Click on words to see what they mean.

वैशंपायन उवाच ।कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः ।कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ॥ १ ॥
सर्व एव समागम्य शतक्रतुमथाब्रुवन् ।कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर ॥ २ ॥
एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा ।तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः ॥ ३ ॥
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे ।वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥ ४ ॥
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा ।वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः ॥ ५ ॥
तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा ।व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ॥ ६ ॥
ततस्तयोर्मिथस्तत्र विरोधः समजायत ।देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥ ७ ॥
देवयान्युवाच ।कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि ।समुदाचारहीनाया न ते श्रेयो भविष्यति ॥ ८ ॥
शर्मिष्ठोवाच ।आसीनं च शयानं च पिता ते पितरं मम ।स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ॥ ९ ॥
याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः ।सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥ १० ॥
अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि ।लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् ॥ ११ ॥
वैशंपायन उवाच ।समुच्छ्रयं देवयानीं गतां सक्तां च वाससि ।शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् ॥ १२ ॥
हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया ।अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा ॥ १३ ॥
अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः ।श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ॥ १४ ॥
स नाहुषः प्रेक्षमाण उदपानं गतोदकम् ।ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव ॥ १५ ॥
तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् ।सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ॥ १६ ॥
का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला ।दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ॥ १७ ॥
कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते ।दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ॥ १८ ॥
देवयान्युवाच ।योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया ।तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ॥ १९ ॥
एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः ।समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ॥ २० ॥
जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् ।तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ॥ २१ ॥
वैशंपायन उवाच ।तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः ।गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ॥ २२ ॥
उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः ।आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ॥ २३ ॥
देवयान्युवाच ।त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः ।नेदानीं हि प्रवक्ष्यामि नगरं वृषपर्वणः ॥ २४ ॥
वैशंपायन उवाच ।सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् ।दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना ॥ २५ ॥
आचक्षे ते महाप्राज्ञ देवयानी वने हता ।शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ॥ २६ ॥
श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् ।त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ॥ २७ ॥
दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने ।बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत् ॥ २८ ॥
आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः ।मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ॥ २९ ॥
देवयान्युवाच ।निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम ।शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः ।सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ॥ ३० ॥
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी ।वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ॥ ३१ ॥
स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः ।सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ॥ ३२ ॥
इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः ।क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ॥ ३३ ॥
यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः ।प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया ॥ ३४ ॥
शुक्र उवाच ।स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः ।अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ॥ ३५ ॥
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः ।अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ॥ ३६ ॥
« »