Click on words to see what they mean.

वैशंपायन उवाच ।इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् ।शासनाद्धृतराष्ट्रस्य राज्ञः शांतनवस्य च ॥ १ ॥
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् ।पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ॥ २ ॥
स समं धर्मकामार्थान्सिषेवे भरतर्षभः ।त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन् ॥ ३ ॥
तेषां समविभक्तानां क्षितौ देहवतामिव ।बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥ ४ ॥
अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः ।रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् ॥ ५ ॥
अधिष्ठानवती लक्ष्मीः परायणवती मतिः ।बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता ॥ ६ ॥
भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ ।प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ॥ ७ ॥
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे ।बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ॥ ८ ॥
धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले ।प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ॥ ९ ॥
न तु केवलदैवेन प्रजा भावेन रेमिरे ।यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥ १० ॥
न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् ।भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ॥ ११ ॥
स हि सर्वस्य लोकस्य हितमात्मन एव च ।चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः ॥ १२ ॥
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः ।अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा ॥ १३ ॥
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् ।उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति ॥ १४ ॥
सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन ।सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन ॥ १५ ॥
वासुदेव उवाच ।कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले ।सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ॥ १६ ॥
वैशंपायन उवाच ।आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत ।जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ॥ १७ ॥
विहारदेशं संप्राप्य नानाद्रुमवदुत्तमम् ।गृहैरुच्चावचैर्युक्तं पुरंदरगृहोपमम् ॥ १८ ॥
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः ।माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः ॥ १९ ॥
आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः ।यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ॥ २० ॥
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः ।यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः ॥ २१ ॥
द्रौपदी च सुभद्रा च वासांस्याभरणानि च ।प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे ॥ २२ ॥
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः ।जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् ॥ २३ ॥
रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् ।मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ॥ २४ ॥
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः ।शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् ॥ २५ ॥
तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ ।समीपे जग्मतुः कंचिदुद्देशं सुमनोहरम् ॥ २६ ॥
तत्र गत्वा महात्मानौ कृष्णौ परपुरंजयौ ।महार्हासनयो राजंस्ततस्तौ संनिषीदतुः ॥ २७ ॥
तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च ।बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ॥ २८ ॥
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव ।अभ्यगच्छत्तदा विप्रो वासुदेवधनंजयौ ॥ २९ ॥
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः ।हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः ॥ ३० ॥
तरुणादित्यसंकाशः कृष्णवासा जटाधरः ।पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥ ३१ ॥
उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् ।अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ॥ ३२ ॥
« »