गङ्गाष्टकम्

भगवति भवलीलामौलिमाले तवाम्भः-कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ।अमरनगरनारीचामरप्राहिणीनांविगतकलिकलङ्कातङ्कमङ्के लुठन्ति ॥ १ ॥
ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्तीस्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्स्खलन्ती ।क्षोणीपृष्ठे लुठन्ती दुरितचयचमूनिर्भरं भर्त्सयन्तीपाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु ॥ २ ॥
मज्जन्मातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालंस्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम् ।सायं प्रातर्मुनीनां कुशकुसुमचयैश्छिन्नतीरस्थनीरंपायान्नो गाङ्गमम्भः करिकरमकराक्रान्तरंहस्तरङ्गम् ॥
आदावादिपितामहस्य नियमव्यापारपात्रे जलंपश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् ।भूयः शंभुजटाविभूषणमणिर्जह्नोर्महर्षेरियंकन्या कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥
शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणीपारावारविहारिणी भवभयश्रेणीसमुत्सारिणी ।शेषाङ्गैरनुकारिणी हरशिरोवल्लीदलाकारिणीकाशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥ ५ ॥
कुतो वीची वीचिस्तव यदि गता लोचनपथंत्वमापीता पीताम्बरपुरनिवासं वितरसि ।त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतांतदा मातः शान्तक्रतवपदलाभोऽप्यतिलघुः ॥ ६ ॥
भगवति तव तीरे नीरमात्राशनोऽहंविगतविषयतृष्णः कृष्णमाराधयामि ।सकलकलुषभङ्गे स्वर्गसोपानसङ्गेतरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ ७ ॥
मातर्जाह्नवि शंभुसङ्गमिलिते मौलौ निधायाञ्जलिंत्वन्तीरे वपुषोऽवसानसमये नारायणाङ्घ्रिद्यम् ।सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवेभूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ ८ ॥
गङ्गाष्टकमिदं पुण्यंयः पठेत्प्रयतो नरः ।सर्वपापविनिर्मुक्तोविष्णुलोकं स गच्छति ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ गङ्गाष्टकं संपूर्णम् ॥

Settings