Click on words to see what they mean.

जनमेजय उवाच ।भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् ।यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः ॥ १ ॥
न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः ।प्रजाविरहितो वापि भूतपूर्वः कदाचन ॥ २ ॥
तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् ।चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ॥ ३ ॥
वैशंपायन उवाच ।हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि ।पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः ॥ ४ ॥
प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः ।पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् ॥ ५ ॥
मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः ।पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ॥ ६ ॥
सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः ।मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ॥ ७ ॥
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः ।यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः ।सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः ॥ ८ ॥
ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् ।स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः ॥ ९ ॥
तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः ।धर्मेपुः संनतेपुश्च दशमो देवविक्रमः ।अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः ॥ १० ॥
मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत् ।मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः ।तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ॥ ११ ॥
तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् ।आजहार यशो दीप्तं जिगाय च वसुंधराम् ॥ १२ ॥
इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् ।सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ॥ १३ ॥
रथंतर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः ।इलिनो जनयामास दुःषन्तप्रभृतीन्नृप ॥ १४ ॥
दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च ।तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय ॥ १५ ॥
दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः ।तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥ १६ ॥
भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् ।नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत ॥ १७ ॥
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा ।लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत ॥ १८ ॥
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः ।भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ॥ १९ ॥
ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् ।ततः स वितथो नाम भुमन्योरभवत्सुतः ॥ २० ॥
सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा ।पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः ॥ २१ ॥
तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् ।राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः ॥ २२ ॥
सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् ।पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् ॥ २३ ॥
ममज्जेव मही तस्य भूरिभारावपीडिता ।हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम् ॥ २४ ॥
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः ।चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः ।प्रवृद्धजनसस्या च सहदेवा व्यरोचत ॥ २५ ॥
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः ।अजमीढं सुमीढं च पुरुमीढं च भारत ॥ २६ ॥
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः ।षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत ॥ २७ ॥
ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ ।केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ ॥ २८ ॥
तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः ।अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः ॥ २९ ॥
जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् ।ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ॥ ३० ॥
आर्क्षे संवरणे राजन्प्रशासति वसुंधराम् ।संक्षयः सुमहानासीत्प्रजानामिति शुश्रुमः ॥ ३१ ॥
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा ।क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ।अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ॥ ३२ ॥
चालयन्वसुधां चैव बलेन चतुरङ्गिणा ।अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् ।अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥ ३३ ॥
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः ।राजा संवरणस्तस्मात्पलायत महाभयात् ॥ ३४ ॥
सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा ।नदीविषयपर्यन्ते पर्वतस्य समीपतः ।तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ॥ ३५ ॥
तेषां निवसतां तत्र सहस्रं परिवत्सरान् ।अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ॥ ३६ ॥
तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च ।अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा ।निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ॥ ३७ ॥
तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा ।पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे ।ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ॥ ३८ ॥
अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् ।विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ॥ ३९ ॥
भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् ।पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ॥ ४० ॥
ततः स पृथिवीं प्राप्य पुनरीजे महाबलः ।आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ॥ ४१ ॥
ततः संवरणात्सौरी सुषुवे तपती कुरुम् ।राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ॥ ४२ ॥
तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् ।कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ॥ ४३ ॥
अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् ।जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः ।पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ॥ ४४ ॥
अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् ।अभिराजो विराजश्च शल्मलश्च महाबलः ॥ ४५ ॥
उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः ।एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः ॥ ४६ ॥
जनमेजयादयः सप्त तथैवान्ये महाबलाः ।परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ॥ ४७ ॥
कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् ।इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ॥ ४८ ॥
जनमेजयस्य तनया भुवि ख्याता महाबलाः ।धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ॥ ४९ ॥
निषधश्च महातेजास्तथा जाम्बूनदो बली ।कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः ।सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः ॥ ५० ॥
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः ।हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः ।हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः ॥ ५१ ॥
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ ।देवापिः शंतनुश्चैव बाह्लीकश्च महारथः ॥ ५२ ॥
देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया ।शंतनुश्च महीं लेभे बाह्लीकश्च महारथः ॥ ५३ ॥
भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः ।देवर्षिकल्पा नृपते बहवो राजसत्तमाः ॥ ५४ ॥
एवंविधाश्चाप्यपरे देवकल्पा महारथाः ।जाता मनोरन्ववाये ऐलवंशविवर्धनाः ॥ ५५ ॥
« »