इन्द्रसहस्रे कटाक्षस्तबकः

Click on words to see what they mean.

तं दशशताक्षं शीतलकटाक्षम् ।नौमि धुतपाशं वज्रधरमीशम् ॥ १ ॥
उग्रमपि दक्षं भासुरकटाक्षम् ।वीर्यधुतवृत्रं नौम्यदितिपुत्रम् ॥ २ ॥
आर्तजनपक्षं रक्षककटाक्षम् ।प्राणिगणतातं नौमि पुरुहूतम् ॥ ३ ॥
देवमसदृक्षं पावनकटाक्षम् ।नौमि बहुमायं वासवममेयम् ॥ ४ ॥
तं पुरुषमीडे स्तुत्यगणलक्षम् ।स्वर्भुवनराज्ञी मोहनकटाक्षम् ॥ ५ ॥
यत्र तव दृष्टिर्वज्रधर हृद्या ।नव्ययुगकर्त्री तत्र वरविद्या ॥ ६ ॥
तत्र वरलक्ष्मीः सन्ततमशून्या ।तत्र सुगुणानां सम्पदपि मान्या ॥ ७ ॥
तत्र बलमुग्रं शत्रुमदहारि ।तत्र नयवित्त्वं विश्वहितकारि ॥ ८ ॥
इन्द्रसहस्रे कटाक्षस्तबकः
यं तव बलारे पावयति दृष्टिः ।तत्र नरवर्ये सर्वशुभवृष्टिः ॥ ९ ॥
यत्र तव पूर्णा दृष्टिरतिभद्रा ।भेदशतबुद्धिस्तस्य न दरिद्रा ॥ १० ॥
किं नु सुकृतादी किं दुरितखादी ।शक्र तव रक्षःसूदनकटाक्षः ॥ ११ ॥
भक्तिरसिकानां पापततिखादी ।सोऽयमितरेषां पक्वसुकृतादी ॥ १२ ॥
पापततिखादी यत्र स कृपावान् ।तस्य हृदि बोधः सर्वसमतावान् ॥ १३ ॥
तस्य जगदर्थे सर्वमपि कार्यम् ।अद्भुतमपारं दिव्यमपि वीर्यम् ॥ १४ ॥
पक्वसुकृतादी यत्र सविचित्रः ।तस्य खलु भोगः काममतिमात्रः ॥ १५ ॥
ये गिरिशनाम्रा ये च हरिनाम्ना ।ये गणपनाम्ना ये च रविनाम्ना ॥ १६ ॥
शक्तिरिति नाम्ना ये बहुलधाम्ना ।ये च मतिमन्तो यह्न इति नाम्ना ॥ १७ ॥
त्वामयि भजन्ते भक्त्यतिशयेन ।सर्वसुररूपं भूरि विभवेन ॥ १८ ॥
तेष्वपि दिवो भूनाथ तव दक्षाः ।भक्तजनरक्षा दीक्षितकटाक्षाः ॥ १९ ॥
त्वत्पदमजानन्नप्यज पवित्रम् ।मङ्गलगुणस्ते दृक्पतनपात्रम् ॥ २० ॥
दृष्टिवशतस्ते प्रेष्ठफलधारा ।संश्रितकुलेष्वप्यप्रतिमसारा ॥ २१ ॥
पावनकटाक्षैः संशमय पापम् ।शीतलकटाक्षैः शक्र मम तापम् । २२ ॥
मङ्गलकटाक्षैः साधय ममेष्टम् ।किं च विबुधानां नाथ हर कष्टम् ॥ २३ ॥
भासुरकटाक्षैर्भासयतु मह्यम् ।नाकनरनाथो ज्योतिरतिगुह्यम् ॥ २४ ॥
॥ इति इन्द्रसहस्रे कटाक्षस्तबकः समाप्तः ॥