Click on words to see what they mean.

वैशंपायन उवाच ।हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ ।पालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥ १ ॥
संप्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् ।भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ॥ २ ॥
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः ।शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् ॥ ३ ॥
ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् ।जगामानुमते मातुः पुरीं वाराणसीं प्रति ॥ ४ ॥
तत्र राज्ञः समुदितान्सर्वतः समुपागतान् ।ददर्श कन्यास्ताश्चैव भीष्मः शंतनुनन्दनः ॥ ५ ॥
कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः ।भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः ॥ ६ ॥
उवाच च महीपालान्राजञ्जलदनिःस्वनः ।रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ॥ ७ ॥
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः ।अलंकृत्य यथाशक्ति प्रदाय च धनान्यपि ॥ ८ ॥
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि ।वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ॥ ९ ॥
प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते ।अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् ॥ १० ॥
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च ।प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ॥ ११ ॥
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः ।ते यतध्वं परं शक्त्या विजयायेतराय वा ।स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ॥ १२ ॥
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् ।सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् ।आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ॥ १३ ॥
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः ।संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ॥ १४ ॥
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् ।आमुञ्चतां च वर्माणि संभ्रमः सुमहानभूत् ॥ १५ ॥
ताराणामिव संपातो बभूव जनमेजय ।भूषणानां च शुभ्राणां कवचानां च सर्वशः ॥ १६ ॥
सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः ।सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा ॥ १७ ॥
सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् ।रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ।प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः ॥ १८ ॥
ततः समभवद्युद्धं तेषां तस्य च भारत ।एकस्य च बहूनां च तुमुलं लोमहर्षणम् ॥ १९ ॥
ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् ।अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् ॥ २० ॥
ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् ।ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥ २१ ॥
स तद्बाणमयं वर्षं शरैरावार्य सर्वतः ।ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः ॥ २२ ॥
तस्याति पुरुषानन्याँल्लाघवं रथचारिणः ।रक्षणं चात्मनः संख्ये शत्रवोऽप्यभ्यपूजयन् ॥ २३ ॥
तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः ।कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ॥ २४ ॥
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः ।अभ्याहनदमेयात्मा भीष्मं शांतनवं रणे ॥ २५ ॥
वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा ।वाशितामनुसंप्राप्तो यूथपो बलिनां वरः ॥ २६ ॥
स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः ।शाल्वराजो महाबाहुरमर्षेणाभिचोदितः ॥ २७ ॥
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः ।तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् ॥ २८ ॥
क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः ।निवर्तयामास रथं शाल्वं प्रति महारथः ॥ २९ ॥
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते ।प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे ॥ ३० ॥
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे ।अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ॥ ३१ ॥
ततो भीष्मं शांतनवं शरैः शतसहस्रशः ।शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ॥ ३२ ॥
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः ।विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् ॥ ३३ ॥
लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः ।अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ॥ ३४ ॥
क्षत्रियाणां तदा वाचः श्रुत्वा परपुरंजयः ।क्रुद्धः शांतनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत ॥ ३५ ॥
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः ।यावदेनं निहन्म्यद्य भुजंगमिव पक्षिराट् ॥ ३६ ॥
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः ।तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप ॥ ३७ ॥
अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः ।भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् ।अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् ॥ ३८ ॥
कन्याहेतोर्नरश्रेष्ठ भीष्मः शांतनवस्तदा ।जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् ।ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ ॥ ३९ ॥
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः ।स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरंजय ॥ ४० ॥
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः ।प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ॥ ४१ ॥
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप ।वनानि सरितश्चैव शैलांश्च विविधद्रुमान् ॥ ४२ ॥
अक्षतः क्षपयित्वारीन्संख्येऽसंख्येयविक्रमः ।आनयामास काश्यस्य सुताः सागरगासुतः ॥ ४३ ॥
स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः ।यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् ॥ ४४ ॥
ताः सर्वा गुणसंपन्ना भ्राता भ्रात्रे यवीयसे ।भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ॥ ४५ ॥
सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् ।भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ।सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ॥ ४६ ॥
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता ।ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा ॥ ४७ ॥
मया सौभपतिः पूर्वं मनसाभिवृतः पतिः ।तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ॥ ४८ ॥
मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे ।एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर ॥ ४९ ॥
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि ।चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥ ५० ॥
स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः ।अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् ॥ ५१ ॥
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे ।भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥ ५२ ॥
तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः ।विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥ ५३ ॥
ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे ।रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे ॥ ५४ ॥
आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते ।विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते ॥ ५५ ॥
स चाश्विरूपसदृशो देवसत्त्वपराक्रमः ।सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् ॥ ५६ ॥
ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः ।विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत ॥ ५७ ॥
सुहृदां यतमानानामाप्तैः सह चिकित्सकैः ।जगामास्तमिवादित्यः कौरव्यो यमसादनम् ॥ ५८ ॥
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् ।राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ।ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुंगवैः ॥ ५९ ॥
« »