Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय ।राज्ञा दक्षिणपाञ्चालान्द्रुपदेनाभिरक्षितान् ॥ १ ॥
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम् ।ददृशुः पाण्डवा राजन्पथि द्वैपायनं तदा ॥ २ ॥
तस्मै यथावत्सत्कारं कृत्वा तेन च सान्त्विताः ।कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ॥ ३ ॥
पश्यन्तो रमणीयानि वनानि च सरांसि च ।तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः ॥ ४ ॥
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः ।आनुपूर्व्येण संप्राप्ताः पाञ्चालान्कुरुनन्दनाः ॥ ५ ॥
ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः ।कुम्भकारस्य शालायां निवेशं चक्रिरे तदा ॥ ६ ॥
तत्र भैक्षं समाजह्रुर्ब्राह्मीं वृत्तिं समाश्रिताः ।तांश्च प्राप्तांस्तदा वीराञ्जज्ञिरे न नराः क्वचित् ॥ ७ ॥
यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने ।कृष्णां दद्यामिति सदा न चैतद्विवृणोति सः ॥ ८ ॥
सोऽन्वेषमाणः कौन्तेयान्पाञ्चाल्यो जनमेजय ।दृढं धनुरनायम्यं कारयामास भारत ॥ ९ ॥
यन्त्रं वैहायसं चापि कारयामास कृत्रिमम् ।तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम् ॥ १० ॥
द्रुपद उवाच ।इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः ।अतीत्य लक्ष्यं यो वेद्धा स लब्धा मत्सुतामिति ॥ ११ ॥
वैशंपायन उवाच ।इति स द्रुपदो राजा सर्वतः समघोषयत् ।तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत ॥ १२ ॥
ऋषयश्च महात्मानः स्वयंवरदिदृक्षया ।दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप ॥ १३ ॥
ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन् ।तेऽभ्यर्चिता राजगणा द्रुपदेन महात्मना ॥ १४ ॥
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः ।शिशुमारपुरं प्राप्य न्यविशंस्ते च पार्थिवाः ॥ १५ ॥
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे ।समाजवाटः शुशुभे भवनैः सर्वतो वृतः ॥ १६ ॥
प्राकारपरिखोपेतो द्वारतोरणमण्डितः ।वितानेन विचित्रेण सर्वतः समवस्तृतः ॥ १७ ॥
तूर्यौघशतसंकीर्णः परार्ध्यागुरुधूपितः ।चन्दनोदकसिक्तश्च माल्यदामैश्च शोभितः ॥ १८ ॥
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः ।सर्वतः संवृतैर्नद्धः प्रासादैः सुकृतोच्छ्रितैः ॥ १९ ॥
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषितैः ।सुखारोहणसोपानैर्महासनपरिच्छदैः ॥ २० ॥
अग्राम्यसमवच्छन्नैरगुरूत्तमवासितैः ।हंसाच्छवर्णैर्बहुभिरायोजनसुगन्धिभिः ॥ २१ ॥
असंबाधशतद्वारैः शयनासनशोभितैः ।बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव ॥ २२ ॥
तत्र नानाप्रकारेषु विमानेषु स्वलंकृताः ।स्पर्धमानास्तदान्योन्यं निषेदुः सर्वपार्थिवाः ॥ २३ ॥
तत्रोपविष्टान्ददृशुर्महासत्त्वपराक्रमान् ।राजसिंहान्महाभागान्कृष्णागुरुविभूषितान् ॥ २४ ॥
महाप्रसादान्ब्रह्मण्यान्स्वराष्ट्रपरिरक्षिणः ।प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः ॥ २५ ॥
मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः ।कृष्णादर्शनतुष्ट्यर्थं सर्वतः समुपाविशन् ॥ २६ ॥
ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन् ।ऋद्धिं पाञ्चालराजस्य पश्यन्तस्तामनुत्तमाम् ॥ २७ ॥
ततः समाजो ववृधे स राजन्दिवसान्बहून् ।रत्नप्रदानबहुलः शोभितो नटनर्तकैः ॥ २८ ॥
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे ।आप्लुताङ्गी सुवसना सर्वाभरणभूषिता ॥ २९ ॥
वीरकांस्यमुपादाय काञ्चनं समलंकृतम् ।अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ ॥ ३० ॥
पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः ।परिस्तीर्य जुहावाग्निमाज्येन विधिना तदा ॥ ३१ ॥
स तर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च ।वारयामास सर्वाणि वादित्राणि समन्ततः ॥ ३२ ॥
निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशां पते ।रङ्गमध्यगतस्तत्र मेघगम्भीरया गिरा ।वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम् ॥ ३३ ॥
इदं धनुर्लक्ष्यमिमे च बाणाः शृण्वन्तु मे पार्थिवाः सर्व एव ।यन्त्रच्छिद्रेणाभ्यतिक्रम्य लक्ष्यं समर्पयध्वं खगमैर्दशार्धैः ॥ ३४ ॥
एतत्कर्ता कर्म सुदुष्करं यः कुलेन रूपेण बलेन युक्तः ।तस्याद्य भार्या भगिनी ममेयं कृष्णा भवित्री न मृषा ब्रवीमि ॥ ३५ ॥
तानेवमुक्त्वा द्रुपदस्य पुत्रः पश्चादिदं द्रौपदीमभ्युवाच ।नाम्ना च गोत्रेण च कर्मणा च संकीर्तयंस्तान्नृपतीन्समेतान् ॥ ३६ ॥
« »