Click on words to see what they mean.

वैशंपायन उवाच ।तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः ।अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः ॥ १ ॥
क्रूरो मानुषमांसादो महावीर्यो महाबलः ।विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः ।पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया ॥ २ ॥
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् ।जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च ॥ ३ ॥
दुष्टो मानुषमांसादो महाकायो महाबलः ।आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ॥ ४ ॥
उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः ।स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् ॥ ५ ॥
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः ।देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ॥ ६ ॥
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि ।उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ॥ ७ ॥
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः ।मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ॥ ८ ॥
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् ।अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ॥ ९ ॥
एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः ।भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम ॥ १० ॥
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी ।जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ ॥ ११ ॥
ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह ।शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ॥ १२ ॥
दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् ।राक्षसी कामयामास रूपेणाप्रतिमं भुवि ॥ १३ ॥
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः ।कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ॥ १४ ॥
नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् ।पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ॥ १५ ॥
मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च ।हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः ॥ १६ ॥
सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् ।उपतस्थे महाबाहुं भीमसेनं शनैः शनैः ॥ १७ ॥
विलज्जमानेव लता दिव्याभरणभूषिता ।स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ॥ १८ ॥
कुतस्त्वमसि संप्राप्तः कश्चासि पुरुषर्षभ ।क इमे शेरते चेह पुरुषा देवरूपिणः ॥ १९ ॥
केयं च बृहती श्यामा सुकुमारी तवानघ ।शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ॥ २० ॥
नेदं जानाति गहनं वनं राक्षससेवितम् ।वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ॥ २१ ॥
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा ।बिभक्षयिषता मांसं युष्माकममरोपम ॥ २२ ॥
साहं त्वामभिसंप्रेक्ष्य देवगर्भसमप्रभम् ।नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ॥ २३ ॥
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर ।कामोपहतचित्ताङ्गीं भजमानां भजस्व माम् ॥ २४ ॥
त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् ।वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ॥ २५ ॥
अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च ।अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ॥ २६ ॥
भीम उवाच ।मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् ।परित्यजेत को न्वद्य प्रभवन्निव राक्षसि ॥ २७ ॥
को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम् ।मातरं च नरो गच्छेत्कामार्त इव मद्विधः ॥ २८ ॥
राक्षस्युवाच ।यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय ।मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात् ॥ २९ ॥
भीम उवाच ।सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि ।न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ॥ ३० ॥
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् ।न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ॥ ३१ ॥
गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु ।तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ॥ ३२ ॥
« »