Click on words to see what they mean.

सूत उवाच ।तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया ।दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ॥ १ ॥
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् ।न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ॥ २ ॥
ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत ।निषादी मम भार्येयं निर्गच्छतु मया सह ॥ ३ ॥
गरुड उवाच ।एतामपि निषादीं त्वं परिगृह्याशु निष्पत ।तूर्णं संभावयात्मानमजीर्णं मम तेजसा ॥ ४ ॥
सूत उवाच ।ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा ।वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ॥ ५ ॥
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् ।वितत्य पक्षावाकाशमुत्पपात मनोजवः ॥ ६ ॥
ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः ।अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः ।मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ॥ ७ ॥
मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै ।न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ॥ ८ ॥
तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे ।यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो ॥ ९ ॥
कश्यप उवाच ।आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् ।भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ॥ १० ॥
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः ।विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः ॥ ११ ॥
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः ।विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा ।ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः ॥ १२ ॥
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः ।विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ॥ १३ ॥
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ ।भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ॥ १४ ॥
तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः ।गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् ॥ १५ ॥
नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि ।यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ॥ १६ ॥
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् ।त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि ॥ १७ ॥
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू ।गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ॥ १८ ॥
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि ।परस्परद्वेषरतौ प्रमाणबलदर्पितौ ॥ १९ ॥
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ ।तयोरेकतरः श्रीमान्समुपैति महागजः ॥ २० ॥
तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः ।उत्थितोऽसौ महाकायः कृत्स्नं संक्षोभयन्सरः ॥ २१ ॥
तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् ।दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ॥ २२ ॥
तं विक्षोभयमाणं तु सरो बहुझषाकुलम् ।कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ॥ २३ ॥
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः ।कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ॥ २४ ॥
तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ ।उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः ॥ २५ ॥
सूत उवाच ।स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः ।नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ॥ २६ ॥
समुत्पपात चाकाशं तत उच्चैर्विहंगमः ।सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् ॥ २७ ॥
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः ।न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ॥ २८ ॥
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान् ।अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ॥ २९ ॥
काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः ।सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ॥ ३० ॥
तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः ।अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् ॥ ३१ ॥
यैषा मम महाशाखा शतयोजनमायता ।एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ॥ ३२ ॥
ततो द्रुमं पतगसहस्रसेवितं महीधरप्रतिमवपुः प्रकम्पयन् ।खगोत्तमो द्रुतमभिपत्य वेगवान्बभञ्ज तामविरलपत्रसंवृताम् ॥ ३३ ॥
« »