Click on words to see what they mean.

वैशंपायन उवाच ।मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा ।उक्तवानप्यशीतांशुं नैव स स्म न तप्यते ॥ १ ॥
स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् ।कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः ॥ २ ॥
वर्धमाने हुतवहे वाते शीघ्रं प्रवायति ।असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ॥ ३ ॥
कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी ।भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती ॥ ४ ॥
कथं नु सरणेऽशक्तान्पतने च ममात्मजान् ।संतप्यमाना अभितो वाशमानाभिधावती ॥ ५ ॥
जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे ।स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ॥ ६ ॥
लालप्यमानं तमृषिं मन्दपालं तथा वने ।लपिता प्रत्युवाचेदं सासूयमिव भारत ॥ ७ ॥
न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि ।तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ॥ ८ ॥
तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ ।प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना ॥ ९ ॥
लोकपालोऽनृतां वाचं न तु वक्ता कथंचन ।समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् ॥ १० ॥
तामेव तु ममामित्रीं चिन्तयन्परितप्यसे ।ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् ॥ ११ ॥
न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने ।पीड्यमान उपद्रष्टुं शक्तेनात्मा कथंचन ॥ १२ ॥
गच्छ त्वं जरितामेव यदर्थं परितप्यसे ।चरिष्याम्यहमप्येका यथा कापुरुषे तथा ॥ १३ ॥
मन्दपाल उवाच ।नाहमेवं चरे लोके यथा त्वमभिमन्यसे ।अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ॥ १४ ॥
भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः ।अवमन्येत तं लोको यथेच्छसि तथा कुरु ॥ १५ ॥
एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् ।द्वेष्यं हि हृदि संतापं जनयत्यशिवं मम ॥ १६ ॥
वैशंपायन उवाच ।तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः ।जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी ॥ १७ ॥
सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः ।रोरूयमाणा कृपणा सुतान्दृष्टवती वने ॥ १८ ॥
अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः ।एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत ॥ १९ ॥
ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत ।अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः ॥ २० ॥
लालप्यमानमेकैकं जरितां च पुनः पुनः ।नोचुस्ते वचनं किंचित्तमृषिं साध्वसाधु वा ॥ २१ ॥
मन्दपाल उवाच ।ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः ।मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते ॥ २२ ॥
एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे ।कृतवानस्मि हव्याशे नैव शान्तिमितो लभे ॥ २३ ॥
जरितोवाच ।किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा ।किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि ॥ २४ ॥
यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा ।तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ॥ २५ ॥
मन्दपाल उवाच ।न स्त्रीणां विद्यते किंचिदन्यत्र पुरुषान्तरात् ।सापत्नकमृते लोके भवितव्यं हि तत्तथा ॥ २६ ॥
सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता ।अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् ॥ २७ ॥
विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् ।सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् ॥ २८ ॥
अपध्यानेन सा तेन धूमारुणसमप्रभा ।लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते ॥ २९ ॥
अपत्यहेतोः संप्राप्तं तथा त्वमपि मामिह ।इष्टमेवंगते हित्वा सा तथैव च वर्तसे ॥ ३० ॥
नैव भार्येति विश्वासः कार्यः पुंसा कथंचन ।न हि कार्यमनुध्याति भार्या पुत्रवती सती ॥ ३१ ॥
वैशंपायन उवाच ।ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे ।स च तानात्मजान्राजन्नाश्वासयितुमारभत् ॥ ३२ ॥
« »