चारुचर्या

Click on words to see what they mean.

श्रीलाभसुभगः सत्यासक्तः स्वर्गापवर्गदः ।जयतात् त्रिजगत्पूज्यः सदाचार इवाच्युतः ॥ १ ॥
ब्राह्मे मुहूर्ते पुरुषस्त्यजेन्निद्रामतन्द्रितः ।प्रातः प्रबुद्धं कमलमाश्रयेच्छ्रीर्गुणाश्रया ॥ २ ॥
पुण्यपूतशरीरः स्यात् सततं स्नाननिर्मलः ।तत्याज वृत्रहा स्नानात् पापं वृत्रवधार्जितम् ॥ ३ ॥
न कुर्वीत क्रियां कांचिदनभ्यर्च्य महेश्वरम् ।ईशार्चनरतं श्वेतं नाभून्नेतुं यमः क्षमः ॥ ४ ॥
श्राद्धं श्रद्धान्वितं कुर्याच्छास्त्रोक्तेनैव वर्त्मना ।भुवि पिण्डं ददौ विद्वान् भीष्मः पाणौ न शन्तनोः ॥ ५ ॥
नोत्तरस्यां प्रतीच्यां वा कुर्वीत शयने शिरः ।शय्याविपर्ययाद् गर्भो दितेः शक्रेण पातितः ॥ ६ ॥
अर्थिभुक्तावशिष्टं यत् तदश्नीयान्महाशयः ।श्वेतोऽर्थिरहितं भुक्त्वा निजमांसाशनोऽभवत् ॥ ७ ॥
जपहोमार्चनं कुर्यात् सुधौतचरणः शुचिः ।पादशौचविहीनं हि प्रविवेश नलं कलिः ॥ ८ ॥
न सञ्चरणशीलः स्यान्निशि निःशङ्कमानसः ।माण्डव्यः शूललीनोऽभूदचौरश्चौरशङ्कया ॥ ९ ॥
न कुर्यात् परदारेच्छां विश्वासं स्त्रीषु वर्जयेत् ।हतो दशास्यः सीतार्थे हतः पत्न्या विदूरथः ॥ १० ॥
न मद्यव्यसनी क्षीबः कुर्याद् वेतालचेष्टितम् ।वृष्णयो हि ययुः क्षीबास्तृणप्रहरणाः क्षयम् ॥ ११ ॥
ईर्ष्या कलहमूलं स्यात् क्षमा मूलं हि सम्पदाम् ।ईर्ष्यादोषाद् विप्रशापमवाप जनमेजयः ॥ १२ ॥
न त्यजेद् धर्ममर्यादामपि क्लेशदशां श्रितः ।हरिश्चन्द्रो हि धर्मार्थी सेहे चण्डालदासताम् ॥ १३ ॥
न सत्यव्रतभङ्गेन कार्यं धीमान् प्रसाधयेत् ।ददर्श नरकक्लेशं सत्यनाशाद् युधिष्ठिरः ॥ १४ ॥
कुर्वीत संगतं सद्भिर्नासद्भिर्गुणवर्जितैः ।प्राप राघवसंगत्या प्राज्यं राज्यं विभीषणः ॥ १५ ॥
मातरं पितरं भक्त्या तोषयेन्न प्रकोपयेत् ।मातृशापेन नागानां सर्पसत्त्रेऽभवत् क्षयः ॥ १६ ॥
जराग्रहणतुष्टेन निजयौवनदः सुतः ।कृतः कनीयान् प्रणतश्चक्रवर्ती ययातिना ॥ १७ ॥
दानं सत्त्वमितं दद्यान्न पश्चात्तापदूषितम् ।बलिनात्मार्पितो बन्धे दानशेषस्य शुद्धये ॥ १८ ॥
त्यागे सत्त्वनिधिः कुर्यान्न प्रत्युपकृतिस्पृहाम् ।कर्णः कुण्डलदानेऽभूत् कलुषः शक्तियाच्ञया ॥ १९ ॥
ब्राह्मणान्नावमन्येत ब्रह्मशापो हि दुःसहः ।तक्षकाग्नौ ब्रह्मशापात् परीक्षिदगमत् क्षयम् ॥ २० ॥
दम्भारम्भोद्धतं धर्मं नाचरेदन्तनिष्फलम् ।ब्राह्मण्यदम्भलब्धास्त्रविद्या कर्णस्य निष्फला ॥ २१ ॥
नासेव्यसेवया दध्याद् दैवाधीने धने धियम् ।भीष्मद्रोणादयो याताः क्षयं दुर्योधनाश्रयात् ॥ २२ ॥
परप्राणपरित्राणपरः कारुण्यवान् भवेत् ।मांसं कपोतरक्षायै स्वं श्येनाय ददौ शिबिः ॥ २३ ॥
अद्वेषपेशलं कुर्यान्मनः कुसुमकोमलम् ।बभूव द्वेषदोषेण देवदानवसंक्षयः ॥ २४ ॥
अविस्मृतोपकारः स्यान्न कुर्वीत कृतघ्नताम् ।हत्वोपकारिणं विप्रो नाडीजङ्घमधश्च्युतः ॥ २५ ॥
स्त्रीजितो न भवेद् धीमान् गाढरागवशीकृतः ।पुत्रशोकाद् दशरथो जीवं जायाजितोऽत्यजत् ॥ २६ ॥
न स्वयं संस्तुतिपदैर्ग्लानिं गुणगणं नयेत् ।स्वगुणस्तुतिवादेन ययातिरपतद् दिवः ॥ २७ ॥
क्षिपेद् वाक्यशरांस्तीक्ष्णान्न पारुष्यव्युपप्लुतान् ।वाक्पारुष्यरुषा चक्रे भीमः कुरुकुलक्षयम् ॥ २८ ॥
परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभोः प्रियम् ।पैशुन्येन गतौ राहोश्चन्द्रार्कौ भक्षणीयताम् ॥ २९ ॥
कुर्यान्नीचजनाभ्यस्तां न याच्ञां मानहारिणीम् ।बलियाच्ञापरः प्राप लाघवं पुरुषोत्तमः ॥ ३० ॥
न बन्धुसंबन्धिजनं दूषयेन्नापि वर्जयेत् ।दक्षयज्ञक्षयायाभूत् त्रिनेत्रस्य विमानना ॥ ३१ ॥
न विवादमदान्धः स्यान्न परेषाममर्षणः ।वाक्पारुष्याच्छिरश्छिन्नं शिशुपालस्य शौरिणा ॥ ३२ ॥
गुणस्तवेन कुर्वीत महतां मानवर्धनम् ।हनूमानभवत् स्तुत्या रामकार्यभरक्षमः ॥ ३३ ॥
नात्यर्थमर्थार्थनया धीमानुद्वेजयेज्जनम् ।अब्धिर्दत्ताश्वरत्नश्रीर्मथ्यमानोऽसृजद् विषम् ॥ ३४ ॥
वक्रैः क्रूरतरैर्लुब्धैर्न कुर्यात् प्रीतिसंगतिम् ।वसिष्ठस्याहरद् धेनुं विश्वामित्रो निमन्त्रितः ॥ ३५ ॥
तीव्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत् ।विश्वामित्रोऽपि सोत्कण्ठः कण्ठे जग्राह मेनकाम् ॥ ३६ ॥
कुर्याद्वियोगदुःखेषु धैर्यमुत्सृज्य दीनताम् ।अश्वत्थामवधं श्रुत्वा द्रोणो गतधृतिर्हतः ॥ ३७ ॥
न क्रोधयातुधानस्य धीमान् गच्छेदधीनताम् ।पपौ राक्षसवद् भीमः क्षतजं रिपुवक्षसः ॥ ३८ ॥
त्यजेद् मृगव्यव्यसनं हिंसयातिमलीमसम् ।मृगयारसिकः पाण्डुः शापेन तनुमत्यजत् ॥ ३९ ॥
शिवेनेव न तुष्टेन बुद्धिर्देया विनाशिनी ।भस्मासुराय वरदः स हि तेन विडम्बितः ॥ ४० ॥
न जातूल्लङ्घनं कुर्यात् सतां मर्मविदारणम् ।चिच्छेद वदनं शम्भुर्ब्रह्मणो वेदवादिनः ॥ ४१ ॥
गुणेष्वेवादरं कुर्यान्न जातौ जातु तत्त्ववित् ।द्रौणिर्द्विजोऽभवच्छूद्रः शूद्रश्च विदुरः क्षमी ॥ ४२ ॥
विद्योद्योगी गतोद्वेगः सेवया तोषयेद् गुरुम् ।गुरुसेवापरः सेहे कायक्लेशदशां कचः ॥ ४३ ॥
स्वामिसेवारतं भक्तं निर्दोषं न परित्यजेत् ।रामस्त्यक्त्वा सतीं सीतां शोकशल्यातुरोऽभवत् ॥ ४४ ॥
रक्षेत् ख्यातिं पुनःस्मृत्या यशःकायस्य जीवनीम् ।च्युतः स्मृतो जनैः स्वर्गमिन्द्रद्युम्नः पुनर्गतः ॥ ४५ ॥
न कदर्यतया रक्षेल्लक्ष्मीं क्षिप्रपलायिनीम् ।युक्त्या व्याडीन्द्रदत्ताभ्यां हृता श्रीर्नन्दभूभृतः ॥४६॥
शक्तिक्षये क्षमां कुर्यान्नाशक्तः शक्तमाक्षिपेत् ।कार्तवीर्यः ससंरम्भं बबन्ध दशकन्धरम् ॥ ४७ ॥
वेश्यावचसि विश्वासी न भवेन्नित्यकैतवे ।ऋष्यशृङ्गोऽपि निःसङ्गः शृङ्गारी वेश्यया कृतः ॥ ४८ ॥
अल्पमप्यवमन्येत न शत्रुं बलदर्पितः ।रामेण रामः शिशुना ब्राह्मण्यदययोज्झितः ॥ ४९ ॥
नृशंसं क्रूरकर्माणं विश्वसेन्न कदाचन ।जगद्वैरी जरासंधः पाण्डवेन द्विधा कृतः ॥ ५० ॥
औचित्यप्रच्युताचारो युक्त्या स्वार्थं न साधयेत् ।व्याजवालिवधेनैव रामकीर्तिः कलङ्किता ॥ ५१ ॥
वर्जयेदिन्द्रियजयी विजने जननीमपि ।पुत्रीकृतोऽपि प्रद्युम्नः कामितः शम्बरस्त्रिया ॥ ५२ ॥
न तीव्रतपसां कुर्याद् धैर्यविप्लवचापलम् ।नेत्राग्निशलभीभावं भवोऽनैषीन्मनोभवम् ॥ ५३ ॥
न नित्यकलहाक्रान्ते सक्तिं कुर्वीत कैतवे ।अन्यथाकृद्विपन्नोऽभूद्धर्मराजो युधिष्ठिरः ॥ ५४ ॥
प्रभुप्रसादे सत्याशां न कुर्यात् स्वप्नसंनिभे ।नन्देन मन्त्री निहितः शकटालो हि बन्धने ॥ ५५ ॥
न लोकायतवादेन नास्तिकत्वेऽर्पयेद् धियम् ।हरिर्हिरण्यकशिपुं जघान स्तम्भनिर्गतः ॥ ५६ ॥
अत्युन्नतपदारूढः पूज्यान्नैवावमानयेत् ।नहुषः शक्रतामेत्य च्युतोऽगस्त्यावमाननात् ॥ ५७ ॥
सन्धिं विधाय रिपुणा न निःशङ्कः सुखी भवेत् ।सन्धिं कृत्वावधीदिन्द्रो वृत्रं निःशङ्कमानसम् ॥ ५८ ॥
हितोपदेशं श्रुत्वा तु कुर्वीत च यथोचितम् ।विदुरोक्तमकृत्वा तु शोच्योऽभूत् कौरवेश्वरः ॥ ५९ ॥
बह्वन्नाशनलोभेन रोगी मन्दरुचिर्भवेत् ।प्रभूताज्यभुजो जाड्यं दहनस्याप्यजायत ॥ ६० ॥
यत्नेन शोषयेद्दोषान्न तु तीव्रव्रतैस्तनुम् ।तपसा कुम्भकर्णोऽभून्नित्यनिद्राविचेतनः ॥ ६१ ॥
स्थिरताशां न बध्नीयाद् भुवि भावेषु भाविषु ।रामो रघुः शिबिः पाण्डुः क्व गतास्ते नराधिपाः ॥ ६२ ॥
विडम्बयेन्न वृद्धानां वाक्यकर्मवपुःक्रियाः ।श्रीसुतः प्राप वैरूप्यं विडम्बिततनुर्मुनेः ॥ ६३ ॥
नोपदेशेऽप्यभव्यानां मिथ्या कुर्यात् प्रवादिताम् ।शुक्रषाड्गुण्यगुप्तापि प्रक्षीणा दैत्यसंततिः ॥ ६४ ॥
न तीव्रदीर्घवैराणां मन्युं मनसि रोपयेत् ।कोपेनापातयन्नन्दं चाणक्यः सप्तभिर्दिनैः ॥ ६५ ॥
न सतीनां तपोदीप्तं कोपयेत् क्रोधपावकम् ।वधाय दशकण्ठस्य वेदवत्यत्यजत्तनुम् ॥ ६६ ॥
गुरुमाराधयेद् भक्त्या विद्याविनयसाधनम् ।रामाय प्रददौ तुष्टो विश्वामित्रोऽस्त्रमण्डलम् ॥ ६७ ॥
वसु देयं स्वयं दद्याद् बलाद् यद् दापयेत् परः ।द्रुपदोऽपह्नवी राज्यं द्रोणेनाक्रम्य दापितः ॥ ६८ ॥
साधयेद्धर्मकामार्थान् परस्परमबाधकान् ।त्रिवर्गसाधना भूपा बभूवुः सगरादयः ॥ ६९ ॥
स्वकुलान्न्यूनतां नेच्छेत् तुल्यः स्यादथवाधिकः ।सोत्कर्षेऽपि रघोर्वंशे रामोऽभूत् स्वकुलाधिकः ॥ ७० ॥
कुर्यात्तीर्थाम्बुभिः पूतमात्मानं सततोज्ज्वलम् ।लोमशादिष्टतीर्थेभ्यः प्रापुः पार्थाः कृतार्थताम् ॥ ७१ ॥
आपत्कालोपयुक्तासु कलासु स्यात् कृतश्रमः ।नृत्तवृत्तिर्विराटस्य किरीटी भवनेऽभवत् ॥ ७२ ॥
अरागभोगसुभगः स्यात् प्रसक्तविरक्तधीः ।राज्ये जनकराजोऽभून्निर्लेपोऽम्भसि पद्मवत् ॥ ७३ ॥
अशिष्यसेवया लाभलोभेन स्याद् गुरुर्लघुः ।संवर्तयज्ञयाच्ञाभिर्लज्जां लेभे बृहस्पतिः ॥ ७४ ॥
नष्टशीलां त्यजेन्नारीं रागवृद्धिविधायिनीम् ।चन्द्रोच्छिष्टाधिकप्रीत्यै पत्नी निन्द्याप्यभूद् गुरोः ॥ ७५ ॥
न गीतवाद्याभिरतिर्विलासव्यसनी भवेत् ।वीणाविनोदव्यसनी वत्सेशः शत्रुणा हृतः ॥ ७६ ॥
उद्वेजयेन्न तैक्ष्ण्येन रामाः कुसुमकोमलाः ।सूर्यो भार्याभयोच्छित्त्यै तेजो निजमशातयत् ॥ ७७ ॥
पद्मवन्न नयेत् कोषं धूर्तभ्रमरभोज्यताम् ।सुरैः क्रमेण नीतार्थः श्रीहीनोऽभूत् पुराम्बुधिः ॥ ७८ ॥
नोपदेशामृतं प्राप्तं भग्नकुम्भनिभस्त्यजेत् ।पार्थो विस्मृतगीतार्थः सासूयः कलहेऽभवत् ॥ ७९ ॥
न पुत्रायत्तमैश्वर्यं कार्यमार्यैः कदाचन ।पुत्रार्पितप्रभुत्वोऽभूद् धृतराष्ट्रस्तृणोपमः ॥ ८० ॥
न शत्रुशेषदूष्याणां स्कन्धे कार्यं समर्पयेत् ।निष्प्रतापोऽभवत् कर्णः शल्यतेजोवधार्दितः ॥ ८१ ॥
न लब्धे प्रभुसंमाने फलक्लेशं समाश्रयेत् ।ईश्वरेण धृतो मूर्ध्नि क्षीण एव क्षपापतिः ॥ ८२ ॥
श्रुतिस्मृत्युक्तमाचारं न त्यजेत् साधुसेवितम् ।दैत्यानां श्रीवियोगोऽभूत् सत्यधर्मच्युतात्मनाम् ॥ ८३ ॥
श्रियः कुर्यात् पलायिन्या बन्धाय गुणसंग्रहम् ।दैत्यांस्त्यक्त्वा श्रिता देवा निर्गुणान्सगुणाः श्रिया ॥ ८४ ॥
पदाग्निं गां गुरुं देवं न चोच्छिष्टः स्पृशेद् घृतम् ।दानवानां विनष्टा श्रीरुच्छिष्टस्पृष्टसर्पिषाम् ॥ ८५ ॥
प्रतिलोमविवाहेषु न कुर्यादुन्नतिस्पृहाम् ।ययातिः शुक्रकन्यायां सस्पृहो म्लेच्छतां गतः ॥ ८६ ॥
रूपार्थकुलविद्यादिहीनं नोपहसेन्नरम् ।हसन्तमशपन्नन्दी रावणं वानराननः ॥ ८७ ॥
बन्धूनां वारयेद् वैरं नैकपक्षाश्रयो भवेत् ।कुरुपाण्डवसङ्ग्रामे युयुधे न हलायुधः ॥ ८८ ॥
परोपकारं संसारसारं कुर्वीत सत्त्ववान् ।निदधे भगवान् बुद्धः सर्वसत्त्वोद्धृतौ धियम् ॥ ८९ ॥
विभृयाद् बन्धुमधनं मित्रं त्रायेत दुर्गतम् ।बन्धुमित्रोपजीव्योऽभूदर्थिकल्पद्रुमो बलिः ॥ ९० ॥
न कुर्यादभिचारोग्रवध्यादिकुहकाः क्रियाः ।लक्ष्मणेनेन्द्रजित् कृत्याद्यभिचारमयो हतः ॥ ९१ ॥
ब्रह्मचारी गृहस्थः स्याद् वानप्रस्थो यतिः क्रमात् ।आश्रमादाश्रमं याता ययातिप्रमुखा नृपाः ॥ ९२ ॥
कुर्याद् व्ययं स्वहस्तेन प्रभूतधनसंपदाम् ।अगस्त्यभुक्ते वातापौ कोषस्यान्यैः कृतो व्ययः ॥ ९३ ॥
जन्मावधि न तत् कुर्यादन्ते संतापकारि यत् ।सस्मारैकशिरःशेषः सीताक्लेशं दशाननः ॥ ९४ ॥
जराशुभ्रेषु केशेषु तपोवनरुचिर्भवेत् ।अन्ते वनं ययुर्धीराः कुरुपूर्वा महीभुजः ॥ ९५ ॥
पुनर्जन्मजराच्छेदकोविदः स्याद् वयःक्षये ।विदुरेण पुनर्जन्मबीजं ज्ञानातले हुतम् ॥ ९६ ॥
परमात्मानमन्तेऽन्तर्ज्योतिः पश्येत् सनातनम् ।तत्प्राप्त्या योगिनो जाताः शुकशान्तनवादयः ॥ ९७ ॥
प्राप्तावधिरजीवेऽपि जीवेत् सुकृतसंततिः ।जीवन्त्यद्यापि मांधातृमुखाः कायैर्यशोमयैः ॥ ९८ ॥
अन्ते संतोषदं विष्णुं स्मरेद्धन्तारमापदाम् ।शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ ९९ ॥
श्रव्या श्रीव्यासदासेन समासेन सतां मता ।क्षेमेन्द्रेण विचार्येयं चारुचर्या प्रकाशिता ॥ १०० ॥
« »