<?xml version='1.0' encoding='utf-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0"><teiHeader><fileDesc><title>गणेशाष्टकम्</title><author>(missing)</author></fileDesc><publicationStmt><publisher>Ambuda (https://ambuda.org)</publisher><availability>TODO</availability></publicationStmt><notesStmt><note>This text has been created by direct export from Ambuda's proofing system.</note></notesStmt><encodingDesc><projectDesc><p>Ambuda is an online library of Sanskrit literature.</p></projectDesc></encodingDesc></teiHeader><text><body><lg n="1"><l>यतोऽनंतशक्तेरन्ताश्चजीवा यतो निर्गुणादप्रमेया गुणास्ते ।</l><l>यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः १</l></lg><p n="2">यतश्चाविरासीज्जगत्सर्वमेतत्तथान्जासनो विश्वगो विश्वगोप्ता तथेंद्रादयो देवसंघा मनुष्याः सदा तं गणेशं नमामो भजामः ॥२॥</p><lg n="3"><l>यतो वह्निभानू भवो भूर्जलं च यतः सागराचंद्रमा व्योम वायुः ।</l><l>यतः स्थावरा जंगमा वृक्षसंघाः सदा तं गणेशं नमामो भजामः  ॥३॥</l></lg><p n="4">यतो दानवाः किन्नरा यक्षसंघा यतश्चारणा वारणाः श्वापदाश्च यतः पक्षिकीटा यतो वीरुधश्च सदा तं गणेशं नमामो भजामः ॥४॥</p><lg n="5"><l>यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतः संपदो भक्तसंतोषिकाः स्युः।</l><l>यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥५॥</l></lg><p n="6">यतः पुत्रसंपद्यतो वाञ्छितार्थो यतोऽभक्तविघ्नास्तथाऽनेकरूपाः यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः ।६।</p><lg n="7"><l>यतोऽनंतशक्तिः स शेषो बभूव घराधारणेऽनेक रूपे च शक्तः ।</l><l>यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥ ७ ॥</l></lg><lg n="8"><l>यतो वेदवाचो विकुंठा मनोभिः सदा नेति नेतीति यत्ता गृणंति ।</l><l>परब्रह्मरूपं चिदानंदभूतं सदा तं गणेशं नमामो भजामः ॥ ८॥</l></lg><lg n="9"><l>पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।</l><l>त्रिसंध्यं त्रिदिनं तस्य सर्वकार्ये भविष्यति ॥ <sic>६</sic><corr>९</corr> ॥</l></lg><lg n="10"><l>यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् ।</l><l>अष्टवारं चतुर्थ्यो तु सोऽष्टसिद्धीरवाप्नुयात् ॥ १० ॥</l></lg><lg n="11"><l>यः पठेन्मासमात्रं तु दशवारं दिनेदिने ।</l><l>स मोचयेद्बंन्धगतं राजवध्यं न संशयः ॥ ११ ॥</l></lg><lg n="12"><l>विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।</l><l>वांछिताँल्लभ​ते सर्वानेकविंशतिवारतः ॥ १२ ॥</l></lg><lg n="13"><l>यो जपेत्परया भक्त्या गजाननपरो नरः ।</l><l>एवमुक्त्वा ततो देवश्चांन्तर्धानं गतः प्रभुः ॥ १३ ॥</l></lg></body></text></TEI>