<?xml version='1.0' encoding='utf-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0"><teiHeader><fileDesc><title>चारुचर्या</title><author>क्षेमेन्द्रः</author></fileDesc><publicationStmt><publisher>Ambuda (https://ambuda.org)</publisher><availability>TODO</availability></publicationStmt><notesStmt><note>This text has been created by direct export from Ambuda's proofing system.</note></notesStmt><encodingDesc><projectDesc><p>Ambuda is an online library of Sanskrit literature.</p></projectDesc></encodingDesc></teiHeader><text><body><lg n="1"><l>श्रीलाभसुभगः सत्यासक्तः स्वर्गापवर्गदः ।</l><l>जयतात् त्रिजगत्पूज्यः सदाचार इवाच्युतः ॥ १ ॥</l></lg><lg n="2"><l>ब्राह्मे मुहूर्ते पुरुषस्त्यजेन्निद्रामतन्द्रितः ।</l><l>प्रातः प्रबुद्धं कमलमाश्रयेच्छ्रीर्गुणाश्रया ॥ २ ॥</l></lg><lg n="3"><l>पुण्यपूतशरीरः स्यात् सततं स्नाननिर्मलः ।</l><l>तत्याज वृत्रहा स्नानात् पापं वृत्रवधार्जितम् ॥ ३ ॥</l></lg><lg n="4"><l>न कुर्वीत क्रियां कांचिदनभ्यर्च्य महेश्वरम् ।</l><l>ईशार्चनरतं श्वेतं नाभून्नेतुं यमः क्षमः ॥ ४ ॥</l></lg><lg n="5"><l>श्राद्धं श्रद्धान्वितं कुर्याच्छास्त्रोक्तेनैव वर्त्मना ।</l><l>भुवि पिण्डं ददौ विद्वान् भीष्मः पाणौ न शन्तनोः ॥ ५ ॥</l></lg><lg n="6"><l>नोत्तरस्यां प्रतीच्यां वा कुर्वीत शयने शिरः ।</l><l>शय्याविपर्ययाद् गर्भो दितेः शक्रेण पातितः ॥ ६ ॥</l></lg><lg n="7"><l>अर्थिभुक्तावशिष्टं यत् तदश्नीयान्महाशयः ।</l><l>श्वेतोऽर्थिरहितं भुक्त्वा निजमांसाशनोऽभवत् ॥ ७ ॥</l></lg><lg n="8"><l>जपहोमार्चनं कुर्यात् सुधौतचरणः शुचिः ।</l><l>पादशौचविहीनं हि प्रविवेश नलं कलिः ॥ ८ ॥</l></lg><lg n="9"><l>न सञ्चरणशीलः स्यान्निशि निःशङ्कमानसः ।</l><l>माण्डव्यः शूललीनोऽभूदचौरश्चौरशङ्कया ॥ ९ ॥</l></lg><lg n="10"><l>न कुर्यात् परदारेच्छां विश्वासं स्त्रीषु वर्जयेत् ।</l><l>हतो दशास्यः सीतार्थे हतः पत्न्या विदूरथः ॥ १० ॥</l></lg><lg n="11"><l>न मद्यव्यसनी क्षीबः कुर्याद् वेतालचेष्टितम् ।</l><l>वृष्णयो हि ययुः क्षीबास्तृणप्रहरणाः क्षयम् ॥ ११ ॥</l></lg><lg n="12"><l>ईर्ष्या कलहमूलं स्यात् क्षमा मूलं हि सम्पदाम् ।</l><l>ईर्ष्यादोषाद् विप्रशापमवाप जनमेजयः ॥ १२ ॥</l></lg><lg n="13"><l>न त्यजेद् धर्ममर्यादामपि क्लेशदशां श्रितः ।</l><l>हरिश्चन्द्रो हि धर्मार्थी सेहे चण्डालदासताम् ॥ १३ ॥</l></lg><lg n="14"><l>न सत्यव्रतभङ्गेन कार्यं धीमान् प्रसाधयेत् ।</l><l>ददर्श नरकक्लेशं सत्यनाशाद् युधिष्ठिरः ॥ १४ ॥</l></lg><lg n="15"><l>कुर्वीत संगतं सद्भिर्नासद्भिर्गुणवर्जितैः ।</l><l>प्राप राघवसंगत्या प्राज्यं राज्यं विभीषणः ॥ १५ ॥</l></lg><lg n="16"><l>मातरं पितरं भक्त्या तोषयेन्न प्रकोपयेत् ।</l><l>मातृशापेन नागानां सर्पसत्त्रेऽभवत् क्षयः ॥ १६ ॥</l></lg><lg n="17"><l>जराग्रहणतुष्टेन निजयौवनदः सुतः ।</l><l>कृतः कनीयान् प्रणतश्चक्रवर्ती ययातिना ॥ १७ ॥</l></lg><lg n="18"><l>दानं सत्त्वमितं दद्यान्न पश्चात्तापदूषितम् ।</l><l>बलिनात्मार्पितो बन्धे दानशेषस्य शुद्धये ॥ १८ ॥</l></lg><lg n="19"><l>त्यागे सत्त्वनिधिः कुर्यान्न प्रत्युपकृतिस्पृहाम् ।</l><l>कर्णः कुण्डलदानेऽभूत् कलुषः शक्तियाच्ञया ॥ १९ ॥</l></lg><lg n="20"><l>ब्राह्मणान्नावमन्येत ब्रह्मशापो हि दुःसहः ।</l><l>तक्षकाग्नौ ब्रह्मशापात् परीक्षिदगमत् क्षयम् ॥ २० ॥</l></lg><lg n="21"><l>दम्भारम्भोद्धतं धर्मं नाचरेदन्तनिष्फलम् ।</l><l>ब्राह्मण्यदम्भलब्धास्त्रविद्या कर्णस्य निष्फला ॥ २१ ॥</l></lg><lg n="22"><l>नासेव्यसेवया दध्याद् दैवाधीने धने धियम् ।</l><l>भीष्मद्रोणादयो याताः क्षयं दुर्योधनाश्रयात् ॥ २२ ॥</l></lg><lg n="23"><l>परप्राणपरित्राणपरः कारुण्यवान् भवेत् ।</l><l>मांसं कपोतरक्षायै स्वं श्येनाय ददौ शिबिः ॥ २३ ॥</l></lg><lg n="24"><l>अद्वेषपेशलं कुर्यान्मनः कुसुमकोमलम् ।</l><l>बभूव द्वेषदोषेण देवदानवसंक्षयः ॥ २४ ॥</l></lg><lg n="25"><l>अविस्मृतोपकारः स्यान्न कुर्वीत कृतघ्नताम् ।</l><l>हत्वोपकारिणं विप्रो नाडीजङ्घमधश्च्युतः ॥ २५ ॥</l></lg><lg n="26"><l>स्त्रीजितो न भवेद् धीमान् गाढरागवशीकृतः ।</l><l>पुत्रशोकाद् दशरथो जीवं जायाजितोऽत्यजत् ॥ २६ ॥</l></lg><lg n="27"><l>न स्वयं संस्तुतिपदैर्ग्लानिं गुणगणं नयेत् ।</l><l>स्वगुणस्तुतिवादेन ययातिरपतद् दिवः ॥ २७ ॥</l></lg><lg n="28"><l>क्षिपेद् वाक्यशरांस्तीक्ष्णान्न पारुष्यव्युपप्लुतान् ।</l><l>वाक्पारुष्यरुषा चक्रे भीमः कुरुकुलक्षयम् ॥ २८ ॥</l></lg><lg n="29"><l>परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभोः प्रियम् ।</l><l>पैशुन्येन गतौ राहोश्चन्द्रार्कौ भक्षणीयताम् ॥ २९ ॥</l></lg><lg n="30"><l>कुर्यान्नीचजनाभ्यस्तां न याच्ञां मानहारिणीम् ।</l><l>बलियाच्ञापरः प्राप लाघवं पुरुषोत्तमः ॥ ३० ॥</l></lg><lg n="31"><l>न बन्धुसंबन्धिजनं दूषयेन्नापि वर्जयेत् ।</l><l>दक्षयज्ञक्षयायाभूत् त्रिनेत्रस्य विमानना ॥ ३१ ॥</l></lg><lg n="32"><l>न विवादमदान्धः स्यान्न परेषाममर्षणः ।</l><l>वाक्पारुष्याच्छिरश्छिन्नं शिशुपालस्य शौरिणा ॥ ३२ ॥</l></lg><lg n="33"><l>गुणस्तवेन कुर्वीत महतां मानवर्धनम् ।</l><l>हनूमानभवत् स्तुत्या रामकार्यभरक्षमः ॥ ३३ ॥</l></lg><lg n="34"><l>नात्यर्थमर्थार्थनया धीमानुद्वेजयेज्जनम् ।</l><l>अब्धिर्दत्ताश्वरत्नश्रीर्मथ्यमानोऽसृजद् विषम् ॥ ३४ ॥</l></lg><lg n="35"><l>वक्रैः क्रूरतरैर्लुब्धैर्न कुर्यात् प्रीतिसंगतिम् ।</l><l>वसिष्ठस्याहरद् धेनुं विश्वामित्रो निमन्त्रितः ॥ ३५ ॥</l></lg><lg n="36"><l>तीव्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत् ।</l><l>विश्वामित्रोऽपि सोत्कण्ठः कण्ठे जग्राह मेनकाम् ॥ ३६ ॥</l></lg><lg n="37"><l>कुर्याद्वियोगदुःखेषु धैर्यमुत्सृज्य दीनताम् ।</l><l>अश्वत्थामवधं श्रुत्वा द्रोणो गतधृतिर्हतः ॥ ३७ ॥</l></lg><lg n="38"><l>न क्रोधयातुधानस्य धीमान् गच्छेदधीनताम् ।</l><l>पपौ राक्षसवद् भीमः क्षतजं रिपुवक्षसः ॥ ३८ ॥</l></lg><lg n="39"><l>त्यजेद् मृगव्यव्यसनं हिंसयातिमलीमसम् ।</l><l>मृगयारसिकः पाण्डुः शापेन तनुमत्यजत् ॥ ३९ ॥</l></lg><lg n="40"><l>शिवेनेव न तुष्टेन बुद्धिर्देया विनाशिनी ।</l><l>भस्मासुराय वरदः स हि तेन विडम्बितः ॥ ४० ॥</l></lg><lg n="41"><l>न जातूल्लङ्घनं कुर्यात् सतां मर्मविदारणम् ।</l><l>चिच्छेद वदनं शम्भुर्ब्रह्मणो वेदवादिनः ॥ ४१ ॥</l></lg><lg n="42"><l>गुणेष्वेवादरं कुर्यान्न जातौ जातु तत्त्ववित् ।</l><l>द्रौणिर्द्विजोऽभवच्छूद्रः शूद्रश्च विदुरः क्षमी ॥ ४२ ॥</l></lg><lg n="43"><l>विद्योद्योगी गतोद्वेगः सेवया तोषयेद् गुरुम् ।</l><l>गुरुसेवापरः सेहे कायक्लेशदशां कचः ॥ ४३ ॥</l></lg><lg n="44"><l>स्वामिसेवारतं भक्तं निर्दोषं न परित्यजेत् ।</l><l>रामस्त्यक्त्वा सतीं सीतां शोकशल्यातुरोऽभवत् ॥ ४४ ॥</l></lg><lg n="45"><l>रक्षेत् ख्यातिं पुनःस्मृत्या यशःकायस्य जीवनीम् ।</l><l>च्युतः स्मृतो जनैः स्वर्गमिन्द्रद्युम्नः पुनर्गतः ॥ ४५ ॥</l></lg><lg n="46"><l>न कदर्यतया रक्षेल्लक्ष्मीं क्षिप्रपलायिनीम् ।</l><l>युक्त्या व्याडीन्द्रदत्ताभ्यां हृता श्रीर्नन्दभूभृतः ॥४६॥</l></lg><lg n="47"><l>शक्तिक्षये क्षमां कुर्यान्नाशक्तः शक्तमाक्षिपेत् ।</l><l>कार्तवीर्यः ससंरम्भं बबन्ध दशकन्धरम् ॥ ४७ ॥</l></lg><lg n="48"><l>वेश्यावचसि विश्वासी न भवेन्नित्यकैतवे ।</l><l>ऋष्यशृङ्गोऽपि निःसङ्गः शृङ्गारी वेश्यया कृतः ॥ ४८ ॥</l></lg><lg n="49"><l>अल्पमप्यवमन्येत न शत्रुं बलदर्पितः ।</l><l>रामेण रामः शिशुना ब्राह्मण्यदययोज्झितः ॥ ४९ ॥</l></lg><lg n="50"><l>नृशंसं क्रूरकर्माणं विश्वसेन्न कदाचन ।</l><l>जगद्वैरी जरासंधः पाण्डवेन द्विधा कृतः ॥ ५० ॥</l></lg><lg n="51"><l>औचित्यप्रच्युताचारो युक्त्या स्वार्थं न साधयेत् ।</l><l>व्याजवालिवधेनैव रामकीर्तिः कलङ्किता ॥ ५१ ॥</l></lg><lg n="52"><l>वर्जयेदिन्द्रियजयी विजने जननीमपि ।</l><l>पुत्रीकृतोऽपि प्रद्युम्नः कामितः शम्बरस्त्रिया ॥ ५२ ॥</l></lg><lg n="53"><l>न तीव्रतपसां कुर्याद् धैर्यविप्लवचापलम् ।</l><l>नेत्राग्निशलभीभावं भवोऽनैषीन्मनोभवम् ॥ ५३ ॥</l></lg><lg n="54"><l>न नित्यकलहाक्रान्ते सक्तिं कुर्वीत कैतवे ।</l><l>अन्यथाकृद्विपन्नोऽभूद्धर्मराजो युधिष्ठिरः ॥ ५४ ॥</l></lg><lg n="55"><l>प्रभुप्रसादे सत्याशां न कुर्यात् स्वप्नसंनिभे ।</l><l>नन्देन मन्त्री निहितः शकटालो हि बन्धने ॥ ५५ ॥</l></lg><lg n="56"><l>न लोकायतवादेन नास्तिकत्वेऽर्पयेद् धियम् ।</l><l>हरिर्हिरण्यकशिपुं जघान स्तम्भनिर्गतः ॥ ५६ ॥</l></lg><lg n="57"><l>अत्युन्नतपदारूढः पूज्यान्नैवावमानयेत् ।</l><l>नहुषः शक्रतामेत्य च्युतोऽगस्त्यावमाननात् ॥ ५७ ॥</l></lg><lg n="58"><l>सन्धिं विधाय रिपुणा न निःशङ्कः सुखी भवेत् ।</l><l>सन्धिं कृत्वावधीदिन्द्रो वृत्रं निःशङ्कमानसम् ॥ ५८ ॥</l></lg><lg n="59"><l>हितोपदेशं श्रुत्वा तु कुर्वीत च यथोचितम् ।</l><l>विदुरोक्तमकृत्वा तु शोच्योऽभूत् कौरवेश्वरः ॥ ५९ ॥</l></lg><lg n="60"><l>बह्वन्नाशनलोभेन रोगी मन्दरुचिर्भवेत् ।</l><l>प्रभूताज्यभुजो जाड्यं दहनस्याप्यजायत ॥ ६० ॥</l></lg><lg n="61"><l>यत्नेन शोषयेद्दोषान्न तु तीव्रव्रतैस्तनुम् ।</l><l>तपसा कुम्भकर्णोऽभून्नित्यनिद्राविचेतनः ॥ ६१ ॥</l></lg><lg n="62"><l>स्थिरताशां न बध्नीयाद् भुवि भावेषु भाविषु ।</l><l>रामो रघुः शिबिः पाण्डुः क्व गतास्ते नराधिपाः ॥ ६२ ॥</l></lg><lg n="63"><l>विडम्बयेन्न वृद्धानां वाक्यकर्मवपुःक्रियाः ।</l><l>श्रीसुतः प्राप वैरूप्यं विडम्बिततनुर्मुनेः ॥ ६३ ॥</l></lg><lg n="64"><l>नोपदेशेऽप्यभव्यानां मिथ्या कुर्यात् प्रवादिताम् ।</l><l>शुक्रषाड्गुण्यगुप्तापि प्रक्षीणा दैत्यसंततिः ॥ ६४ ॥</l></lg><lg n="65"><l>न तीव्रदीर्घवैराणां मन्युं मनसि रोपयेत् ।</l><l>कोपेनापातयन्नन्दं चाणक्यः सप्तभिर्दिनैः ॥ ६५ ॥</l></lg><lg n="66"><l>न सतीनां तपोदीप्तं कोपयेत् क्रोधपावकम् ।</l><l>वधाय दशकण्ठस्य वेदवत्यत्यजत्तनुम् ॥ ६६ ॥</l></lg><lg n="67"><l>गुरुमाराधयेद् भक्त्या विद्याविनयसाधनम् ।</l><l>रामाय प्रददौ तुष्टो विश्वामित्रोऽस्त्रमण्डलम् ॥ ६७ ॥</l></lg><lg n="68"><l>वसु देयं स्वयं दद्याद् बलाद् यद् दापयेत् परः ।</l><l>द्रुपदोऽपह्नवी राज्यं द्रोणेनाक्रम्य दापितः ॥ ६८ ॥</l></lg><lg n="69"><l>साधयेद्धर्मकामार्थान् परस्परमबाधकान् ।</l><l>त्रिवर्गसाधना भूपा बभूवुः सगरादयः ॥ ६९ ॥</l></lg><lg n="70"><l>स्वकुलान्न्यूनतां नेच्छेत् तुल्यः स्यादथवाधिकः ।</l><l>सोत्कर्षेऽपि रघोर्वंशे रामोऽभूत् स्वकुलाधिकः ॥ ७० ॥</l></lg><lg n="71"><l>कुर्यात्तीर्थाम्बुभिः पूतमात्मानं सततोज्ज्वलम् ।</l><l>लोमशादिष्टतीर्थेभ्यः प्रापुः पार्थाः कृतार्थताम् ॥ ७१ ॥</l></lg><lg n="72"><l>आपत्कालोपयुक्तासु कलासु स्यात् कृतश्रमः ।</l><l>नृत्तवृत्तिर्विराटस्य किरीटी भवनेऽभवत् ॥ ७२ ॥</l></lg><lg n="73"><l>अरागभोगसुभगः स्यात् प्रसक्तविरक्तधीः ।</l><l>राज्ये जनकराजोऽभून्निर्लेपोऽम्भसि पद्मवत् ॥ ७३ ॥</l></lg><lg n="74"><l>अशिष्यसेवया लाभलोभेन स्याद् गुरुर्लघुः ।</l><l>संवर्तयज्ञयाच्ञाभिर्लज्जां लेभे बृहस्पतिः ॥ ७४ ॥</l></lg><lg n="75"><l>नष्टशीलां त्यजेन्नारीं रागवृद्धिविधायिनीम् ।</l><l>चन्द्रोच्छिष्टाधिकप्रीत्यै पत्नी निन्द्याप्यभूद् गुरोः ॥ ७५ ॥</l></lg><lg n="76"><l>न गीतवाद्याभिरतिर्विलासव्यसनी भवेत् ।</l><l>वीणाविनोदव्यसनी वत्सेशः शत्रुणा हृतः ॥ ७६ ॥</l></lg><lg n="77"><l>उद्वेजयेन्न तैक्ष्ण्येन रामाः कुसुमकोमलाः ।</l><l>सूर्यो भार्याभयोच्छित्त्यै तेजो निजमशातयत् ॥ ७७ ॥</l></lg><lg n="78"><l>पद्मवन्न नयेत् कोषं धूर्तभ्रमरभोज्यताम् ।</l><l>सुरैः क्रमेण नीतार्थः श्रीहीनोऽभूत् पुराम्बुधिः ॥ ७८ ॥</l></lg><lg n="79"><l>नोपदेशामृतं प्राप्तं भग्नकुम्भनिभस्त्यजेत् ।</l><l>पार्थो विस्मृतगीतार्थः सासूयः कलहेऽभवत् ॥ ७९ ॥</l></lg><lg n="80"><l>न पुत्रायत्तमैश्वर्यं कार्यमार्यैः कदाचन ।</l><l>पुत्रार्पितप्रभुत्वोऽभूद् धृतराष्ट्रस्तृणोपमः ॥ ८० ॥</l></lg><lg n="81"><l>न शत्रुशेषदूष्याणां स्कन्धे कार्यं समर्पयेत् ।</l><l>निष्प्रतापोऽभवत् कर्णः शल्यतेजोवधार्दितः ॥ ८१ ॥</l></lg><lg n="82"><l>न लब्धे प्रभुसंमाने फलक्लेशं समाश्रयेत् ।</l><l>ईश्वरेण धृतो मूर्ध्नि क्षीण एव क्षपापतिः ॥ ८२ ॥</l></lg><lg n="83"><l>श्रुतिस्मृत्युक्तमाचारं न त्यजेत् साधुसेवितम् ।</l><l>दैत्यानां श्रीवियोगोऽभूत् सत्यधर्मच्युतात्मनाम् ॥ ८३ ॥</l></lg><lg n="84"><l>श्रियः कुर्यात् पलायिन्या बन्धाय गुणसंग्रहम् ।</l><l>दैत्यांस्त्यक्त्वा श्रिता देवा निर्गुणान्सगुणाः श्रिया ॥ ८४ ॥</l></lg><lg n="85"><l>पदाग्निं गां गुरुं देवं न चोच्छिष्टः स्पृशेद् घृतम् ।</l><l>दानवानां विनष्टा श्रीरुच्छिष्टस्पृष्टसर्पिषाम् ॥ ८५ ॥</l></lg><lg n="86"><l>प्रतिलोमविवाहेषु न कुर्यादुन्नतिस्पृहाम् ।</l><l>ययातिः शुक्रकन्यायां सस्पृहो म्लेच्छतां गतः ॥ ८६ ॥</l></lg><lg n="87"><l>रूपार्थकुलविद्यादिहीनं नोपहसेन्नरम् ।</l><l>हसन्तमशपन्नन्दी रावणं वानराननः ॥ ८७ ॥</l></lg><lg n="88"><l>बन्धूनां वारयेद् वैरं नैकपक्षाश्रयो भवेत् ।</l><l>कुरुपाण्डवसङ्ग्रामे युयुधे न हलायुधः ॥ ८८ ॥</l></lg><lg n="89"><l>परोपकारं संसारसारं कुर्वीत सत्त्ववान् ।</l><l>निदधे भगवान् बुद्धः सर्वसत्त्वोद्धृतौ धियम् ॥ ८९ ॥</l></lg><lg n="90"><l>विभृयाद् बन्धुमधनं मित्रं त्रायेत दुर्गतम् ।</l><l>बन्धुमित्रोपजीव्योऽभूदर्थिकल्पद्रुमो बलिः ॥ ९० ॥</l></lg><lg n="91"><l>न कुर्यादभिचारोग्रवध्यादिकुहकाः क्रियाः ।</l><l>लक्ष्मणेनेन्द्रजित् कृत्याद्यभिचारमयो हतः ॥ ९१ ॥</l></lg><lg n="92"><l>ब्रह्मचारी गृहस्थः स्याद् वानप्रस्थो यतिः क्रमात् ।</l><l>आश्रमादाश्रमं याता ययातिप्रमुखा नृपाः ॥ ९२ ॥</l></lg><lg n="93"><l>कुर्याद् व्ययं स्वहस्तेन प्रभूतधनसंपदाम् ।</l><l>अगस्त्यभुक्ते वातापौ कोषस्यान्यैः कृतो व्ययः ॥ ९३ ॥</l></lg><lg n="94"><l>जन्मावधि न तत् कुर्यादन्ते संतापकारि यत् ।</l><l>सस्मारैकशिरःशेषः सीताक्लेशं दशाननः ॥ ९४ ॥</l></lg><lg n="95"><l>जराशुभ्रेषु केशेषु तपोवनरुचिर्भवेत् ।</l><l>अन्ते वनं ययुर्धीराः कुरुपूर्वा महीभुजः ॥ ९५ ॥</l></lg><lg n="96"><l>पुनर्जन्मजराच्छेदकोविदः स्याद् वयःक्षये ।</l><l>विदुरेण पुनर्जन्मबीजं ज्ञानातले हुतम् ॥ ९६ ॥</l></lg><lg n="97"><l>परमात्मानमन्तेऽन्तर्ज्योतिः पश्येत् सनातनम् ।</l><l>तत्प्राप्त्या योगिनो जाताः शुकशान्तनवादयः ॥ ९७ ॥</l></lg><lg n="98"><l>प्राप्तावधिरजीवेऽपि जीवेत् सुकृतसंततिः ।</l><l>जीवन्त्यद्यापि मांधातृमुखाः कायैर्यशोमयैः ॥ ९८ ॥</l></lg><lg n="99"><l>अन्ते संतोषदं विष्णुं स्मरेद्धन्तारमापदाम् ।</l><l>शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ ९९ ॥</l></lg><lg n="100"><l>श्रव्या श्रीव्यासदासेन समासेन सतां मता ।</l><l>क्षेमेन्द्रेण विचार्येयं चारुचर्या प्रकाशिता ॥ १०० ॥</l></lg></body></text></TEI>