Click on words to see what they mean.

वैशंपायन उवाच ।ततो रात्र्यां व्यतीतायामन्नमादाय पाण्डवः ।भीमसेनो ययौ तत्र यत्रासौ पुरुषादकः ॥ १ ॥
आसाद्य तु वनं तस्य रक्षसः पाण्डवो बली ।आजुहाव ततो नाम्ना तदन्नमुपयोजयन् ॥ २ ॥
ततः स राक्षसः श्रुत्वा भीमसेनस्य तद्वचः ।आजगाम सुसंक्रुद्धो यत्र भीमो व्यवस्थितः ॥ ३ ॥
महाकायो महावेगो दारयन्निव मेदिनीम् ।त्रिशिखां भृकुटिं कृत्वा संदश्य दशनच्छदम् ॥ ४ ॥
भुञ्जानमन्नं तं दृष्ट्वा भीमसेनं स राक्षसः ।विवृत्य नयने क्रुद्ध इदं वचनमब्रवीत् ॥ ५ ॥
कोऽयमन्नमिदं भुङ्क्ते मदर्थमुपकल्पितम् ।पश्यतो मम दुर्बुद्धिर्यियासुर्यमसादनम् ॥ ६ ॥
भीमसेनस्तु तच्छ्रुत्वा प्रहसन्निव भारत ।राक्षसं तमनादृत्य भुङ्क्त एव पराङ्मुखः ॥ ७ ॥
ततः स भैरवं कृत्वा समुद्यम्य करावुभौ ।अभ्यद्रवद्भीमसेनं जिघांसुः पुरुषादकः ॥ ८ ॥
तथापि परिभूयैनं नेक्षमाणो वृकोदरः ।राक्षसं भुङ्क्त एवान्नं पाण्डवः परवीरहा ॥ ९ ॥
अमर्षेण तु संपूर्णः कुन्तीपुत्रस्य राक्षसः ।जघान पृष्ठं पाणिभ्यामुभाभ्यां पृष्ठतः स्थितः ॥ १० ॥
तथा बलवता भीमः पाणिभ्यां भृशमाहतः ।नैवावलोकयामास राक्षसं भुङ्क्त एव सः ॥ ११ ॥
ततः स भूयः संक्रुद्धो वृक्षमादाय राक्षसः ।ताडयिष्यंस्तदा भीमं पुनरभ्यद्रवद्बली ॥ १२ ॥
ततो भीमः शनैर्भुक्त्वा तदन्नं पुरुषर्षभः ।वार्युपस्पृश्य संहृष्टस्तस्थौ युधि महाबलः ॥ १३ ॥
क्षिप्तं क्रुद्धेन तं वृक्षं प्रतिजग्राह वीर्यवान् ।सव्येन पाणिना भीमः प्रहसन्निव भारत ॥ १४ ॥
ततः स पुनरुद्यम्य वृक्षान्बहुविधान्बली ।प्राहिणोद्भीमसेनाय तस्मै भीमश्च पाण्डवः ॥ १५ ॥
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् ।घोररूपं महाराज बकपाण्डवयोर्महत् ॥ १६ ॥
नाम विश्राव्य तु बकः समभिद्रुत्य पाण्डवम् ।भुजाभ्यां परिजग्राह भीमसेनं महाबलम् ॥ १७ ॥
भीमसेनोऽपि तद्रक्षः परिरभ्य महाभुजः ।विस्फुरन्तं महावेगं विचकर्ष बलाद्बली ॥ १८ ॥
स कृष्यमाणो भीमेन कर्षमाणश्च पाण्डवम् ।समयुज्यत तीव्रेण श्रमेण पुरुषादकः ॥ १९ ॥
तयोर्वेगेन महता पृथिवी समकम्पत ।पादपांश्च महाकायांश्चूर्णयामासतुस्तदा ॥ २० ॥
हीयमानं तु तद्रक्षः समीक्ष्य भरतर्षभ ।निष्पिष्य भूमौ पाणिभ्यां समाजघ्ने वृकोदरः ॥ २१ ॥
ततोऽस्य जानुना पृष्ठमवपीड्य बलादिव ।बाहुना परिजग्राह दक्षिणेन शिरोधराम् ॥ २२ ॥
सव्येन च कटीदेशे गृह्य वाससि पाण्डवः ।तद्रक्षो द्विगुणं चक्रे नदन्तं भैरवान्रवान् ॥ २३ ॥
ततोऽस्य रुधिरं वक्त्रात्प्रादुरासीद्विशां पते ।भज्यमानस्य भीमेन तस्य घोरस्य रक्षसः ॥ २४ ॥
« »