Click on words to see what they mean.

जनमेजय उवाच ।श्रुतस्त्वत्तो मया विप्र पूर्वेषां संभवो महान् ।उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ॥ १ ॥
किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति ।प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे ॥ २ ॥
एतामेव कथां दिव्यामा प्रजापतितो मनोः ।तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ॥ ३ ॥
सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् ।विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् ॥ ४ ॥
गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् ।न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ॥ ५ ॥
वैशंपायन उवाच ।शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् ।प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् ॥ ६ ॥
दक्षस्यादितिः ।अदितेर्विवस्वान् ।विवस्वतो मनुः ।मनोरिला ।इलायाः पुरूरवाः ।पुरूरवस आयुः ।आयुषो नहुषः ।नहुषस्य ययातिः ॥ ७ ॥
ययातेर्द्वे भार्ये बभूवतुः ।उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम ।अत्रानुवंशो भवति ॥ ८ ॥
यदुं च तुर्वसुं चैव देवयानी व्यजायत ।द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ ९ ॥
तत्र यदोर्यादवाः ।पूरोः पौरवाः ॥ १० ॥
पूरोर्भार्या कौसल्या नाम ।तस्यामस्य जज्ञे जनमेजयो नाम ।यस्त्रीनश्वमेधानाजहार ।विश्वजिता चेष्ट्वा वनं प्रविवेश ॥ ११ ॥
जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् ।तस्यामस्य जज्ञे प्राचिन्वान् ।यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् ।ततस्तस्य प्राचिन्वत्वम् ॥ १२ ॥
प्राचिन्वान्खल्वश्मकीमुपयेमे ।तस्यामस्य जज्ञे संयातिः ॥ १३ ॥
संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे ।तस्यामस्य जज्ञे अहंपातिः ॥ १४ ॥
अहंपातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम ।तस्यामस्य जज्ञे सार्वभौमः ॥ १५ ॥
सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम ।तस्यामस्य जज्ञे जयत्सेनः ॥ १६ ॥
जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम ।तस्यामस्य जज्ञे अराचीनः ॥ १७ ॥
अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम ।तस्यामस्य जज्ञे महाभौमः ॥ १८ ॥
महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम ।तस्यामस्य जज्ञे अयुतनायी ।यः पुरुषमेधानामयुतमानयत् ।तदस्यायुतनायित्वम् ॥ १९ ॥
अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम ।तस्यामस्य जज्ञे अक्रोधनः ॥ २० ॥
अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे ।तस्यामस्य जज्ञे देवातिथिः ॥ २१ ॥
देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम ।तस्यामस्य जज्ञे ऋचः ॥ २२ ॥
ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम ।तस्यां पुत्रमजनयदृक्षम् ॥ २३ ॥
ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम ।तस्यां पुत्रं मतिनारं नामोत्पादयामास ॥ २४ ॥
मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार ॥ २५ ॥
निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास ।तस्यां पुत्रमजनयत्तंसुं नाम ॥ २६ ॥
अत्रानुवंशो भवति ॥ २७ ॥
तंसुं सरस्वती पुत्रं मतिनारादजीजनत् ।इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ॥ २८ ॥
इलिनस्तु रथंतर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् ॥ २९ ॥
दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे ।तस्यामस्य जज्ञे भरतः ।तत्र श्लोकौ भवतः ॥ ३० ॥
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ॥ ३१ ॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ ३२ ॥
ततोऽस्य भरतत्वम् ॥ ३३ ॥
भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम ।तस्यामस्य जज्ञे भुमन्युः ॥ ३४ ॥
भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम ।तस्यामस्य जज्ञे सुहोत्रः ॥ ३५ ॥
सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम ।तस्यामस्य जज्ञे हस्ती ।य इदं हास्तिनपुरं मापयामास ।एतदस्य हास्तिनपुरत्वम् ॥ ३६ ॥
हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम ।तस्यामस्य जज्ञे विकुण्ठनः ॥ ३७ ॥
विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम ।तस्यामस्य जज्ञेऽजमीढः ॥ ३८ ॥
अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति ।पृथक्पृथग्वंशकरा नृपतयः ।तत्र वंशकरः संवरणः ॥ ३९ ॥
संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे ।तस्यामस्य जज्ञे कुरुः ॥ ४० ॥
कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम ।तस्यामस्य जज्ञे विडूरथः ॥ ४१ ॥
विडूरथस्तु मागधीमुपयेमे संप्रियां नाम ।तस्यामस्य जज्ञेऽरुग्वान्नाम ॥ ४२ ॥
अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम ।तस्यामस्य जज्ञे परिक्षित् ॥ ४३ ॥
परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम ।तस्यामस्य जज्ञे भीमसेनः ॥ ४४ ॥
भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम ।तस्यामस्य जज्ञे पर्यश्रवाः ।यमाहुः प्रतीपं नाम ॥ ४५ ॥
प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम ।तस्यां पुत्रानुत्पादयामास देवापिं शंतनुं बाह्लीकं चेति ॥ ४६ ॥
देवापिः खलु बाल एवारण्यं प्रविवेश ।शंतनुस्तु महीपालोऽभवत् ।अत्रानुवंशो भवति ॥ ४७ ॥
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते ।पुनर्युवा च भवति तस्मात्तं शंतनुं विदुः ॥ ४८ ॥
तदस्य शंतनुत्वम् ॥ ४९ ॥
शंतनुः खलु गङ्गां भागीरथीमुपयेमे ।तस्यामस्य जज्ञे देवव्रतः ।यमाहुर्भीष्म इति ॥ ५० ॥
भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् ।यामाहुर्गन्धकालीति ॥ ५१ ॥
तस्यां कानीनो गर्भः पराशराद्द्वैपायनः ।तस्यामेव शंतनोर्द्वौ पुत्रौ बभूवतुः ।चित्राङ्गदो विचित्रवीर्यश्च ॥ ५२ ॥
तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः ।विचित्रवीर्यस्तु राजा समभवत् ॥ ५३ ॥
विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे ॥ ५४ ॥
विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः ॥ ५५ ॥
ततः सत्यवती चिन्तयामास ।दौःषन्तो वंश उच्छिद्यते इति ॥ ५६ ॥
सा द्वैपायनमृषिं चिन्तयामास ॥ ५७ ॥
स तस्याः पुरतः स्थितः किं करवाणीति ॥ ५८ ॥
सा तमुवाच ।भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः ।साध्वपत्यं तस्योत्पादयेति ॥ ५९ ॥
स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति ॥ ६० ॥
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य ॥ ६१ ॥
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति ॥ ६२ ॥
पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने ॥ ६३ ॥
अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् ।तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान ॥ ६४ ॥
स बाणविद्ध उवाच पाण्डुम् ।चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति ॥ ६५ ॥
स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये ॥ ६६ ॥
वाक्यं चोवाच ।स्वचापल्यादिदं प्राप्तवानहम् ।शृणोमि च नानपत्यस्य लोका सन्तीति ॥ ६७ ॥
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच ॥ ६८ ॥
सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति ॥ ६९ ॥
स तां हृष्टरूपः पाण्डुरुवाच ।इयं ते सपत्न्यनपत्या ।साध्वस्यामपत्यमुत्पाद्यतामिति ॥ ७० ॥
स एवमस्त्वित्युक्तः कुन्त्या ॥ ७१ ॥
ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ ॥ ७२ ॥
माद्रीं खल्वलंकृतां दृष्ट्वा पाण्डुर्भावं चक्रे ॥ ७३ ॥
स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः ॥ ७४ ॥
तत्रैनं चितास्थं माद्री समन्वारुरोह ॥ ७५ ॥
उवाच कुन्तीम् ।यमयोरार्ययाप्रमत्तया भवितव्यमिति ॥ ७६ ॥
ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः ॥ ७७ ॥
तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन ॥ ७८ ॥
ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः ॥ ७९ ॥
तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः ॥ ८० ॥
तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः ॥ ८१ ॥
पुत्रांश्चोत्पादयामासुः ।प्रतिविन्ध्यं युधिष्ठिरः ।सुतसोमं वृकोदरः ।श्रुतकीर्तिमर्जुनः ।शतानीकं नकुलः ।श्रुतकर्माणं सहदेव इति ॥ ८२ ॥
युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे ।तस्यां पुत्रं जनयामास यौधेयं नाम ॥ ८३ ॥
भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् ।तस्यां पुत्रं सर्वगं नामोत्पादयामास ॥ ८४ ॥
अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् ।तस्यां पुत्रमभिमन्युं नाम जनयामास ॥ ८५ ॥
नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् ।तस्यां पुत्रं निरमित्रं नामाजनयत् ॥ ८६ ॥
सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे ।तस्यां पुत्रमजनयत्सुहोत्रं नाम ॥ ८७ ॥
भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास ॥ ८८ ॥
इत्येते एकादश पाण्डवानां पुत्राः ॥ ८९ ॥
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे ।तस्यामस्य परासुर्गर्भोऽजायत ॥ ९० ॥
तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य ।षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति ॥ ९१ ॥
संजीवयित्वा चैनमुवाच ।परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति ॥ ९२ ॥
परिक्षित्तु खलु माद्रवतीं नामोपयेमे ।तस्यामस्य जनमेजयः ॥ ९३ ॥
जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च ॥ ९४ ॥
शतानीकस्तु खलु वैदेहीमुपयेमे ।तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः ॥ ९५ ॥
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः ।पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥ ९६ ॥
« »