Click on words to see what they mean.

वैशंपायन उवाच ।भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव ।भगिनीं प्रति संक्रुद्धमिदं वचनमब्रवीत् ॥ १ ॥
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः ।मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥ २ ॥
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि ।विशेषतोऽनपकृते परेणापकृते सति ॥ ३ ॥
न हीयं स्ववशा बाला कामयत्यद्य मामिह ।चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ।भगिनी तव दुर्बुद्धे राक्षसानां यशोहर ॥ ४ ॥
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च ।कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् ॥ ५ ॥
अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस ।मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ॥ ६ ॥
समागच्छ मया सार्धमेकेनैको नराशन ।अहमेव नयिष्यामि त्वामद्य यमसादनम् ॥ ७ ॥
अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् ।कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ॥ ८ ॥
अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते ।कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥ ९ ॥
क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् ।पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् ॥ १० ॥
अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि ।द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥ ११ ॥
निराबाधास्त्वयि हते मया राक्षसपांसन ।वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥ १२ ॥
हिडिम्ब उवाच ।गर्जितेन वृथा किं ते कत्थितेन च मानुष ।कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ॥ १३ ॥
बलिनं मन्यसे यच्च आत्मानमपराक्रमम् ।ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥ १४ ॥
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् ।एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥ १५ ॥
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि ।हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥ १६ ॥
वैशंपायन उवाच ।एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः ।अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम् ॥ १७ ॥
तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः ।वेगेन प्रहृतं बाहुं निजग्राह हसन्निव ॥ १८ ॥
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह ।तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥ १९ ॥
ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः ।भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥ २० ॥
पुनर्भीमो बलादेनं विचकर्ष महाबलः ।मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति ॥ २१ ॥
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा ।राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ॥ २२ ॥
बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः ।मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ ॥ २३ ॥
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः ।सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् ॥ २४ ॥
« »