Click on words to see what they mean.

वैशंपायन उवाच ।ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः ।प्रययुर्द्रौपदीं द्रष्टुं तं च देवमहोत्सवम् ॥ १ ॥
ते प्रयाता नरव्याघ्रा मात्रा सह परंतपाः ।ब्राह्मणान्ददृशुर्मार्गे गच्छतः सगणान्बहून् ॥ २ ॥
तानूचुर्ब्राह्मणा राजन्पाण्डवान्ब्रह्मचारिणः ।क्व भवन्तो गमिष्यन्ति कुतो वागच्छतेति ह ॥ ३ ॥
युधिष्ठिर उवाच ।आगतानेकचक्रायाः सोदर्यान्देवदर्शिनः ।भवन्तो हि विजानन्तु सहितान्मातृचारिणः ॥ ४ ॥
ब्राह्मणा ऊचुः ।गच्छताद्यैव पाञ्चालान्द्रुपदस्य निवेशनम् ।स्वयंवरो महांस्तत्र भविता सुमहाधनः ॥ ५ ॥
एकसार्थं प्रयाताः स्मो वयमप्यत्र गामिनः ।तत्र ह्यद्भुतसंकाशो भविता सुमहोत्सवः ॥ ६ ॥
यज्ञसेनस्य दुहिता द्रुपदस्य महात्मनः ।वेदीमध्यात्समुत्पन्ना पद्मपत्रनिभेक्षणा ॥ ७ ॥
दर्शनीयानवद्याङ्गी सुकुमारी मनस्विनी ।धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥ ८ ॥
यो जातः कवची खड्गी सशरः सशरासनः ।सुसमिद्धे महाबाहुः पावके पावकप्रभः ॥ ९ ॥
स्वसा तस्यानवद्याङ्गी द्रौपदी तनुमध्यमा ।नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ॥ १० ॥
तां यज्ञसेनस्य सुतां स्वयंवरकृतक्षणाम् ।गच्छामहे वयं द्रष्टुं तं च देवमहोत्सवम् ॥ ११ ॥
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः ।स्वाध्यायवन्तः शुचयो महात्मानो यतव्रताः ॥ १२ ॥
तरुणा दर्शनीयाश्च नानादेशसमागताः ।महारथाः कृतास्त्राश्च समुपैष्यन्ति भूमिपाः ॥ १३ ॥
ते तत्र विविधान्दायान्विजयार्थं नरेश्वराः ।प्रदास्यन्ति धनं गाश्च भक्ष्यं भोज्यं च सर्वशः ॥ १४ ॥
प्रतिगृह्य च तत्सर्वं दृष्ट्वा चैव स्वयंवरम् ।अनुभूयोत्सवं चैव गमिष्यामो यथेप्सितम् ॥ १५ ॥
नटा वैतालिकाश्चैव नर्तकाः सूतमागधाः ।नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥ १६ ॥
एवं कौतूहलं कृत्वा दृष्ट्वा च प्रतिगृह्य च ।सहास्माभिर्महात्मानः पुनः प्रतिनिवर्त्स्यथ ॥ १७ ॥
दर्शनीयांश्च वः सर्वान्देवरूपानवस्थितान् ।समीक्ष्य कृष्णा वरयेत्संगत्यान्यतमं वरम् ॥ १८ ॥
अयं भ्राता तव श्रीमान्दर्शनीयो महाभुजः ।नियुध्यमानो विजयेत्संगत्या द्रविणं बहु ॥ १९ ॥
युधिष्ठिर उवाच ।परमं भो गमिष्यामो द्रष्टुं देवमहोत्सवम् ।भवद्भिः सहिताः सर्वे कन्यायास्तं स्वयंवरम् ॥ २० ॥
« »