लक्ष्मीनृसिंहपञ्चरत्नम्

त्वत्प्रभुजीवप्रियमिच्छसि चेन्नररिपूजां कुरु सततंप्रतिबिम्बालंकृतिधृतिकुशलो बिम्बालंकृतिमातनुते ।चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायांभज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥
शुक्तौ रजतप्रतिभा जाता कटकाद्यर्थसमर्था चे-द्दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् ।चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायांभज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥
आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोःगन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेऽस्मिन् ।चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायांभज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ३ ॥
स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसेगन्धफलीसदृशा ननु तेऽमी भोगानन्तरदुःखकृतः स्युः ।चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायांभज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ४ ॥
तव हितमेकं वचनं वक्ष्ये शृणु सुखकामो यदि सततंस्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति ।चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायांभज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ लक्ष्मीनृसिंहपञ्चरत्नं संपूर्णम् ॥

Settings