कर्णभारम् Click on words to see what they mean. ( नान्द्यन्ते ततः प्रविशति सूत्रधारः । ) ▼ Edit Permalink Bookmark सूत्रधारः —नरमृगपतिवर्ष्मालोकनभ्रान्तनारी-नरदनुजसुपर्वत्रातपाताललोकः ।करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाःसुररिपुबलहन्ता श्रीधरोऽस्तु श्रिये वः ॥ १ ॥एवमार्यमिश्रान्विज्ञापयामि । ( परिक्रम्य, कर्णं दत्वा । ) अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । ▼ Edit Permalink Bookmark ( नेपथ्ये ) ▼ Edit Permalink Bookmark भो भो ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय । ▼ Edit Permalink Bookmark सूत्रधारः —भवतु विज्ञातम् ।संग्रामे तुमुले जाते कर्णाय कलिताञ्जलिः ।निवेदयति संभ्रान्तो भृत्यो दुर्योधनाज्ञया ॥ २ ॥ ▼ Edit Permalink Bookmark ( निष्क्रान्तः । ) ▼ Edit Permalink Bookmark प्रस्तावना । ▼ Edit Permalink Bookmark ( ततः प्रविशति भटः । ) ▼ Edit Permalink Bookmark भटः —भो भोः ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय युद्धकाल उपस्थित इति ।करितुरगरथस्थैः पार्थकेतोः पुरस्तात्मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य ।त्वरितमरिनिनादैर्दुस्सहालोकवीरःसमरमधिगतार्थः प्रस्थितो नागकेतुः ॥ ३ ॥( परिक्रम्य विलोक्य ) अये अयमगङ्गराजः समरपरिच्छदपरिवृतः शल्यराजेन सह स्वभवनान्निष्क्रम्येत एवाभिवर्तते । भोः ! किं नु खलु युद्धोत्सवप्रमुखस्य दृष्टपराक्रमस्याभूतपूर्वो हृदयपरितापः । एष हि अत्युग्रदीप्तिविशदः समरेऽग्रगण्यःशौर्ये च संप्रति सशोकमुपैति धीमान् ।प्राप्ते निदाघसमये घनराशिरुद्धःसूर्य: स्वभावरुचिमानिव भाति कर्ण: ॥ ४ ॥यावदपसर्पामि ।( निष्क्रान्तः । ) ▼ Edit Permalink Bookmark ( ततः प्रविशति यथानिर्दिष्टः कर्णः शल्यश्च । ) ▼ Edit Permalink Bookmark कर्ण: —मा तावन्मम शरमार्गलक्षभूताःसंप्राप्ताः क्षितिपतयः सजीवशेषाः ।कर्तव्यं रणशिरसि प्रियं कुरूणांद्रष्टव्यो यदि स भवेद्धनंजयो मे ॥ ५ ॥शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः । ▼ Edit Permalink Bookmark शल्यः —बाढम् ।( चोदयति । ) ▼ Edit Permalink Bookmark कर्णः —अहो नु खलुअन्योन्यशस्त्रविनिपातनिकृत्तगात्र-यौधाश्ववारणरथेषु महाहवेषु ।क्रुद्धान्तकप्रतिमविक्रमिणो ममापिवैधुर्यमापतति चेतसि युद्धकाले ॥ ६ ॥भोः कष्टम् । पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः ।युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ ७ ॥अयं स कालः क्रमलब्धशोभनोगुणप्रकर्षो दिवसोऽयमागतः ।निरर्थमस्त्रं च मयाहि शिक्षितंपुनश्च मातुर्वचनेन वारितः ॥ ८ ॥भोः शल्यराज श्रूयतां ममास्त्रस्य वृत्तान्तः । ▼ Edit Permalink Bookmark शल्यः —ममाप्यस्ति कौतूहमेनं वृत्तान्तं श्रोतुम् । ▼ Edit Permalink Bookmark कर्णः —पूर्वमेवाहं जामदग्न्यस्य सकाशं गतवानस्मि । ▼ Edit Permalink Bookmark शल्यः —ततस्ततः । ▼ Edit Permalink Bookmark कर्णः —ततः,विद्युल्लताकपिलतुङ्गजटाकलाप-मुद्यत्प्रभावलयिनं परशुं दधानम् ।क्षत्रान्तकं मुनिवरं भृगुवंशकेतुंगत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ ९ ॥ ▼ Edit Permalink Bookmark शल्यः —ततस्ततः । ▼ Edit Permalink Bookmark कर्णः —ततो जमदग्निनो ममाशीर्वचनं दत्वा पृष्टोऽस्मि । को भवान् किमर्थमिहागत इति । ▼ Edit Permalink Bookmark शल्य: —ततस्ततः । ▼ Edit Permalink Bookmark कर्णः —ततः भगवन् अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्तवानस्मि । ▼ Edit Permalink Bookmark शल्यः —ततस्ततः । ▼ Edit Permalink Bookmark कर्णः —ततः उक्तोऽहं भगवता ब्राह्मणेषूपदेशं करिष्यामि न क्षत्रियाणामिति । ▼ Edit Permalink Bookmark शल्यः —अस्ति खलु भगवतः क्षत्रियवंश्यैः पूर्ववैरम् । ततस्ततः । ▼ Edit Permalink Bookmark कर्णः —ततो नाहं क्षत्रिय इत्यस्त्रोपदेशं ग्रहीतुमारब्धं मया । ▼ Edit Permalink Bookmark शल्यः —ततस्ततः । ▼ Edit Permalink Bookmark कर्णः —ततः कतिपयकालातिक्रमे कदाचित्फलमूलसमित्कुशकुसुमाहरणाय गतवता गुरुणा सहानुगतोऽस्मि । ▼ Edit Permalink Bookmark शल्यः —ततस्ततः । ▼ Edit Permalink Bookmark कर्णः —ततः स गुरुर्वनभ्रमणपरिश्रमान्मदङ्के निद्रावशमुपगतः । ▼ Edit Permalink Bookmark शल्यः —ततस्ततः । ▼ Edit Permalink Bookmark कर्णः —ततःकृत्ते वज्रमुखेन नाम कृमिणा दैवान्ममोरुद्वयेनिद्राच्छेदभयादसह्यत गुरोधैर्यात्तदा वेदना ।उत्थाय क्षतजाप्लुतः स सहसा रोषानलोद्दीपितोबुध्वा मां च शशाप कालविफलान्यस्त्राणि ते सन्त्विति ॥ १० ॥ ▼ Edit Permalink Bookmark शल्यः —अहो कष्टमभिहितं तत्रभवता । ▼ Edit Permalink Bookmark कर्णः —परीक्षामहे तावदस्त्रस्य वृत्तान्तम् ।( तथा कृत्वा ) एतान्यस्त्राणि निर्वीर्याणीव लक्ष्यन्ते । अपि च ।इमे हि दैन्येन निमीलितेक्षणामुहुः स्खलन्तो विवशास्तुरङ्गमाः ।गजाश्च सप्तच्छददानगन्धिनोनिवेदयन्तीव रणे निवर्तनम् ॥ ११ ॥शङ्खदुन्दुभयश्च निःशब्दाः । ▼ Edit Permalink Bookmark शल्य: —भोः कष्टं किं नु खल्विदम् । ▼ Edit Permalink Bookmark कर्णः —शल्यराज ! अलमलं विषादेन ।हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः ।उभे बहुमते लोके नास्ति निष्फलता रणे ॥ १२ ॥अपि च इमे हि युद्धेष्वनिवर्तिताशाहयाः सुपर्णेन समानवेगाः ।श्रीमत्सु काम्बोजकुलेषु जाताःरक्षन्तुमां यद्यपि रक्षितव्यम् ॥ १३ ॥अक्षयोऽस्तु गोब्राह्मणानाम् अक्षयोऽस्तु पतित्रतानाम् । अक्षयोऽस्तु रणेष्वपराङ्मुखानां यौधपुरुषाणाम् । अक्षयोऽस्तु मम प्राप्तकालस्य । एष भोः प्रसन्नोऽस्मि । समरमुखमसह्यं पाण्डवानां प्रविश्यप्रथितगुणगणाढयं धर्मराजं च बद्ध्वा ।मम शरवरवेगैरर्जुनं पातयित्वावनमिव हतासिंहं सुप्रवेशं करोमि ॥ १४ ॥शल्यराज ! यावद्रथमारोहावः । ▼ Edit Permalink Bookmark शल्यः —बाढम् । ▼ Edit Permalink Bookmark ( उभौ रथारोहणं नाटयतः । ) ▼ Edit Permalink Bookmark कर्णः —शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः । ▼ Edit Permalink Bookmark ( नेपथ्ये ) ▼ Edit Permalink Bookmark भो कण्ण ! महत्तरं भिक्खं याचेमि । भोः कर्ण ! महत्तरां भिक्षां याचे । ▼ Edit Permalink Bookmark कर्ण: —( आकर्ण्य ) अये वीर्यवान् शब्दः ।श्रीमानेष न केवलं द्विजवरो यस्मात्प्रभावो महा-नाकर्ण्य स्वरमस्य धीरनिनदं चित्रार्पिताङ्गा इव ।उत्कर्णस्तिभिताञ्चिताक्षवलितग्रीवार्पिताग्रानना-स्तिष्ठन्त्यस्ववशांगयष्टि सहसा यान्तो ममैते हयाः ॥ १५ ॥आहूयतां स विप्रः । न न । अहमेवाह्वयाभि । भगवन्नित इतः । ▼ Edit Permalink Bookmark ( ततः प्रविशति ब्राह्मणरूपेण शक्रः । ) ▼ Edit Permalink Bookmark शक्रः —भो मेघाः ! सूर्येणैव निवर्त्य गच्छन्तु भवन्तः ।( कर्णमुपगम्य ) भो कण्ण ! महत्तरं भिक्खं याचेमि । भोः कर्ण ! महत्तरां भिक्षां याचे । ▼ Edit Permalink Bookmark कर्णः —दृढं प्रीतोऽस्मि भगवन् !यातः कृतार्थगणनामहमद्य लोकेराजेन्द्रमौलिमणिरञ्जितपादपद्मः ।विप्रेन्द्रपादरजसा तु पवित्रमौलिःकर्णो भवन्तमहमेष नमस्करोमि ॥ १६ ॥ ▼ Edit Permalink Bookmark शक्रः —( आत्मगतम् ) किं नु खलु मया वक्तव्यं, यदि दीर्घायुभवेति वक्ष्ये दीर्घायुर्भविष्यति । यदि न वक्ष्ये मूढ इति मां परिभवति । तस्मादुभयं परिहृत्य किं नु खलु वक्ष्यामि । भवतु दृष्टम् । ( प्रकाशम् )धीरमधुरं ।भो कण्ण ! सुय्ये विअ, चन्दे विअ, हिमवन्ते विअ, सागळे विअ, चिट्ठदु दे जसो । भोः कर्ण ! सूर्य इव, चन्द्र इव, हिमवान् इव, सागर इव तिष्ठतु ते यश: । ▼ Edit Permalink Bookmark कर्णः —भगवन् ! किं न वक्तव्यं दीर्घायुर्भवेति । अथवा एतदेव शोभनम् । कुतः -धर्मो हि यत्नैः पुरुषेण साध्यो भुजंगजिह्वाचपला नृपश्रियः ।तस्मात्प्रजापालनमात्रबुध्या हतेषु देहेषु गुणा धरन्ते ॥ १७ ॥भगवन्, किमिच्छसि । किमहं ददामि । ▼ Edit Permalink Bookmark शक्रः —महत्तरं भिक्खं याचेमि ।महत्तरां भिक्षां याचे । ▼ Edit Permalink Bookmark कर्णः —महत्तरां भिक्षां भवते प्रदास्ये । श्रूयन्तां मद्विभवाः ।गुणवदमृतकल्पक्षीरधाराभिवर्षि द्विजवर ! रुचितं ते तृप्तवत्सानुयात्रम् । तरुणमधिकमर्थिप्रार्थनीयं पवित्रं विहितकनकशृङ्गं गोसहस्रं ददामि ॥ १८ ॥ ▼ Edit Permalink Bookmark शक्रः —गोसहस्सं त्ति । मुहुत्तअं खिरं पिबामि । णेच्छामि कण्ण ! णेच्छामि ।गोसहस्रमिति । मुहूर्तकं क्षीरं पिबामि । नेच्छामि कर्ण ! नेच्छामि । ▼ Edit Permalink Bookmark कर्णः —किं नेच्छति भवान् । इदमपि श्रूयताम् ।रवितुरगसमानं साधनं राजलक्ष्म्याः सकलनृपतिमान्यं मान्यकाम्बोजजातम् । सुगुणमनिलवेगं युद्धदृष्टापदानं सपदि बहु सहस्रं वाजिनां ते ददामि ॥ १९ ॥ ▼ Edit Permalink Bookmark शक्रः —अस्स त्ति । मुहुत्तअं आळुहामि । णेच्छामि कण्ण ! णेच्छामि ।अश्व इति । मुहूर्तकमारोहामि । नेच्छामि कर्णं ! नेच्छामि । ▼ Edit Permalink Bookmark कर्ण: —किं नेच्छति भगवान् । अन्यदपि श्रूयताम् ।मदसरितकपोलं षट्पदैः सेव्यमानंगिरिवरनिचयाभं मेघगम्भीरघोषम् ।सितनखदशनानां वारणानामनेकंरिपुसमरविमर्दं वृन्दमेतद्ददामि ॥ २० ॥ ▼ Edit Permalink Bookmark शक्रः —गअ अत्ति । मुहुत्तअं आळुहामि । णेच्छामि कण्ण !णेच्छामि । गज इति । मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि । ▼ Edit Permalink Bookmark कर्णः —किं नेच्छति भवान् । अन्यदपि श्रूयताम् । अपर्याप्तं कनकं ददामि । ▼ Edit Permalink Bookmark शक्रः —गहिअ गच्छामि ।( किंचिद्गत्वा ) णेच्छामि कण्ण ! णेच्छामि । गृहीत्वा गच्छामि । नेच्छामि कर्ण ! नेच्छामि । ▼ Edit Permalink Bookmark कर्णः —तेन हि जित्वा पृथिवीं ददामि । ▼ Edit Permalink Bookmark शक्रः —पुहुवीए किं करिस्सम् ।पृथिव्या किं करिष्यामि । ▼ Edit Permalink Bookmark कर्णः —तेन ह्यग्निष्टोमफलं ददामि । ▼ Edit Permalink Bookmark शक्र: —अग्गिट्टोमफळेण किं कय्यं ।अग्निष्टोमफलेन किं कार्यम् । ▼ Edit Permalink Bookmark कर्णः —तेन हि मच्छरो ददामि । ▼ Edit Permalink Bookmark शक्र: —अविहा अविहा ।अविहा अविहा । ▼ Edit Permalink Bookmark कर्णः —न भेतव्यं न भेतव्यम् । प्रसीदतु भवान् । अन्यदपि श्रूयताम् ।अङ्गैः सहैव जनितं मम देहरक्षादेवासुरैरपि न भेद्यमिदं सहास्त्रैः ।देयं तथापि कवचं सह कुण्डलाभ्यांप्रीत्या मया भगवते रुचितं यदि स्यात् ॥ २१ ॥ ▼ Edit Permalink Bookmark शक्रः —( सहर्षम् । ) देदु, देदु । ददातु ददातु । ▼ Edit Permalink Bookmark कर्णः —( आत्मगतम् ) एष एवास्य कामः । किं नु खल्वनेककपटबुद्धेः कृष्णस्योपायः । सोऽपि भवतु । धिगयुक्तमनुशोचितुम् । नास्ति संशयः । ( प्रकाशम् ) गृह्यताम् । ▼ Edit Permalink Bookmark शल्यः —अङ्गराज ! न दातव्यं न दातव्यम् । ▼ Edit Permalink Bookmark कर्णः —शल्यराज ! अलमलं वारयितुम् । पश्यशिक्षा क्षयं गच्छति कालपर्ययात्सुबद्धमूला निपतन्ति पादपाः ।जलं जलस्थानगतं च शुष्यतिहुतं च दत्तं च तथैव तिष्ठति ॥ २२ ॥तस्मात् गृह्यताम् । ( निकृत्य ददाति । ) ▼ Edit Permalink Bookmark शक्रः —( गृहीत्वा आत्मगतम् । ) हन्त गृहीते एते । पूर्वमेवा(हम?)र्जुनविजयार्थं सर्वदेवैर्यत् समर्थितं तदिदानीं मयानुष्ठितम् । तस्मादहमप्यैरावतमारुह्यार्जुनकर्णयोर्द्वन्द्वयुद्धं पश्यामि । ( निष्क्रान्तः । ) ▼ Edit Permalink Bookmark शल्यः —भो अङ्गराज ! वञ्चितः खलु भवान् । ▼ Edit Permalink Bookmark कर्णः —केन । ▼ Edit Permalink Bookmark शल्य: —शक्रेण । ▼ Edit Permalink Bookmark कर्णः —न खलु । शक्रः खलु मया वञ्चितः । कुतः,अनेकयज्ञाहुतितर्पितो द्विजैःकिरीटिमान् दानवसंघमर्दनःसुरद्विपाम्फालनकर्कशाङ्गुलि-र्मया कृतार्थः खलु पाकशासनः ॥ २३ ॥ ▼ Edit Permalink Bookmark ( प्रविश्य ब्राह्मणरूपेण ) ▼ Edit Permalink Bookmark देवदूतः —भोः कर्ण ! कवचकुण्डलग्रहणाज्जनितपश्चात्तापेन पुरंदरेणानुगृहीतोऽसि । पाण्डवेष्वेकपुरुषवधार्थममोघमस्त्रं विमला नाम शक्तिरियं प्रतिगृह्यताम् । ▼ Edit Permalink Bookmark कर्णः —धिग्, दत्तस्य न प्रतिगृह्णामि । ▼ Edit Permalink Bookmark देवदूतः —ननु ब्राह्मणवचनाद् गृह्यताम् । ▼ Edit Permalink Bookmark कर्णः —ब्राह्मणवचनमिति । न मयातिक्रान्तपूर्वम् । कदा लभेय । ▼ Edit Permalink Bookmark देवदूतः —यदा स्मरसि तदा लभस्व । ▼ Edit Permalink Bookmark कर्णः —बाढम् । अनुगृहीतोस्मि । प्रतिनिवर्ततां भवान् । ▼ Edit Permalink Bookmark देवदूत: —बाढम् ।( निष्क्रान्तः । ) ▼ Edit Permalink Bookmark कर्णः —शल्यराज ! यावद्रथमारोहावः । ▼ Edit Permalink Bookmark शल्यः —बाढम् ।( रथारोहणं नाटयतः । ) ▼ Edit Permalink Bookmark कर्णः —अये शब्द इव श्रूयते । किं नु खल्विदम्शङ्खध्वनिः प्रलयसागरघोषतुल्यःकृष्णस्य वा न तु भवेत्स तु फाल्गुनस्यनूनं युधिष्ठिरपराजयकोपितात्मापार्थः करिष्यति यथाबलमद्य युद्धम् ॥ २४ ॥शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः । ▼ Edit Permalink Bookmark शल्यः —बाढम् । ▼ Edit Permalink Bookmark ( भरतवाक्यम् ) ▼ Edit Permalink Bookmark सर्वत्र सम्पदः सन्तु नश्यन्तु विपदः सदा ।राजा राजगुणोपेतो भूमिमेकः प्रशास्तु नः ॥ २५ ॥ ▼ Edit Permalink Bookmark ( निष्क्रान्तौ । ) ▼ Edit Permalink Bookmark कर्णभारमवसितम् । ▼ Edit Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha