Click on words to see what they mean.

वैशंपायन उवाच ।पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः ।आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् ॥ १ ॥
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः ।अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च ॥ २ ॥
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः ।समालिङ्ग्य समानांश्च बालैश्चाप्यभिवादिताः ॥ ३ ॥
सर्वा मातॄस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् ।सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम् ॥ ४ ॥
विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुंगवाः ।पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः ॥ ५ ॥
तत्र केचिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा ।शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ ॥ ६ ॥
विषमं पश्यते राजा सर्वथा तमसावृतः ।धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति ॥ ७ ॥
न हि पापमपापात्मा रोचयिष्यति पाण्डवः ।भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनंजयः ।कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः ॥ ८ ॥
तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते ।अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते ।विवास्यमानानस्थाने कौन्तेयान्भरतर्षभान् ॥ ९ ॥
पितेव हि नृपोऽस्माकमभूच्छांतनवः पुरा ।विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ॥ १० ॥
स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति ।राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते ॥ ११ ॥
वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात् ।गृहान्विहाय गच्छामो यत्र याति युधिष्ठिरः ॥ १२ ॥
तांस्तथावादिनः पौरान्दुःखितान्दुःखकर्शितः ।उवाच परमप्रीतो धर्मराजो युधिष्ठिरः ॥ १३ ॥
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः ।अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ॥ १४ ॥
भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् ।आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम् ॥ १५ ॥
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते ।तदा करिष्यथ मम प्रियाणि च हितानि च ॥ १६ ॥
ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् ।आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि ॥ १७ ॥
पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् ।बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ।प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् ॥ १८ ॥
विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा ।अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् ।यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः ॥ १९ ॥
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः ।न दहेदिति चात्मानं यो रक्षति स जीवति ॥ २० ॥
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः ।नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः ॥ २१ ॥
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् ।श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ॥ २२ ॥
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः ।आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते ॥ २३ ॥
अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम् ।पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् ॥ २४ ॥
निवृत्ते विदुरे चैव भीष्मे पौरजने तथा ।अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् ॥ २५ ॥
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव ।त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् ॥ २६ ॥
यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् ।श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ॥ २७ ॥
युधिष्ठिर उवाच ।विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् ।पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् ॥ २८ ॥
जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् ।विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया ॥ २९ ॥
वैशंपायन उवाच ।अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते ।वारणावतमासाद्य ददृशुर्नागरं जनम् ॥ ३० ॥
« »