Click on words to see what they mean.

वैशंपायन उवाच ।ततः सर्वाः प्रकृतयो नगराद्वारणावतात् ।सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥ १ ॥
श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः ।अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ॥ २ ॥
ते समासाद्य कौन्तेयान्वारणावतका जनाः ।कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥ ३ ॥
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः ।विबभौ देवसंकाशो वज्रपाणिरिवामरैः ॥ ४ ॥
सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः ।अलंकृतं जनाकीर्णं विविशुर्वारणावतम् ॥ ५ ॥
ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् ।ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥ ६ ॥
नगराधिकृतानां च गृहाणि रथिनां तथा ।उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि ॥ ७ ॥
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः ।जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः ॥ ८ ॥
तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च ।आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥ ९ ॥
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः ।उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ॥ १० ॥
दशरात्रोषितानां तु तत्र तेषां पुरोचनः ।निवेदयामास गृहं शिवाख्यमशिवं तदा ॥ ११ ॥
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः ।पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ॥ १२ ॥
तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः ।उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ।जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् ॥ १३ ॥
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परंतप ।शणसर्जरसं व्यक्तमानीतं गृहकर्मणि ।मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् ॥ १४ ॥
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि ।विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ॥ १५ ॥
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा ।आपदं तेन मां पार्थ स संबोधितवान्पुरा ॥ १६ ॥
ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् ।आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ॥ १७ ॥
भीम उवाच ।यदिदं गृहमाग्नेयं विहितं मन्यते भवान् ।तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥ १८ ॥
युधिष्ठिर उवाच ।इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये ।नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ॥ १९ ॥
यदि विन्देत चाकारमस्माकं हि पुरोचनः ।शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ॥ २० ॥
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः ।तथा हि वर्तते मन्दः सुयोधनमते स्थितः ॥ २१ ॥
अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः ।कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः ।धर्म इत्येव कुप्येत तथान्ये कुरुपुंगवाः ॥ २२ ॥
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि ।स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः ॥ २३ ॥
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः ।हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥ २४ ॥
तदस्माभिरिमं पापं तं च पापं सुयोधनम् ।वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् ॥ २५ ॥
ते वयं मृगयाशीलाश्चराम वसुधामिमाम् ।तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ॥ २६ ॥
भौमं च बिलमद्यैव करवाम सुसंवृतम् ।गूढोच्छ्वसान्न नस्तत्र हुताशः संप्रधक्ष्यति ॥ २७ ॥
वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः ।पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ॥ २८ ॥
« »