ ॥
नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः ।नकुलः सहदेवो वा नैव जातु युधिष्ठिरः ॥ १५ ॥
युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम् ।निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम ॥ १६ ॥
यत्तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः ।दुर्योधनं समाहूय गदायुद्धे महामनाः ॥ १७ ॥
शिक्षयाभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे ।अधो नाभ्यां प्रहृतवांस्तन्मे कोपमवर्धयत् ॥ १८ ॥
कथं नु धर्मं धर्मज्ञैः समुद्दिष्टं महात्मभिः ।त्यजेयुराहवे शूराः प्राणहेतोः कथंचन ॥ १९ ॥
« »