दक्षिणामूर्तिस्तोत्रम्

उपासकानां यदुपासनीय-मुपात्तवासं वटशास्त्रिमूले ।तद्धाम दाक्षिण्यजुषा स्वमूर्त्याजागर्तु चित्ते मम बोधरूपम् ॥ १ ॥
अद्राक्षमक्षीणदयानिधान-माचार्यमाद्यं वटमूलभागे ।मौनेन मन्दस्मितभूषितेनमहर्षिलोकस्य तमो नुदन्तम् ॥ २ ॥
विद्राविताशेषतमोगणेनमुद्राविशेषेण मुहुर्मुनीनाम् ।निरस्य मायां दयया विधत्तेदेवो महांस्तत्त्वमसीति बोधम् ॥ ३ ॥
अपारकारुण्यसुधातरङ्गै-रपाङ्गपातैरवलोकयन्तम् ।कठोरसंसारनिदाघतप्ता-न्मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४ ॥
ममाद्यदेवो वटमूलवासीकृपाविशेषात्कृतसंनिधानः ।ओंकाररूपामुपदिश्य विद्या-माविद्यकध्वान्तमपाकरोतु ॥ ५ ॥
कलाभिरिन्दोरिव कल्पिताङ्गंमुक्ताकलापैरिव बद्धमूर्तिम् ।आलोकये देशिकमप्रमेय-मनाद्यविद्यातिमिरप्रभातम् ॥ ६ ॥
स्वदक्षजानुस्थितवामपादंपादोदरालंकृतयोगपट्टम् ।अपस्मृतेराहितपादमङ्गेप्रणौमि देवं प्रणिधानवन्तम् ॥ ७ ॥
तत्वार्थमन्तेवसतामृषीणांयुवापि यः सन्नुपदेष्टुमीष्टे ।प्रणौमि तं प्राक्तनपुण्यजालै-राचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥
एकेन मुद्रां परशुं करेणकरेण चान्येन मृगं दधानः ।स्वजानुविन्यस्तकरः पुरस्ता-दाचार्यचूडामणिराविरस्तु ॥ ९ ॥
आलेपवन्तं मदनाङ्गभूत्याशार्दूलकृत्त्या परिधानवन्तम् ।आलोकये कंचन देशिकेन्द्र-मज्ञानवाराकरबाडबाग्निम् ॥ १० ॥
चारुस्थितं सोमकलावतंसंवीणाधरं व्यक्तजटाकलापम् ।उपासते केचन योगिनस्त्व-मुपात्तनादानुभवप्रमोदम् ॥ ११ ॥
उपासते यं मुनयः शुकाद्यानिराशिषो निर्ममताधिवासाः ।तं दक्षिणामूर्तितनुं महेश-मुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥
कान्त्या निन्दितकुन्दकंदलवपुर्न्यग्रोधमूले वस-न्कारुण्यामृतवारिभिर्मुनिजनं संभावयन्वीक्षितैः ।मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशादेवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥
अगौरनेत्रैरललाटनेत्रै-रशान्तवेषैरभुजंगभूषैः ।अबोधमुद्रैरनपास्तनिद्रै-रपूरकामैरमरैरलं नः ॥ १४ ॥
दैवतानि कति सन्ति चावनौनैव तानि मनसो मतानि मे ।दीक्षितं जडधियामनुग्रहेदक्षिणाभिमुखमेव दैवतम् ॥ १५ ॥
मुदिताय मुग्धशशिनावतंसिनेभसितावलेपरमणीयमूर्तये ।जगदिन्द्रजालरचनापटीयसेमहसे नमोऽस्तु वटमूलवासिने ॥ १६ ॥
व्यालम्बिनीभिः परितो जटाभिःकलावशेषेण कलाधरेण ।पश्यल्ललाटेन मुखेन्दुना चप्रकाशसे चेतसि निर्मलानाम् ॥ १७ ॥
उपासकानां त्वमुमासहायःपूर्णेन्दुभावं प्रकटीकरोषि ।यदद्य ते दर्शनमात्रतो मेद्रवत्यहो मानसचन्द्रकान्तः ॥ १८ ॥
यस्ते प्रसन्नामनुसंदधानोमूर्तिं मुदा मुग्धशशाङ्कमौलेः ।ऐश्वर्यमायुर्लभते च विद्या-मन्ते च वेदान्तमहारहस्यम् ॥ १९ ॥
इति दक्षिणामूर्तिस्तोत्रं संपूर्णम् ॥

Settings