Click on words to see what they mean.

वैशंपायन उवाच ।तेन विक्रमता तूर्णमूरुवेगसमीरितम् ।प्रववावनिलो राजञ्शुचिशुक्रागमे यथा ॥ १ ॥
स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् ।आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान् ॥ २ ॥
तथा वृक्षान्भञ्जमानो जगामामितविक्रमः ।तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत ॥ ३ ॥
असकृच्चापि संतीर्य दूरपारं भुजप्लवैः ।पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ॥ ४ ॥
कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् ।अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च ॥ ५ ॥
आगमंस्ते वनोद्देशमल्पमूलफलोदकम् ।क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः ॥ ६ ॥
घोरा समभवत्संध्या दारुणा मृगपक्षिणः ।अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ॥ ७ ॥
ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः ।नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ॥ ८ ॥
ततो भीमो वनं घोरं प्रविश्य विजनं महत् ।न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् ॥ ९ ॥
तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः ।पानीयं मृगयामीह विश्रमध्वमिति प्रभो ॥ १० ॥
एते रुवन्ति मधुरं सारसा जलचारिणः ।ध्रुवमत्र जलस्थायो महानिति मतिर्मम ॥ ११ ॥
अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत ।जगाम तत्र यत्र स्म रुवन्ति जलचारिणः ॥ १२ ॥
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ ।उत्तरीयेण पानीयमाजहार तदा नृप ॥ १३ ॥
गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति ।स सुप्तां मातरं दृष्ट्वा भ्रातॄंश्च वसुधातले ।भृशं दुःखपरीतात्मा विललाप वृकोदरः ॥ १४ ॥
शयनेषु परार्ध्येषु ये पुरा वारणावते ।नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ॥ १५ ॥
स्वसारं वसुदेवस्य शत्रुसंघावमर्दिनः ।कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् ॥ १६ ॥
स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः ।प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् ॥ १७ ॥
सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् ।शयानां पश्यताद्येह पृथिव्यामतथोचिताम् ॥ १८ ॥
धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् ।सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता ॥ १९ ॥
किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् ।योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ॥ २० ॥
त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः ।सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ॥ २१ ॥
अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि ।शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् ॥ २२ ॥
अश्विनाविव देवानां याविमौ रूपसंपदा ।तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ॥ २३ ॥
ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः ।स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः ॥ २४ ॥
एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः ।चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः ॥ २५ ॥
येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः ।ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ॥ २६ ॥
बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः ।जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ॥ २७ ॥
वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना ।विवासिता न दग्धाश्च कथंचित्तस्य शासनात् ॥ २८ ॥
तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः ।कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ॥ २९ ॥
नातिदूरे च नगरं वनादस्माद्धि लक्षये ।जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् ॥ ३० ॥
पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः ।इति भीमो व्यवस्यैव जजागार स्वयं तदा ॥ ३१ ॥
« »