गणेशाष्टकम् Click on words to see what they mean. यतोऽनंतशक्तेरन्ताश्चजीवा यतो निर्गुणादप्रमेया गुणास्ते ।यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः १ ▼ Edit Permalink Bookmark यतश्चाविरासीज्जगत्सर्वमेतत्तथान्जासनो विश्वगो विश्वगोप्ता तथेंद्रादयो देवसंघा मनुष्याः सदा तं गणेशं नमामो भजामः ॥२॥ ▼ Edit Permalink Bookmark यतो वह्निभानू भवो भूर्जलं च यतः सागराचंद्रमा व्योम वायुः ।यतः स्थावरा जंगमा वृक्षसंघाः सदा तं गणेशं नमामो भजामः ॥३॥ ▼ Edit Permalink Bookmark यतो दानवाः किन्नरा यक्षसंघा यतश्चारणा वारणाः श्वापदाश्च यतः पक्षिकीटा यतो वीरुधश्च सदा तं गणेशं नमामो भजामः ॥४॥ ▼ Edit Permalink Bookmark यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतः संपदो भक्तसंतोषिकाः स्युः।यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥५॥ ▼ Edit Permalink Bookmark यतः पुत्रसंपद्यतो वाञ्छितार्थो यतोऽभक्तविघ्नास्तथाऽनेकरूपाः यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः ।६। ▼ Edit Permalink Bookmark यतोऽनंतशक्तिः स शेषो बभूव घराधारणेऽनेक रूपे च शक्तः ।यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥ ७ ॥ ▼ Edit Permalink Bookmark यतो वेदवाचो विकुंठा मनोभिः सदा नेति नेतीति यत्ता गृणंति ।परब्रह्मरूपं चिदानंदभूतं सदा तं गणेशं नमामो भजामः ॥ ८॥ ▼ Edit Permalink Bookmark पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।त्रिसंध्यं त्रिदिनं तस्य सर्वकार्ये भविष्यति ॥ ९ ॥ ▼ Edit Permalink Bookmark यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।अष्टवारं चतुर्थ्यो तु सोऽष्टसिद्धीरवाप्नुयात् ॥ १० ॥ ▼ Edit Permalink Bookmark यः पठेन्मासमात्रं तु दशवारं दिनेदिने ।स मोचयेद्बंन्धगतं राजवध्यं न संशयः ॥ ११ ॥ ▼ Edit Permalink Bookmark विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।वांछिताँल्लभते सर्वानेकविंशतिवारतः ॥ १२ ॥ ▼ Edit Permalink Bookmark यो जपेत्परया भक्त्या गजाननपरो नरः ।एवमुक्त्वा ततो देवश्चांन्तर्धानं गतः प्रभुः ॥ १३ ॥ ▼ Edit Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha