Click on words to see what they mean.

जरितारिरुवाच ।पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः ।स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित् ॥ १ ॥
यस्तु कृच्छ्रमसंप्राप्तं विचेता नावबुध्यते ।स कृच्छ्रकाले व्यथितो न प्रजानाति किंचन ॥ २ ॥
सारिसृक्व उवाच ।धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः ।शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः ॥ ३ ॥
स्तम्बमित्र उवाच ।ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः ।ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति ॥ ४ ॥
द्रोण उवाच ।हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् ।सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति ॥ ५ ॥
वैशंपायन उवाच ।एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् ।तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव ॥ ६ ॥
जरितारिरुवाच ।आत्मासि वायोः पवनः शरीरमुत वीरुधाम् ।योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः ॥ ७ ॥
ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः ।अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा ॥ ८ ॥
सारिसृक्व उवाच ।माता प्रपन्ना पितरं न विद्मः पक्षाश्च नो न प्रजाताब्जकेतो ।न नस्त्राता विद्यतेऽग्ने त्वदन्यस्तस्माद्धि नः परिरक्षैकवीर ॥ ९ ॥
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः ।तेन नः परिरक्षाद्य ईडितः शरणैषिणः ॥ १० ॥
त्वमेवैकस्तपसे जातवेदो नान्यस्तप्ता विद्यते गोषु देव ।ऋषीनस्मान्बालकान्पालयस्व परेणास्मान्प्रैहि वै हव्यवाह ॥ ११ ॥
स्तम्बमित्र उवाच ।सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् ।त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥ १२ ॥
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः ।मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च ॥ १३ ॥
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह प्राप्ते काले पचसि पुनः समिद्धः ।सर्वस्यास्य भुवनस्य प्रसूतिस्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥ १४ ॥
त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते ।नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ॥ १५ ॥
द्रोण उवाच ।सूर्यो भूत्वा रश्मिभिर्जातवेदो भूमेरम्भो भूमिजातान्रसांश्च ।विश्वानादाय पुनरुत्सर्गकाले सृष्ट्वा वृष्ट्या भावयसीह शुक्र ॥ १६ ॥
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः ।जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः ॥ १७ ॥
इदं वै सद्म तिग्मांशो वरुणस्य परायणम् ।शिवस्त्राता भवास्माकं मास्मानद्य विनाशय ॥ १८ ॥
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन ।परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव ॥ १९ ॥
वैशंपायन उवाच ।एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा ।द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ॥ २० ॥
ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया ।ईप्सितं ते करिष्यामि न च ते विद्यते भयम् ॥ २१ ॥
मन्दपालेन यूयं हि मम पूर्वं निवेदिताः ।वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ॥ २२ ॥
यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम् ।उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते ।भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो ॥ २३ ॥
द्रोण उवाच ।इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः ।एतान्कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान् ॥ २४ ॥
वैशंपायन उवाच ।तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान् ।ददाह खाण्डवं चैव समिद्धो जनमेजय ॥ २५ ॥
« »