Click on words to see what they mean.

वैशंपायन उवाच ।प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् ।विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥ १ ॥
ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा ।उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ॥ २ ॥
कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि ।केन कार्येण सुश्रोणि कुतश्चागमनं तव ॥ ३ ॥
यदि वास्य वनस्यासि देवता यदि वाप्सराः ।आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥ ४ ॥
हिडिम्बोवाच ।यदेतत्पश्यसि वनं नीलमेघनिभं महत् ।निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च ॥ ५ ॥
तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि ।भ्रात्रा संप्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥ ६ ॥
क्रूरबुद्धेरहं तस्य वचनादागता इह ।अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् ॥ ७ ॥
ततोऽहं सर्वभूतानां भावे विचरता शुभे ।चोदिता तव पुत्रस्य मन्मथेन वशानुगा ॥ ८ ॥
ततो वृतो मया भर्ता तव पुत्रो महाबलः ।अपनेतुं च यतितो न चैव शकितो मया ॥ ९ ॥
चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः ।स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ॥ १० ॥
स तेन मम कान्तेन तव पुत्रेण धीमता ।बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना ॥ ११ ॥
विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् ।पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ ॥ १२ ॥
वैशंपायन उवाच ।तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः ।अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥ १३ ॥
तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् ।काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ ॥ १४ ॥
तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् ।दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥ १५ ॥
वसुधारेणुसंवीतौ वसुधाधरसंनिभौ ।विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ॥ १६ ॥
राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु ।उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव ॥ १७ ॥
भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् ।समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः ॥ १८ ॥
साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् ।नकुलः सहदेवश्च मातरं गोपयिष्यतः ॥ १९ ॥
भीम उवाच ।उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया ।न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ॥ २० ॥
अर्जुन उवाच ।किमनेन चिरं भीम जीवता पापरक्षसा ।गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम ॥ २१ ॥
पुरा संरज्यते प्राची पुरा संध्या प्रवर्तते ।रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च ॥ २२ ॥
त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् ।पुरा विकुरुते मायां भुजयोः सारमर्पय ॥ २३ ॥
वैशंपायन उवाच ।अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः ।उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् ॥ २४ ॥
भीम उवाच ।वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः ।वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥ २५ ॥
अर्जुन उवाच ।अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि ।करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् ॥ २६ ॥
अथ वाप्यहमेवैनं हनिष्यामि वृकोदर ।कृतकर्मा परिश्रान्तः साधु तावदुपारम ॥ २७ ॥
वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः ।निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् ॥ २८ ॥
स मार्यमाणो भीमेन ननाद विपुलं स्वनम् ।पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः ॥ २९ ॥
भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः ।मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान् ॥ ३० ॥
हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः ।अपूजयन्नरव्याघ्रं भीमसेनमरिंदमम् ॥ ३१ ॥
अभिपूज्य महात्मानं भीमं भीमपराक्रमम् ।पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ॥ ३२ ॥
नदूरे नगरं मन्ये वनादस्मादहं प्रभो ।शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥ ३३ ॥
ततः सर्वे तथेत्युक्त्वा सह मात्रा परंतपाः ।प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ॥ ३४ ॥
« »