सूत्रधारः —नरमृगपतिवर्ष्मालोकनभ्रान्तनारी-नरदनुजसुपर्वत्रातपाताललोकः ।करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाःसुररिपुबलहन्ता श्रीधरोऽस्तु श्रिये वः ॥ १ ॥एवमार्यमिश्रान्विज्ञापयामि । ( परिक्रम्य, कर्णं दत्वा । ) अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।