Click on words to see what they mean.

वैशंपायन उवाच ।उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः ।ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ॥ १ ॥
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् ।संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् ॥ २ ॥
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा ।स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥ ३ ॥
प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते ।विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ॥ ४ ॥
एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः ।अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥ ५ ॥
उचितश्चैव संबन्धः सुभद्रा च यशस्विनी ।एष चापीदृशः पार्थः प्रसह्य हृतवानिति ॥ ६ ॥
भरतस्यान्वये जातं शंतनोश्च महात्मनः ।कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् ॥ ७ ॥
न च पश्यामि यः पार्थं विक्रमेण पराजयेत् ।अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ॥ ८ ॥
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः ।योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ॥ ९ ॥
तमनुद्रुत्य सान्त्वेन परमेण धनंजयम् ।निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ॥ १० ॥
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् ।प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ॥ ११ ॥
तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप ।निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ॥ १२ ॥
उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः ।पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः ।पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् ॥ १३ ॥
अभिगम्य स राजानं विनयेन समाहितः ।अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् ॥ १४ ॥
तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् ।तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा ।सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ॥ १५ ॥
तथा बहुविधं कृष्णां विलपन्तीं धनंजयः ।सान्त्वयामास भूयश्च क्षमयामास चासकृत् ॥ १६ ॥
सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम् ।पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥ १७ ॥
साधिकं तेन रूपेण शोभमाना यशस्विनी ।भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ।ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ॥ १८ ॥
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना ।ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् ॥ १९ ॥
प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् ।सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः ।तथैव मुदिता भद्रा तामुवाचैवमस्त्विति ॥ २० ॥
ततस्ते हृष्टमनसः पाण्डवेया महारथाः ।कुन्ती च परमप्रीता बभूव जनमेजय ॥ २१ ॥
श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम् ।अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ॥ २२ ॥
आजगाम विशुद्धात्मा सह रामेण केशवः ।वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ॥ २३ ॥
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः ।सैन्येन महता शौरिरभिगुप्तः परंतपः ॥ २४ ॥
तत्र दानपतिर्धीमानाजगाम महायशाः ।अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः ॥ २५ ॥
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः ।साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः ॥ २६ ॥
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः ।प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ॥ २७ ॥
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च ।सारणश्च महाबाहुर्गदश्च विदुषां वरः ॥ २८ ॥
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा ।आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ॥ २९ ॥
ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् ।प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥ ३० ॥
ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् ।विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥ ३१ ॥
सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् ।चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ॥ ३२ ॥
दह्यतागुरुणा चैव देशे देशे सुगन्धिना ।सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥ ३३ ॥
प्रतिपेदे महाबाहुः सह रामेण केशवः ।वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः ॥ ३४ ॥
संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः ।विवेश भवनं राज्ञः पुरंदरगृहोपमम् ॥ ३५ ॥
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि ।मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना ॥ ३६ ॥
तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् ।भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥ ३७ ॥
तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः ।प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् ॥ ३८ ॥
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् ।कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥ ३९ ॥
ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् ।हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥ ४० ॥
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् ।चतुर्युजामुपेतानां सूतैः कुशलसंमतैः ।सहस्रं प्रददौ कृष्णो गवामयुतमेव च ॥ ४१ ॥
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् ।वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् ।ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् ॥ ४२ ॥
तथैवाश्वतरीणां च दान्तानां वातरंहसाम् ।शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ॥ ४३ ॥
स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् ।स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥ ४४ ॥
सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् ।परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥ ४५ ॥
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः ।मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥ ४६ ॥
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् ।गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥ ४७ ॥
कॢप्तानां पटुघण्टानां वराणां हेममालिनाम् ।हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ॥ ४८ ॥
रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली ।प्रीयमाणो हलधरः संबन्धप्रीतिमावहन् ॥ ४९ ॥
स महाधनरत्नौघो वस्त्रकम्बलफेनवान् ।महागजमहाग्राहः पताकाशैवलाकुलः ॥ ५० ॥
पाण्डुसागरमाविद्धः प्रविवेश महानदः ।पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥ ५१ ॥
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः ।पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ॥ ५२ ॥
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः ।विजह्रुरमरावासे नराः सुकृतिनो यथा ॥ ५३ ॥
तत्र तत्र महापानैरुत्कृष्टतलनादितैः ।यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥ ५४ ॥
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् ।पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् ॥ ५५ ॥
रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः ।रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥ ५६ ॥
वासुदेवस्तु पार्थेन तत्रैव सह भारत ।उवास नगरे रम्ये शक्रप्रस्थे महामनाः ।व्यचरद्यमुनाकूले पार्थेन सह भारत ॥ ५७ ॥
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा ।जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् ॥ ५८ ॥
दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम् ।सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ॥ ५९ ॥
अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् ।अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् ॥ ६० ॥
स सात्वत्यामतिरथः संबभूव धनंजयात् ।मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः ॥ ६१ ॥
यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः ।अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः ॥ ६२ ॥
दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् ।पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ॥ ६३ ॥
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः ।स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥ ६४ ॥
चतुष्पादं दशविधं धनुर्वेदमरिंदमः ।अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् ॥ ६५ ॥
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः ।क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् ॥ ६६ ॥
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः ।तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनंजयः ॥ ६७ ॥
सर्वसंहननोपेतं सर्वलक्षणलक्षितम् ।दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ॥ ६८ ॥
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् ।मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥ ६९ ॥
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ ।ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥ ७० ॥
पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा ।लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव ॥ ७१ ॥
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् ।अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥ ७२ ॥
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् ।पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ॥ ७३ ॥
शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् ।परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ॥ ७४ ॥
सुते सोमसहस्रे तु सोमार्कसमतेजसम् ।सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥ ७५ ॥
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना ।जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् ॥ ७६ ॥
शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः ।चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ॥ ७७ ॥
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते ।सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ॥ ७८ ॥
एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः ।अन्वजायन्त राजेन्द्र परस्परहिते रताः ॥ ७९ ॥
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च ।चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥ ८० ॥
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः ।जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥ ८१ ॥
देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः ।अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥ ८२ ॥
« »